OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 27, 2025

 महानौकानिमज्जनम्

३४ वस्तुधारकाणि कोल्लं समुद्रतटं सम्प्राप्तानि।

कोल्लं तटे प्राप्तेषु धारकेषु अन्यतमम्। 

कोल्लं> शनिवासरे कोच्चिसमीपे आरबसमुद्रे निमग्नायाः एम् एस् सि एल् सि -३ नामिकायाः  महानौकायाः बहिर्गतानि ४० वस्तुधारकेषु [containers] ३४ संख्याकानि कोल्लं समुद्रतीरं सम्प्राप्तानि। जनपदाधिकारिणः नेतृत्वे आरक्षकसंघः इतरे अधिकारिणश्च स्थानं प्राप्य अनन्तरप्रक्रमान् स्वीकृतवन्तः। 

  कोल्लं जनपदस्थेषु चवरा, परिमणं, शक्तिकुलङ्ङरा प्रदेशस्थेषु तीरेषु आसन् वस्तुधारकाणि प्राप्तानि। धीवराणां साहाय्येन आरक्षकैः तानि सुरक्षितस्थानं नीतानि। कतिपयेषु धारकेषु शुष्काणि चायपत्राणि [Green Tea], मुद्रणार्थमुपयुज्यमानानि कागदभाण्डानि [News print roll], वस्त्राणि च आसन्निति निगद्यते।