OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 27, 2025

 "भीकरतां विरुध्य अग्रे चरन्तु" - पाकिस्थानीयान् प्रति मोदिनः आह्वानम्। अहम्मदाबादः> ये स्वराष्ट्रे भीकरतां प्रवर्धयन्ति तान् विरुध्य युगपत् अग्रे चरन्तु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी पारिस्थानजनतां प्रति आह्वयत्। गुजराते  पाकिस्थानस्य सीमा कच्छ् इत्यत्र भुज् प्रदेशे पञ्चाशत् सहस्राधिक कोटिरूप्यकाणां विविधाः परियोजनाः उद्घाटयन् भाषमाणः आसीत् नरेन्द्रमोदी। 

 "भीकरता इति युष्माकं सर्वकारस्य सैन्यस्य च धनागममार्गः अस्ति। एतत् प्रतिरुध्य प्रवर्तिष्यते तर्हि सुखेन सन्तोषेण च शान्तिपूर्णं जीवनं साध्यमस्ति। नो चेत् अस्माकं  नालिकाशस्त्राणि अभिमुखीक्रियन्ताम्' -  प्रधानमन्त्री संस्मारितवान्।

  भारतमद्य विश्वस्मिन् चतुर्थे आर्थिकशक्तौ सम्पन्ने युष्माभिः किं लब्धमिति पाक्जनतायाः दारिद्र्य-निरक्षरत-जीवनसङ्कटारक्षितावस्थादिकमुद्दिश्य   नरेन्द्रमोदी अपृच्छत्। 'ओपरेषन् सिन्दूरं' पाकिस्थानाय प्रबोधनमिति मोदिना स्मारितम्।