OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 2, 2016

भगत् सिंहस्य निरपराधित्वं प्रकाशयितुं पाकिस्थानस्य न्यायालये वादः !

लाहोर्> स्वातन्त्रतान्दोलन सेनानी भगत् सिंहं विरुध्य मृत्युपातक आवेदने पाकिस्थानस्य न्यायालयेन बुधवासरादारभ्य वादं श्रूयते। बिट्टीष् शासकैः ८५ वर्षात् पूर्वम् मृत्युदण्डेन दण्डितः भगत् सिंहस्य निरपराधित्वं प्रमाणीकर्तुमेव वादः प्रचाल्यते । न्यायालयाभिभाषकः इन्तियास् राषिद् खुरेषिना एव उच्चन्यायालयस्य पुरतः आवेदनं कृतम् । 
भगत् सिंह-स्मृति संस्थायाः अध्यक्षः अयं खुरेषिमहाभागः ।
प्रधानमन्त्री अद्य कोष़िक्कोट् प्राप्नोति ।
कोष़िक्कोट् - भारतस्य प्रधानमन्त्री अद्य केरले कोष़िक्कोट्नगरे सम्पद्यमाने आगोल आयुर्वेदाघोषे भागभागित्वं करोति। दिल्लीतः प्रभाते ११.३० वादने कोष़िक्कोट् विमाननिलयं प्राप्यमानं मोदिवर्यं राज्यपालः ज.पि. सदाशिवं, मुख्यमन्त्री उम्मन्चाण्टि , केरलस्य कार्यदर्शिप्रमुखः जिजी तोम्सणः च स्वीकरिष्यन्ति। ततः कार् यानेन सम्मेलनस्थानं स्वप्ननगरीं प्राप्य अद्यतनसम्मेलनस्य उद्घाटनं करिष्यति।
केन्द्र आयुष् विभागमन्त्री श्रीपद् यशोनायिक् च प्रधानमन्त्रिणम् अनुगच्छति।

गङ्गायाः मलिनीकरणे ग्रामममालिन्यं नास्ति। 

न्यूदिल्ली:  बृहत् व्यवसायशालातः118 नगरसभामण्डलातः च निर्गलितेन मलिन्यजलेन गंगानद्याः नैर्मल्यं नष्टं अभवत् इति जलविभव गङ्गाशुचीकरण मन्त्रिण्या उमाभारत्या उक्तम्। गंगानद्याः समीपस्थाः 1600 ग्रामेषु मलिनजलं शुद्धीकर्तुं प्रथमप्राधान्येन श्रमं करोति।
गङ्गाशुचीकरणस्य विषयस्य चर्चायां  सहस्रपञ्चायत् दलस्य नेतारः उमाभारत्याः नेतृत्वे सम्मिलिताः। तत् संबन्धिनः एम् ओ यु मध्ये च हस्ताक्षरं  कृतवन्तः। उमाभारतीं विना केन्द्रमन्त्रिणः  नितिन् गड्करि, स्मृति इराणी, चौधरी बीरेन्द्र सिड़् च मेलने उपस्थिताः। 

गङ्गाशुचीकरणाय  पृथक् पञ्चग्रामान् संयोज्य पद्धतिराविष्कृता। मालिन्यजलसंस्करणाय ट्रीट्मेन्ट् प्लान्ट् निर्माणं कृतम्। आगामिनी मासे सहस्राणाम् शौचालयानां  च निर्माणं करिष्यन्ति । केन्द्रग्रामीणमन्त्रालयस्य नेतृत्वे स्मशानानि च निर्माणं करिष्यति इति उमाभारती उक्तवती। न तु ग्रामाः , नगरवत्करणस्य  व्यवसायशालायाः च प्रवर्तनं भवति गङ्गानद्याः मलिनीकरणकारणमिति मन्त्रिणी अवदत्। माहत्मागान्धी ग्रामीण-कर्मपद्धत्याम् अन्तर्भूतो भवति गङ्गानद्याः शुचीकरणम्। अतः अस्याः प्रवर्तनफलान्यपि ग्रामीणेभ्यः  लप्स्यते इति सा अवदत्।

Monday, February 1, 2016

 चन्दिरमातुलः भूमातुः सोदरः!  

