काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः आयोक्ष्यते।
नवदिल्ली> ओपरेषन् सिन्दूरं समाप्य सप्ताहान्तरं काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः ( moc drill ) आयोक्ष्यते।
हरियाणासर्वकारः २२ (द्वाविंशतिः) जनपदेषु ओप्परेषन् षील्ड् इति नामनि अनुकृत्यभ्यासः आयोक्ष्यते इत्यस्ति प्रतिवेदनम्। मेय् मासस्य एकोनत्रिंशत् दिनाङ्के भवति कार्यान्वयनम्।