राहुल गान्धी जम्मु काश्मीरं सन्दृष्टवान्।
पूञ्च् निवासिनां कृते आश्वासवचनानि प्रदत्तानि। पूञ्च् प्रदेशस्थैः छात्रैः सह राहुल गान्धी ।
जम्मु काश्मीरं> पाकिस्थानस्य आक्रमणे ये वासस्थानानि विनाश्य सङ्कटमनुभवन्ति, ये व्रणिताः जाताः तान् समाश्वासयितुं राष्ट्रस्य विपक्षनेता राहुल गान्धी गतदिने जम्मु काश्मीरस्य सीमाग्रामान् सन्दृष्टवान्।
पाकिस्थानस्य अग्निशस्त्राक्रमणात् भयचकितान् पूञ्च् निवासिनः बालकान् राहुलः समाश्वासितवान्। द्वौ छात्रौ अभिव्याप्य अष्टविंशति जनाः अत्र मृताः। उपसप्ततिजनाः क्षताः जाताः। तान् विपक्षनेता आश्वासवाक्यैः स्वप्रेमं प्रकाशितवान्।