OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 6, 2016

ऐन्द्रजालस्य साहाय्येन वेज्ञानिक-गणितशास्त्राध्ययनाय नूतना पद्धतिः।

अनन्तपुरी > केरळेषु सर्वशिक्षा अभियानेन वैज्ञानिक-गणितशास्त्रयोः अध्ययनाय ऐन्द्रजालस्य साह्येन नूतना पद्धतिः आविष्कृता। केरळ माजिक् अक्काडमि संस्थायाः सहकारितया एव इयं योजनायाः आविष्कारः। ऐन्द्रजालिकेन गोपिनाथ मुतुकाट् महाभागेन सर्वशिक्षा अभियानस्य श्रेष्ठोत्सवस्य सायन्तन कार्यक्रमेषु प्रख्यापिता। ह्यः रात्रौ अध्यापक-छत्रानां पुरतः ऐद्रजालप्रदर्शनम् कुर्वन्नासीत्‌ अयं महाभागः। सर्वशिक्षा अभियानस्य राज्यस्तरीय-योजनायाः निदेशकः डा. ई.पि.मोहन् दासः, राज्यस्तरीय-कार्याक्रम-निदेशकाः जिल्लास्तरीय निदेशकाः च अस्मिन् कार्यक्रमे भागभाजः आसन्।


भविष्यनिधिकरनिर्देशं निराकुर्यात्।

नवदिल्ली - कर्मकराणां भविष्यनिधेः प्रत्याहरणार्थं  करः दातव्यः इति आयकरनिर्देशं निराकर्तुं प्रधानमन्त्री नरेन्द्रमोदी वित्तमन्त्रिणं अरुण् जय्ट् लि वर्यं प्रति आदिशत् । राष्ट्रे सर्वत्र विविधकर्मकरसंघटनेभ्यः उन्नीतेन महता प्रतिषेधेनैव मोदीवर्यस्य निर्देशः जातः।


विंशतिवर्षाभ्यन्तरे बृहत्तर उपरोधेन ऐक्यराष्ट्रसभा।

न्यूयोर्क् >उत्तरकोरियायाः उपरि ऐक्यराष्ट्रसभया सुशक्तः उपरोधःप्रख्यापितः।विंशतिवर्षाभ्यन्तरे प्रथमतया एव ईदृशः एकः उपरोधः।आणवपरीक्षणे ऐक्यराष्ट्रसभयाः निर्देशाः न पालिताः इत्यस्मातेव उपरोधः कल्पितः। सभायाः अनुमतिं विना चतुर्थ अग्निबाणः विक्षेपितः उत्तरकोरिया इत्येतत् सभां प्रकोपितः।
अनेन निरोधनेन कोरियायाः विभिन्न मेखलासु अनेकाः समस्या भविष्यन्ति।  क्रयविक्रये कोरियायाः अवसराः न्यूनीभवति।
उत्तरकोरियायः वस्तूनि सुशक्तपरिशोधनया एव विक्रयणाय आपणेषु प्राप्य्सति।