लोसाञ्चल्स् > चन्द्रस्य जननमधिकृत्य नूतनसिद्धान्तः कालिफोर्णियायाः लोसाञ्चल्स् विश्वविद्यालयस्य (UCLA) गवेषकाः। भूमेः जननात्परं दशकोटि वर्षानन्तरं भूमिः- तेया नाम ग्रहयोः परस्परसंघट्टनेनैव जातः चन्द्रः इति जानीमःI किन्तु (४५Digree) पार्श्वतः  आसीत् तत् आघातम् इत्यासीत् विश्वासः। किन्तु सक्षात् पुरतः जायमानसङ्घट्टनेनैव एतादृशः परिणतिरभवत् इति गवेषकाः विवदन्ति। ४५० कोटि वर्षात्‌ पूर्वं जातेषु चन्द्रशिलोच्छयेषु विद्यमानेषु प्राणवायोः रासघटना भूमेः शिलाेच्छयघटनायाम्  यथा तथा समाना एव। भूरिः भूमेः भागः एव भवति चन्द्रः  इति वैज्ञानिकाः वदन्ति।

पाकिस्थानस्य ISI - IS भीकरदलेन सह वर्तते।
नवदिल्ली >भारतान् विरुध्य आक्रमणाय पाकिस्थानीय गुप्तदलः इस्लामिक स्टेट्‌ भकरेण सह संयुक्तप्रवर्तनाय निश्चितःI तदर्थम् ऐ.एस् भीकरः अबूबक्कर् अल् बाग्दादिना सह आक्रमणाय सज्जीकृताः सन्ति।
लष्कर ई तोयिब, जय्षे मुहम्मद्, सिमि, इन्ट्यन् मुजाहिद्, जमा अत्ते, उद्‌ -दाव एतेभ्यः भीकरदलेभ्यः भारतं प्रवेष्टुं साहाय्यः  ऐ.एस्.ऐ दलेन ४० वर्षकालं यावत् क्रियते। अधुना इराक् राष्ट्रस्थान्  ऐ. एस् दलान् सीमानमुल्लंख्य प्रेषयितुं प्रयतते च।
 राष्ट्रान्तरसम्मर्देन भीकरदलान् विरुध्य निशितप्रतिकाराय पाकिस्थानः निर्बन्धितः इत्यनेन एव ऐ.एस्‌ दलेन साकम्  एतादृशः सख्यः।

स्टार्ट् अप् - कर्मदानानां शुभारम्भः

न्यूदिल्ली >   स्टार्टप् न केवलं ऐ टि मण्डलस्य कृते  । स्टार्टप् द्वारा  बहवः अवसराः उपलभ्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः अवदत्। आकाशवाण्याः मासिकीय 'मन की बात' कार्यक्रमे भाषमाणः आसीत् मोदिवर्यः। 
भारतस्य स्वातन्त्र्यं खादिना एव भवतीति सरदार पट्टेलः । खादी अस्माकं प्रतीकः इति च सः अवदत् ।अनेककोटिः जनानां कृते कर्मदानस्य अवकाशः, पुनः खादी अस्माकं स्वदेशीयतायाः प्रतीकः इति मोदिवर्यः अवदत्। यः महात्मागान्धिनः रक्तसाक्षित्वम् आचरति तस्य कपाटिकायां खादिवस्त्रमपि भवितव्यमिति सः अवदत्। भारतस्य शाक्तीकरणाय खादीवस्त्राणां  महत् स्थानमस्ति। अतः खादीवस्त्रस्य उत्पादनस्य वर्धनं करणीयमिति सः अवदत्। 
अस्माकं भारते बालिकायाः स्थानं वर्धितः। इदानीन्तकाले गुर्जरदेशे हरियानदेशे च बालिकायाः स्थानं वर्धितं भवति। 'बेटी बचावो बेटी पठावो' इत्यादि कार्यक्रमः एतस्य उत्तमोदाहरणं भवतीति मोदिवर्यः। 
अस्माकं रयिल् निस्थानकशुचीकरणाय स्वमेधया भागभागित्वं करणीयं , पुनः तस्य निस्थानस्य चित्राण्यपि प्रेषयतु इति च मोदिवर्येण अभ्यर्थितः। प्रतिवर्षं जनुवरिमासस्य त्रिंशत् दिनाड़्के प्रभाते एकादशवादने  भारतस्य रक्तसाक्षित्व दिने वरेण्यानां कृते निमिषद्वयं मौनमवलंबनीयः इति सः अवदत् ।
मन् की बात कार्यक्रमे भागभागित्वकरणाय जड़्कमदूरवाण्यां अलब्धाह्वानं (Missed Call) करोतु इति प्रधानमन्त्रिणा अवदत्। जङ्गमदूरवाण्यायाः सड़्ख्या 8190881908 भवति

