OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 10, 2025

 वडोदरायां सेतुः विशीर्य ११ मरणानि।

वाहनानि नदीं अपतन्। 

विशीर्णः सेतुः, रक्षाप्रवर्तनं च। 

वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः। 

  मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।