OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 24, 2025

 पोलण्ट् कायिकक्रीडा

नीरज चोप्राय रजतम्। 


वार्सा> पोलण्टराष्ट्रे जानुस् कुसोसिन्की कायिकक्रीडास्पर्धासु कुन्तप्रक्षेपणे भारतस्य नीरज चोप्रः रजतपतकं सम्प्राप्तवान्। तस्य षष्ठे उद्योगे ८४. १४ मीटर् दूरं प्रक्षिप्य एव द्वितीयस्थानलब्धिः। प्रथमस्थानं जर्मनेः जूलियन् वेबर् प्राप। ८६. १२ मीटर् सः प्रक्षिप्तवान्। 

 गतसप्ताहे दोहायां डयमण्ट् लीग् कायिकक्रीडायां नीरजः ९०. २३ मीटर् प्रक्षिप्य द्वितीयस्थानं प्राप्तवान् आसीत्। तादृशं प्रागत्भ्यं प्रदर्शयितुं पोलण्टे तेन न शक्यते स्म।