Sunday, January 31, 2016

जार्खण्डे छात्रेभ्यः न केवलं मध्याह्नभोजनं किन्तु प्रातराशमपि दीयते।

राञ्चि> जार्खण्ड् राज्ये सर्वकारीय विद्यालयेषु सर्वेषां छात्राणां मध्याह्नभोजनं प्रातराशश्चोभयमपि दीयते। तदर्थम् उचितां पद्धतिम् आविष्कर्तुं जार्खण्ड सर्वकारेण निश्चितः। तदर्थं मध्याह्नभोजनस्य कृते अष्टशतांशम् अधिकं धनं सञ्चितम्  अस्ति। सर्वकारीय विद्यालयस्य छात्राः सर्वेऽपि प्रभातभक्षणं विना आगच्छन्ति इति कारणेन पद्धतिः आविष्कृता। पक्तः अण्डः, ओदनेन समं घृतं,  पक्तबीजवर्गाणि, बिस्कट्, पुनः सेवाफलं, मधुरनारङ्गं, कदलीफलम् च प्रातरशनाय दातुं सर्वकारेण निश्चितमस्ति।
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्।  प्रभातभक्षणमपि ददाति चेत्  उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं,  सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।

टि एन् गोपकुमारः दिवंगतः।
 
कोच्ची > केरळस्य सुप्रसिद्धः माध्यमप्रवर्तकः एष्यानेट् दृश्यमाध्यमस्य वार्ताविभागस्य मुख्यसंपादकः टि एन् गोपकुमारः अद्य प्राह्ने ३.३० वादने अनन्तपुर्यां दिवंगतः।५८ वयस्कः सः  अर्बुदरोगबाधित आसीत्।
  एष्यानेट् द्वारा संप्रेषितया  "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस्  मातृभूमी स्टेट्स्मान्  बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।

Friday, January 29, 2016


भारतेन भूतल-आकाश-मिसैल् शस्त्रं विकासितम्।

बालसोर्> भारतेन विकासितम् आकाश नाम भूतल - आकाश मिसैल् शास्त्रस्य चन्दिपुरस्थात् इण्टग्रेट्टड् टेस्ट रेञ्चतः त्रिवारं परीक्षण-विक्षेपणं कृतम्। २५ कि.मी एव अस्य प्रहर परिधिः, ६० किलो मितः भारं वोढुं शक्यते च। प्रतिरोधगवेषण संस्थया (DRDO) विकसितः आकाश मिसैल् उपयुज्य शत्रुमिसैलं विमानानि च चूर्णीकर्तुं शाक्यते। 

ईजिप्तस्य प्रधानमन्त्रिणे भारतस्य विशिष्टं सम्मानम्।

कय्रो > ईजिप्तस्य प्रधानमन्त्री षरीफ् इस्मायिलस्य  कृते भारतस्य विशिष्टसम्मानम्। कय्रो राष्ट्रान्तर पुस्तकोत्सवे भारतसंविधानस्य अरबिभाषयां मुद्रितः ग्रन्थः ईजिप्तस्य प्रधानमन्त्रिणे भारतः समर्पयत्I वारद्वयस्य पुस्तकोत्सवे भारतस्य राष्ट्रान्तरसंस्था (Embassy) नाषणल् बुक् ट्रस्ट् (NBT) संस्थां प्रतिनिधीकरोति।

         पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।

भीकरप्रवर्तनं - आगोलसहकरणम् आवश्यकमिति भारतराष्ट्रपतिः।
 
नवदिल्ली > पठान्कोट्टे तथा पारीस् राष्ट्रे च पूर्वं संवृत्तानि भीकराक्रमणानि राष्ट्रस्वातन्त्र्यस्य आधारमूल्यानि विरुद्ध्य संवृत्तानीति भारतस्य राष्ट्रपतिः प्रणब् मुखर्जीवर्यः अभिप्रैति स्म। अतः भीकरप्रवर्तनानि  विरुध्य आगोल सहकरणम् आवश्यकम्I


भारतीयवंशजेभ्यः आस्त्रेलियायाः बहुमतिः

मेलबण् > विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः आस्त्रेलियायाः  बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु कृतप्रयत्नानि  परिगणयन् एव पुरस्काराः दीयन्ते।  अस्य वर्षस्य (2016) आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन्  नाषनल् यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त् वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च भवन्ति। फिसिक्स्, एञ्चिनीयरिड़्



-
नानो टेक्नोलजि आदि मण्डलेषु  कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु  श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः।
स्वगृहे भारतपताका रोपितः - पाक् युवकस्य १० वर्षस्य दण्डनम्।

लाहोर्> विराट् कोह्ल्याः आराधनया स्वगृहस्य उपरि भारतपताका रोपितः इत्यनेन पाक् युवकः दशवर्षस्य कारागृहवासेन दण्डितः। कोह्लीं प्रति आराधना प्रकाशनाय ध्वजारोहणम् अकरोत्‌ इति दण्डितः उमर् द्रासः अवदत्। प्रचाब् प्रविश्यायामेव तस्य गृहम्।
ओक्कार जिल्लायां सीवनकर्मचारी भवत्येषः। भारतस्य गणतन्त्रदिने अड्लेय्ड् देशो आयोज्यमानायां स्पर्धायां ओस्ट्रेलियाराष्ट्रः भारतेन पराजितः I भारतय्स प्रदर्शनेन प्रभावितः सः भारतस्य ध्वजारोहणं कृतवान्। तस्मिन् दिने एव सः आरक्षकैः ग्रहीतः न्यायालयेन दण्डितः च।

प्रथम स्मार्ट सिट्टी पट्टिकायां कोच्चि ।

कोच्चि  > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।

        संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति  सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि  नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि  योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।

सोलार् चौर्य विषये अन्वेषणं कर्तुं न्यायालयनिदेशः

पालक्काट् (केरलम्)>: सोलार् चौर्यविषये FIR कृत्वा अन्वेषणाय विजिलन्स् न्यायालयस्य निदेशः। अस्मिन् केरलस्य मुख्यमन्त्रिरपि अस्ति इत्यनेन  मन्त्रिसभां विमोच्यन्तामिति भा ज पा याः राज्यस्तरीयनेता कुम्मनं राजशेखरः अवदत् ।

Wednesday, January 27, 2016

बृहत्तर: सौरयूथः दृष्टः। 

new-planetकालिफ़ोर्णिया> मातृनक्षत्रात् लक्षं कोटि किलोमीट्टर् दूरे भ्रमन्तं ग्रहं ज्योतिशास्त्रज्ञैः दृष्टः। एतावत्कालपर्यन्तं प्रत्यभिज्ञातेषु बृहत् आकारको सौरयूथो भवत्ययमिति गवेषकाः वदन्ति। ग्रहस्य एकवारं मातृनक्षत्रपरिक्रमणाय नवलक्षवर्षाणि अवश्यकानि। सूर्यस्य भूमेः च मध्ये १५ कोटि किलोमीट्टर मितिः अस्ति। १५ कोटि किलो मीट्टर् एकं अस्ट्रोणमिक् मीट्टर् इति (AU). सौरयूथे सूर्यस्य नेप्टूणस्य  मध्ये 30 अस्ट्रोणमिक् मीट्टर् (AU) भवति । नूतनग्रहं तु सूर्यात् ६०० - १२०० AU भवति। 

पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः। 

इस्लामबाद् > पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः इति पक्किस्तास्थानस्थाः माध्यमाः। अफ्गानिस्थन् देशे यु.एस्. अफ्गान् सैन्ययोः संयुक्त ड्रोण् आक्रमणे फसलूल्ला हतः इति माध्यमवृत्तान्तः। तस्य गृहाऽभिमुखं प्रति कृतवता आक्रमणे पत्नी पुत्रः च हतवन्तौ। पाक्किस्थाने पेषवार् सैनिकविद्यालयस्य बच्चा खान् महाविद्यालयस्य च आक्रमणं पाक् तलिबानेन कृतम् आसीत्।
मेट्रोयाने आदर्शयात्रा - मोदी फ्रन्सो च

नवदिल्ली > आगोलतापनं विरुध्य सन्देशप्रचारणय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीवर्यः फ्रञ्च् राष्ट्रपतिना फ्रान्स्व ओलोन्दु वर्येण सह दिल्ली मेट्रोयाने यात्रामकरोत्। दिल्लीतः गुडगाव् ततः प्रतिनिवर्त्य च आसीत्‌ यात्रा। औद्योगिक वाहनानि विहाय मध्याह्ने ३ः१६ वादने आसीत् यात्रा। गुड्गाव् सौरोर्ज संस्थायाम् आयोज्यमाने कार्यक्रमे भागं स्वीकर्तुमेव एतौ औद्योगिक वाहनानि निरसितौ।
युद्धविमानानि क्रेतुं फ्रान्स् राष्ट्रेण सह सन्धिः।   उभयानुकूलपत्रे मिथः हस्ताक्षरौ कृतौ

नवदिल्ली > लोके बृहत्तमः जनतन्त्रराष्ट्रः भवति भारतम्। सम्पदः त्वरितागति: वर्तते  देशः वर्धते च।
फ्रान्स् राष्ट्रः प्रञ्चशाक्तिशालिषु प्रथमगणे एव। परस्परधारणया एतौ १६ सुप्रधान-उभयानुकूलपत्रे हस्ताक्षरं कृतवन्तौ।
३६ राफेल् नामकानि युद्धविमानानि क्रेतुं उभयानुकूलपत्रे हस्ताक्षरमकरोत्। ६०,००० कोटिरूप्यकाणां व्ययः प्रतीक्षते। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलादः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च मिथः संवृत्तायाः चर्चायाः अनन्तरमेव एतादृशनिर्णय अभवत्। ८०० रयिल् यानानि च स्वीकरिष्यन्ते। उभयराष्ट्रयोः मिथः प्रतिरोधसहकरणसन्धिः आगामिनिदशसंवत्सराणि अनुवर्तिष्यते। जय्तापुरे ६ आणवरियाक्टर् निलयानि स्थापयिष्यन्ते।

पूर्वेष्यन् राष्ट्रेषु अतिशैत्यः , तैवाने ८५ मृताः।

लण्टन् > अतिशैत्येन पूर्वेष्यन् राष्ट्राणि कम्पन्ते। तैवान् देशे ८५ जनाः मृताः। ८६००० परं विनोदसञ्चारिणः निबद्धा अभवन्। 'दक्षिणकोरियादेशे जिजुद्वीपे विमाननिलयः कठिनेन हिमपातेन बद्धः।होङ्कोङ् दक्षिणचैना, जपानः इत्येतेषु देशेषु च अतिशैत्यम् अनुभूयते।
गान्धिप्रतिमां विरूपमकरोत्।

जय्पूर् > राजस्थाने डुडु नगरे महात्मागान्धिनः प्रतिमा विनाशिता दृष्टा। प्रतिमायाः कश्चन भागः कृष्णवर्णं लिम्बयित्वा ऐ एस् ऐ एस् सिन्दाबाद् इति आलेखितमस्ति। प्रदेशे संधर्षावस्था जाता अस्ति।

