OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, March 12, 2016

पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।

पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।

Thursday, March 10, 2016

संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।


भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः
मलप्पुरं (केरलम्) > मलयाळ भाषायाः पितुः तुञ्चत्त् रामानुजाचार्यस्य जन्मगृहं दृष्ट्वा  छात्राः विस्मिताः। वेङ्ङरा उपजिल्लायाः संस्कृत कौण्सिल् द्वारा आयोजिता  अध्ययनयात्रा भाषापितुः गृहदर्शनाय आसीत्। तत्र विद्यमानायां प्रदर्शिन्यां मलयाल भाषायाः कृते योगदानं कृतवतां महात्मनां चित्राणि लघु-जीवन-चरितानि च प्रदर्शितानि। प्रदर्शितानां सर्वानां महात्मनां सुचरिते ते संस्कृतपण्डिताः इति प्रमाणः दृश्यते। संस्कृतज्ञा: एव मलयालभाषाप्रवीणाः अभवन् इति प्रदर्शिनीतः ज्ञात्वा  छात्राः विस्मिताः।
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।

चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।

सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।

कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः ,  सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां  वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।
यु.ए.इ राष्ट्रे अतिवृष्टिः

दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः



अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।


पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार्  सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।

भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।

नवदिल्ली> भारतं विरुद्‌ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं  यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्‌। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्‌धृत्य विशदतयाआसीत् भाषणम् ।

मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।

अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।

केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।

कोच्ची > केरले जनाधिपत्यकेरलाकोण्ग्रस् इति नाम्नि नूतनं राष्ट्रियदलं रूपवत्कृतम् ।के एम् माणि वर्यस्य केरलकोण्ग्रस् --एम् दलात् बहिरागतवन्तः विमतनेतारः अस्य दलस्य रूपवत्करणे भागभागित्वं कृतवन्तः । फ्रान्सिस् जोर्ज् वर्यः अध्यक्षः भविष्यति । दलस्य रूपवत्करणसम्मेलने डो. के सि जोसफः, अड्व. आन्टणि राजुः, पि सि जोसफः इत्यादयः नेतार अपि सन्निहिताः आसन् ।

Wednesday, March 9, 2016

लघु संस्कृत-चलन-चित्राणि जायान्ते।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।



अद्य सूर्यग्रहणम् । भारते भागिकतया।


नव दिल्ली> अद्य भागिकतया भारते सूर्यग्रहणं द्रष्टुं शक्यते। बुधवासरे प्रभाते भारतस्य उत्तरपूर्वभागेषु ग्रहणं द्रष्टुं शक्यते। चन्द्रग्रहणमपि भविष्यति। इन्तोनेष्यायां पसफिक्समुद्रस्य विविध भागेषु च पूर्णतया सूर्यग्रहणम् द्रष्टुं शक्यते। ४.४९ वादनतः ग्रहणस्य आरम्भः। दिल्ल्यां६.४० वादने ४ मिनिट्ट् काल दैर्घ्ये सूर्य ग्रहणं द्रष्टुं शक्यते। २०१९ तमे दिसंबर् मासे २६ दिनाङ्के एव समीपस्थं सूर्यग्रहणम्।




भविष्यनिधेः करः प्रतिनिवर्तितः।

नवदिल्ली > कर्मकराणां भविष्यनिधेःधनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण प्रतिनिवर्तितः। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः आसीत्। अतः धनमन्त्रिणा अरुण् जेट्ली महाभागेन निर्देशः प्रतिनिवर्तितः I  समयेfस्मिन् राष्ट्रिय-विरमितकालधनार्जनयोजनायां (NPS) करः न भवेत् इति च तेन महाभोगन उक्तम्।

Tuesday, March 8, 2016

ऐ.एस्. विरुद्ध्य बि.५२ यु५२ युद्धविमानम्

वाषिङ्‌टण् > ऎ.एस् विरुद्‌ध्य युद्धं शक्तीकर्तुम् आणवशेषियुक्तः बि-५२ युद्धविमानानि उपयुज्य महता विस्फोटकेनआक्रमणं कर्तुं यू.एस् राष्ट्रेण निश्चितम्। एप्रिल् मासात्‌ आरभ्य आक्रमणम् आरप्स्यते। कति विमानानि आक्रमणे भागभाजः भविष्यन्ति इति तैः नोक्तम्।

