OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 31, 2016

जार्खण्डे छात्रेभ्यः न केवलं मध्याह्नभोजनं किन्तु प्रातराशमपि दीयते।

राञ्चि> जार्खण्ड् राज्ये सर्वकारीय विद्यालयेषु सर्वेषां छात्राणां मध्याह्नभोजनं प्रातराशश्चोभयमपि दीयते। तदर्थम् उचितां पद्धतिम् आविष्कर्तुं जार्खण्ड सर्वकारेण निश्चितः। तदर्थं मध्याह्नभोजनस्य कृते अष्टशतांशम् अधिकं धनं सञ्चितम्  अस्ति। सर्वकारीय विद्यालयस्य छात्राः सर्वेऽपि प्रभातभक्षणं विना आगच्छन्ति इति कारणेन पद्धतिः आविष्कृता। पक्तः अण्डः, ओदनेन समं घृतं,  पक्तबीजवर्गाणि, बिस्कट्, पुनः सेवाफलं, मधुरनारङ्गं, कदलीफलम् च प्रातरशनाय दातुं सर्वकारेण निश्चितमस्ति।
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्।  प्रभातभक्षणमपि ददाति चेत्  उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं,  सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।

टि एन् गोपकुमारः दिवंगतः।
 
कोच्ची > केरळस्य सुप्रसिद्धः माध्यमप्रवर्तकः एष्यानेट् दृश्यमाध्यमस्य वार्ताविभागस्य मुख्यसंपादकः टि एन् गोपकुमारः अद्य प्राह्ने ३.३० वादने अनन्तपुर्यां दिवंगतः।५८ वयस्कः सः  अर्बुदरोगबाधित आसीत्।
  एष्यानेट् द्वारा संप्रेषितया  "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस्  मातृभूमी स्टेट्स्मान्  बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।