Tuesday, January 26, 2016

सुरक्षया गणतन्त्रदिनाघोषः

republic day, republic day celebration, No camel contingent, No camel contingent at Republic Day parade, security, security on republic day functions, republic day celebration in delhi, bs bassi, delhi police chief, IGI airport, delhi news, republic day news, india news
नव दिल्ली > गणतन्त्र दिनाघोषाय भारतं सज्जम् अभवत् । राज्ये सर्वत्र सुरक्षा व्यवस्था विहिता वर्तते। अस्य वर्षस्य वैशिष्ट्यं फ्रञ्च् राष्ट्रपतिः फ्रान्सो ओला मुख्यातिथिरितिI अपिच भारतसैन्येन सह फेञ्च् सैन्यमपि भागं स्वीकरोति। पठान् कोट्ट् आक्रमणकारणेन सुशक्तं सुरक्षाव्यूहं कृत्व एव आचरणम्। इतिहासे इदं प्रथमतया कृत्वा विदेशसैन्यस्य गणतन्त्र सैनिकाभ्यासे भागग्रहणम् । ५६ फ्रञ्च सैनिकाः भीकरविरुद्ध-सख्यस्य अनुबन्धतया भागं स्वीकुर्वन्ति।

पठान् कोट्ट् भीकराक्रमणस्य नवीन प्रमाणानि भारतेन प्रदत्ता - नवाषेरीफः।

नव दिल्ली > नवीन प्रमाणानाम् आधारेण आक्रमणं कृतवातामुपरि निशितोपक्रमं विलम्बं विना स्वीकरिष्यामि इति नवास् षरीफ: अवदत्। पाकिस्थानसर्वकारेण नियुक्तसंघस्य नेतृत्वे अन्वेणम् आरब्धम् अस्ति। 

कौमारकलोत्सवे संस्कृतोत्सवस्य शुभपर्यवसानम् ।

अनन्तपुरी > उच्चस्तर विद्यालये १८ स्पर्धाः महाविद्यालये ५ स्पर्धाः च। आगामिनि वर्षे अघिकाः स्पर्धाः आयोजनीयाः इति अभिलषन्ति संस्कृतप्रेमिणः।

 पण्डितरत्नपुरस्कारः डा. एम.वि. नटेशाय 

कोच्चि > अनन्तपुरी पकल्क्कुरि एम.के.के. नायर् सांस्कारिककेन्द्रस्य पण्डितरत्नपुरस्कारेण डा. एम.वि. नटेशः सम्मानितः। कालटी श्री शङ्कराचार्य विश्वविद्यालये असोसियेट् प्रोफ़स्सर् , श्री शङ्कर अन्ताराष्ट्र विद्यालयस्य निदेशकः च भवति एषः। एतावत्कालपर्यन्तं संस्कृतभाषायाः कृते अनेन कृतम् योगदानं परिगणयन् एव पुरस्कारनिर्णयः। 

Monday, January 25, 2016

 भारतीय-संस्कृत-पत्रकारसङ्घस्य उपाध्यक्षाय पद्मश्री -

डॉ.रवीन्द्र-नागर
"हर्ष-प्रकर्षेण साम्प्रतमेतत् संसूच्यते यत् भारतीय-संस्कृत-पत्रकार-सङ्घस्य उपाध्यक्षाय सुख्याताय संस्कृत-विदुषे आचार्याय डॉ.रवीन्द्र-नागर-वर्याय ऐषमः पद्मश्री-अलङ्करण-प्रदानस्य समुद्घोषणा भारतीय-गणतन्त्रदिवसस्यस्य पूर्व-सन्ध्यावसरे भारत-प्रशासनस्य गृह-मन्त्रालयेन विहितास्ति | संस्कृत-वाङ्मयस्य भारतीय-संस्कृतेः संस्कृत-भाषायाश्च देशे विदेशेषु च सुबहु-प्रचारार्थं आचार्य-नागरः २०१२-तमे वर्षे राष्ट्रपति-सम्मान-पत्र-प्रदानेन सभाजितः आसीत् | आचार्य-नागरस्य  अनामयत्वं दीर्घायुष्यत्वञ्च कामयमानः भा.सं.प.सङ्घः शुभावसरेsस्मिन्   तं सर्वात्मना आशंसायते |"   -बलदेवानन्द सागरः-

दक्षिण भारतस्य अभिनेत्री कल्पना निर्याता

अभिनेत्री कल्पना अद्य प्रातः निर्याता। हृदयाघातेन मृता इति भिषग्वराः। हैदराबादे चलनचित्रे अभिनयं कुर्वती आसीत्। तेलुगु चित्रस्य  चित्रीकरणमेव आसीत् ।