उच्चन्यायालयानां न्यायाधिपानां नियुक्तेः मानदण्डः कौशलं, सत्यनिष्ठता च भवितव्यम्।

नवदिल्ली > राष्ट्रेषु उच्चन्यायालयानां नियुक्तेः मानदण्डः कौशलं सत्यनिष्ठता च परिगण्य भवितव्यम् इति केन्द्रसर्वकारः। सेवनकालप्रौढतां परिगण्य एव नियुक्तिः  मा भवतु इति केन्द्रविदेशकार्यमन्त्रिणी सुषमा स्वराजस्य नेतृत्वे आयोज्यमाना केन्द्रीयमन्त्रिसभा-समित्या समर्पितायां लघुनिदेशपत्रिकायां व्यक्तीक्रियते। न्यायाधिप-नियुक्तिमधिकृत्य अभिमतानि प्रकाशयितुम् उच्चतर न्यायालयस्य न्यायाधिपेन केन्द्रसर्वकारः आदिष्टः आसीत्।

Monday, March 7, 2016

१० भीकराः भारते । महती जाग्रता ।

नवदिल्ली>पाकिस्तानात् १० भीकराः भारतं प्राप्ताः इति गुप्तान्वेषणसूचनामनुसृत्य गुजरात् राज्ये दिल्यां च महान् जाग्रतानिर्देशः कृतः ।
  लष्कर् ई तोय्बा , जय्षे मुहम्मद् भीकराः कच् प्रविश्याद्वारा गुजरात् राज्यं ततः दिल्लीं च प्रविष्टाः इति सूचनां पाकिस्तानस्य सुरक्षोपदेष्टा निवृत्तः लफ्. जनरल्  नसीर् खान् जनूजावर्य एव भारतस्य देशीयसुरक्षोपदेष्टारं अजित् डोवलं प्रति विज्ञापितवान् । कच्च् प्रदेशे कोटेश्वरसमुद्रतीरे उपेक्षिता कापि नौका तीर सुरक्षासैन्यस्य दृष्टिमागता आसीत्। भारते शिवरात्र्याघोषस्य कालः इत्यतः प्राक्सूचना अतीव गौरवं सम्पद्यते ।

कलाभवन् मणिः दिवंगतः।

कोच्ची> केरळस्य सुप्रसिद्धः चलच्चित्रनटः कलाभवन् मणिः ( ४५) कोच्चीनगरस्थे आतुरालये दिवंगतः। यकृत्संबन्धरोगस्य चिकित्सायामासीत्।
हास्यनटरूपेण आरभ्य स्वभावनटः नायकः इत्यादिवेषैः अभिवृद्धिं प्राप्य प्रतिनायकवेषपर्यन्तं ह्रस्वकालेन मलयालं विना तमिल् तेलुगू भाषाचित्रेषु अपि सः स्वनटनकौशलं प्रादर्शयत् । ग्रामीणगीतकानि स्वकीयशैल्या अवतार्य सार्वजनीनं कर्तुं तस्य अनन्यसाधारणं पाटवमासीत्।
कलाभवन् मणिवर्यस्य आकस्मिकमरणं कैरळीचलच्चित्रलोकस्य महान् नष्टः भवति।

Sunday, March 6, 2016

अद्य एकं क्षुद्रग्रहं भूमेः समीपतः गमिष्यति। 

वाषिङ्टण् > २०१३ टि. एक्स् ६८ इति क्षुद्रग्रहः एव भूदर्शनं कृत्वा गम्यमानं ग्रहं । २४००० कि.मी मितपर्यन्तेन दूरेन गम्यमानं ग्रहं भीतिः कदापि न उद्पाद्यते इति नासायाः गवेषकैः उक्तम्।

सर्वशिक्षा अभियानस्य केरलराज्यस्तरीय श्रेष्ठोत्सव चित्राणि
ऐन्द्रजालस्य साहाय्येन वेज्ञानिक-गणितशास्त्राध्ययनाय नूतना पद्धतिः।

