अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।विमानदुर्घटनायाः विदूरदृश्यम्।
भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः।
उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्।
आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः।
अहम्मदाबादः> गुजराते अहमदाबादस्थे विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते।
आहत्य २४२ जनाः विमाने आसन्। २३० यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्।
विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।