OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 27, 2016

मेट्रोयाने आदर्शयात्रा - मोदी फ्रन्सो च

नवदिल्ली > आगोलतापनं विरुध्य सन्देशप्रचारणय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीवर्यः फ्रञ्च् राष्ट्रपतिना फ्रान्स्व ओलोन्दु वर्येण सह दिल्ली मेट्रोयाने यात्रामकरोत्। दिल्लीतः गुडगाव् ततः प्रतिनिवर्त्य च आसीत्‌ यात्रा। औद्योगिक वाहनानि विहाय मध्याह्ने ३ः१६ वादने आसीत् यात्रा। गुड्गाव् सौरोर्ज संस्थायाम् आयोज्यमाने कार्यक्रमे भागं स्वीकर्तुमेव एतौ औद्योगिक वाहनानि निरसितौ।
युद्धविमानानि क्रेतुं फ्रान्स् राष्ट्रेण सह सन्धिः।   उभयानुकूलपत्रे मिथः हस्ताक्षरौ कृतौ

नवदिल्ली > लोके बृहत्तमः जनतन्त्रराष्ट्रः भवति भारतम्। सम्पदः त्वरितागति: वर्तते  देशः वर्धते च।
फ्रान्स् राष्ट्रः प्रञ्चशाक्तिशालिषु प्रथमगणे एव। परस्परधारणया एतौ १६ सुप्रधान-उभयानुकूलपत्रे हस्ताक्षरं कृतवन्तौ।
३६ राफेल् नामकानि युद्धविमानानि क्रेतुं उभयानुकूलपत्रे हस्ताक्षरमकरोत्। ६०,००० कोटिरूप्यकाणां व्ययः प्रतीक्षते। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलादः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च मिथः संवृत्तायाः चर्चायाः अनन्तरमेव एतादृशनिर्णय अभवत्। ८०० रयिल् यानानि च स्वीकरिष्यन्ते। उभयराष्ट्रयोः मिथः प्रतिरोधसहकरणसन्धिः आगामिनिदशसंवत्सराणि अनुवर्तिष्यते। जय्तापुरे ६ आणवरियाक्टर् निलयानि स्थापयिष्यन्ते।

पूर्वेष्यन् राष्ट्रेषु अतिशैत्यः , तैवाने ८५ मृताः।

लण्टन् > अतिशैत्येन पूर्वेष्यन् राष्ट्राणि कम्पन्ते। तैवान् देशे ८५ जनाः मृताः। ८६००० परं विनोदसञ्चारिणः निबद्धा अभवन्। 'दक्षिणकोरियादेशे जिजुद्वीपे विमाननिलयः कठिनेन हिमपातेन बद्धः।होङ्कोङ् दक्षिणचैना, जपानः इत्येतेषु देशेषु च अतिशैत्यम् अनुभूयते।
गान्धिप्रतिमां विरूपमकरोत्।

जय्पूर् > राजस्थाने डुडु नगरे महात्मागान्धिनः प्रतिमा विनाशिता दृष्टा। प्रतिमायाः कश्चन भागः कृष्णवर्णं लिम्बयित्वा ऐ एस् ऐ एस् सिन्दाबाद् इति आलेखितमस्ति। प्रदेशे संधर्षावस्था जाता अस्ति।