OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 24, 2025

 केरले अतितीव्रवर्षः भविष्यति। 

जनपदद्वये रक्तजागरूकता, नवसु जनपदेषु ओरञ्च् जागरूकता।

अनन्तपुरी> मण्सूण् वर्षाकालस्य प्रारम्भतया केरले अतितीव्रवर्षः कल्पितः। शनिवासरे कण्णूर् कासरगोड् जनपदयोः अतितीव्रवर्षस्य  रक्तजागरूकता उद्घोषिता। अनन्तपुरीमभिव्याप्य नवसु जनपदेषु ओरञ्च् जागरूकता प्रख्यापिता। 

  इतःपर्यन्तं आकेरलं तीव्रवर्षः अनुभूयते। वर्षदुष्प्रभावे द्वौ मृत्यू अभवताम्। बहुत्र झंझावातेन कष्टनष्टानि अजायन्त।