OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 26, 2016

सुरक्षया गणतन्त्रदिनाघोषः

republic day, republic day celebration, No camel contingent, No camel contingent at Republic Day parade, security, security on republic day functions, republic day celebration in delhi, bs bassi, delhi police chief, IGI airport, delhi news, republic day news, india news
नव दिल्ली > गणतन्त्र दिनाघोषाय भारतं सज्जम् अभवत् । राज्ये सर्वत्र सुरक्षा व्यवस्था विहिता वर्तते। अस्य वर्षस्य वैशिष्ट्यं फ्रञ्च् राष्ट्रपतिः फ्रान्सो ओला मुख्यातिथिरितिI अपिच भारतसैन्येन सह फेञ्च् सैन्यमपि भागं स्वीकरोति। पठान् कोट्ट् आक्रमणकारणेन सुशक्तं सुरक्षाव्यूहं कृत्व एव आचरणम्। इतिहासे इदं प्रथमतया कृत्वा विदेशसैन्यस्य गणतन्त्र सैनिकाभ्यासे भागग्रहणम् । ५६ फ्रञ्च सैनिकाः भीकरविरुद्ध-सख्यस्य अनुबन्धतया भागं स्वीकुर्वन्ति।

पठान् कोट्ट् भीकराक्रमणस्य नवीन प्रमाणानि भारतेन प्रदत्ता - नवाषेरीफः।

नव दिल्ली > नवीन प्रमाणानाम् आधारेण आक्रमणं कृतवातामुपरि निशितोपक्रमं विलम्बं विना स्वीकरिष्यामि इति नवास् षरीफ: अवदत्। पाकिस्थानसर्वकारेण नियुक्तसंघस्य नेतृत्वे अन्वेणम् आरब्धम् अस्ति। 

कौमारकलोत्सवे संस्कृतोत्सवस्य शुभपर्यवसानम् ।

अनन्तपुरी > उच्चस्तर विद्यालये १८ स्पर्धाः महाविद्यालये ५ स्पर्धाः च। आगामिनि वर्षे अघिकाः स्पर्धाः आयोजनीयाः इति अभिलषन्ति संस्कृतप्रेमिणः।

 पण्डितरत्नपुरस्कारः डा. एम.वि. नटेशाय 

कोच्चि > अनन्तपुरी पकल्क्कुरि एम.के.के. नायर् सांस्कारिककेन्द्रस्य पण्डितरत्नपुरस्कारेण डा. एम.वि. नटेशः सम्मानितः। कालटी श्री शङ्कराचार्य विश्वविद्यालये असोसियेट् प्रोफ़स्सर् , श्री शङ्कर अन्ताराष्ट्र विद्यालयस्य निदेशकः च भवति एषः। एतावत्कालपर्यन्तं संस्कृतभाषायाः कृते अनेन कृतम् योगदानं परिगणयन् एव पुरस्कारनिर्णयः।