वर्षाकालदुष्प्रभावः - केरले षट् मरणानि।
व्यापकनाशः।
कोच्ची> केरले द्वित्राणां दिनानाम् अतिवृष्टिकारणात् षट् जनाः मृत्युमुपगताः। सर्वत्र व्यापकतया कष्टनष्टानि जातानि।
अतितीव्रवृष्ट्या चण्डवातेन च खण्डितात् विद्युत्पंक्तितः विद्युताघातेन कोष़िक्कोटे द्वौ छात्रसोदरौ, मलप्पुरं जनपदे कश्चन उच्चतरछात्रश्च अकालमृत्युं प्रापुः। वैद्युतपङ्क्तिः प्रभञ्ज्य जले पतितमासीत्। वटकरप्रदेशे चलन्त्याः द्विचक्रिकायाः उपरि केरवृक्षं पतित्वा ६४ वयस्कः मृतः।
कोष़िक्कोट् प्रदेशे जलपूर्णां कुल्यां पतित्वा तमिलनाट् निवासी मृतः। इटुक्की जनपदे वृक्षखण्डं पतित्वा मध्यप्रदेशीया मृत्युमुपगता।
आकेरलं बहुत्र वृक्षप्रपातेन बहूनि भवनानि विशीर्णानि। मृत्प्रपातेन गतायातसुविधा स्थगिता।