OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 13, 2025

 भारतेङ्गलण्टयोः प्रथमचरणे कौतुकपूर्वसमाप्तिः। 

भारतमपि ३८७ धावनाङ्कैः बहिर्नीतम्। 

के एल् राहुलाय शतकम्।

लोर्ड्स्> भारतेङ्गलण्टयोः तृतीयनिकषस्पर्धायाः प्रथमचरणस्य कौतुकोपेतसमाप्तिः। प्रथमं कन्दुकताडनं कृतवति इङ्लण्टदले ३८७ धावनाङ्कैः बहिर्नीते अनुताडनं कृतवान् भारतदलोSपि ३८७ धावनाङ्कैः बहिर्गतवान्। 

  भारतस्य ताडकेषु के एल् राहुलः शतकं प्राप्तवान्। १०० धावनाङ्कान् सः सम्पादयामास। तं विना ऋषभपन्तः [७४] रवीन्द्र जडेजः च ताडनक्रियायां शशुभतुः।