'वान्हा' पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः।
कोष़िक्कोट्> पञ्चदिनैः केरलतीरे समुद्रे अग्निकाण्डेन प्रवहन्त्यां वान् हाय् ५०३ इति पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः कारितः। अग्निं पूर्णतया निर्व्यापयितुं द्वादशसहस्रं किलोमितं रासचूर्णमपि विकरीतुं निश्चयः कृतः।
एतदाभ्यन्तरे शक्तप्रवाहेण चलन्तीं महानौकां नियन्त्रयितुं बद्धः लोहरज्जुः भग्ना। तथापि अतिसाहसिकतया पुनरपि रज्ज्वा बद्ध्वा तीरसंरक्षणसेनया महानौका नियन्त्राधीना जाता।