अनन्तपुरी > केरळेषु सर्वशिक्षा अभियानेन वैज्ञानिक-गणितशास्त्रयोः अध्ययनाय ऐन्द्रजालस्य साह्येन नूतना पद्धतिः आविष्कृता। केरळ माजिक् अक्काडमि संस्थायाः सहकारितया एव इयं योजनायाः आविष्कारः। ऐन्द्रजालिकेन गोपिनाथ मुतुकाट् महाभागेन सर्वशिक्षा अभियानस्य श्रेष्ठोत्सवस्य सायन्तन कार्यक्रमेषु प्रख्यापिता। ह्यः रात्रौ अध्यापक-छत्रानां पुरतः ऐद्रजालप्रदर्शनम् कुर्वन्नासीत्‌ अयं महाभागः। सर्वशिक्षा अभियानस्य राज्यस्तरीय-योजनायाः निदेशकः डा. ई.पि.मोहन् दासः, राज्यस्तरीय-कार्याक्रम-निदेशकाः जिल्लास्तरीय निदेशकाः च अस्मिन् कार्यक्रमे भागभाजः आसन्।


भविष्यनिधिकरनिर्देशं निराकुर्यात्।

नवदिल्ली - कर्मकराणां भविष्यनिधेः प्रत्याहरणार्थं  करः दातव्यः इति आयकरनिर्देशं निराकर्तुं प्रधानमन्त्री नरेन्द्रमोदी वित्तमन्त्रिणं अरुण् जय्ट् लि वर्यं प्रति आदिशत् । राष्ट्रे सर्वत्र विविधकर्मकरसंघटनेभ्यः उन्नीतेन महता प्रतिषेधेनैव मोदीवर्यस्य निर्देशः जातः।


विंशतिवर्षाभ्यन्तरे बृहत्तर उपरोधेन ऐक्यराष्ट्रसभा।

न्यूयोर्क् >उत्तरकोरियायाः उपरि ऐक्यराष्ट्रसभया सुशक्तः उपरोधःप्रख्यापितः।विंशतिवर्षाभ्यन्तरे प्रथमतया एव ईदृशः एकः उपरोधः।आणवपरीक्षणे ऐक्यराष्ट्रसभयाः निर्देशाः न पालिताः इत्यस्मातेव उपरोधः कल्पितः। सभायाः अनुमतिं विना चतुर्थ अग्निबाणः विक्षेपितः उत्तरकोरिया इत्येतत् सभां प्रकोपितः।
अनेन निरोधनेन कोरियायाः विभिन्न मेखलासु अनेकाः समस्या भविष्यन्ति।  क्रयविक्रये कोरियायाः अवसराः न्यूनीभवति।
उत्तरकोरियायः वस्तूनि सुशक्तपरिशोधनया एव विक्रयणाय आपणेषु प्राप्य्सति।

Saturday, March 5, 2016

सर्वशिक्षा अभियानस्यश्रेष्ठोत्सवस्य समारम्भः

अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।



निर्वाचनकाहलम् अध्वनत्।

दिल्ली > भारते चतुर्षु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशेषु च जनविधेः दिनाङ्काः प्रख्यापिताः । केरलं तमिल् नाट् पश्चिमबंगाल् आसाम् इत्येतेषु राज्येषु पोण्टिच्चेरि केन्द्रशासनप्रदेशे च ८२५ मण्डलेषु निर्वाचनं भविष्यति । असमराज्ये एप्रिल् ४, ११ दिनाङ्कयोः सोपानद्वयेन निर्वाचनं भविष्यति ।बंगालराज्ये एप्रिल् ४ आरभ्य मेय् ५ पर्यन्तं सोपानषट्केन ,केरले मेय् १६ दिनाङ्के एकेनैव सोपानेन च निर्वाचनं भविष्यति ।

  विद्यालयेषु २२० अध्ययनदिनानि निश्चयेन भावितव्यानि उच्चन्यायालयः।

कोच्ची > केरले विद्यालयेषु आगामि अध्ययनवर्षादारभ्य २२०  साध्यायदिनानि लभ्यमानानि भवितव्यानि इति केरल उच्चन्यायालयेन आदिष्टम्।
केरलस्य शैक्षिकव्यवस्थायां तथा केन्द्रीय विद्याभ्यासाधिकारनियमे च निष्कर्षा अस्ति। तदनुसृत्य आगामी वर्षादारभ्य  मेला - मूल्यनिर्णयादिषु क्रमीकरणम् आवश्यकमिति  न्यायाधीशेन विनोदचन्द्रेण आदिष्टम्।