आरबसमुद्रे वाणिज्यमहानौका न्यमज्जत्। आशङ्कायां केरलतीरः।
महानौकायाः २४ कर्मकराः नौसेनया रक्षिताः।आरबसमुद्रे निमज्जा महानौका शनिवासरे अवसर्पितावस्थायाम्।
कोच्ची> केरलतीरात् अष्टत्रिंशत् 'नोटिकल् मैल्' दूरे आरबसमुद्रे लैबीरियाराष्ट्रस्य स्वामित्वे वर्तमाना पण्यमहानौका 'एम् एस् सि एल्सा - ३' नामिका समुद्रे निमज्जा। महानौकायाः आहत्य २४ कर्मकरानपि भारतस्य नौसेना संरक्ष्य कोच्चीमानयत्।
तूत्तुकुटी - विष़िञ्ञं - कोच्ची - मङ्गलुरु समुद्रमार्गेण सामान्येन सेवां क्रियमाणा महानौका भवत्येषा। महानौकायाम् आहत्य त्रिचत्वारिंशदधिक षट्शतं [६४३] धारकाणि [containers] आसन्। तेषु दुर्घटनाकारकाणि रासवस्तूनि , तैलेन्धनानि च अन्तर्भवन्तीति सूच्यते। अतः अनन्तपुरीतः कोष़िक्कोट्पर्यन्तं समुद्रतीरः आशङ्कायां वर्तते। शनिवासरे महानौकायाम् अवसर्पितायां ४० धारकाणि समुद्रम् उत्पात्य स्यन्दन्ते स्म। १२ धारकेषु हानिकराणि रासवस्तूनि सन्ति। महानौकायाः इन्धनं समुद्रे व्यापृतं वर्तते। अतः एषु प्रदेशेषु मत्स्यबन्धनं निरुद्धमस्ति।