फ्रञ्च् ओपण् - पुरुष टेन्नीस्
कार्लोस् अल्करास् विजेता। चषकेन सह कार्लोस् अल्करासः।
पारीस्> पारीसे रोलाङ् गारेस् लानक्षेत्रे सम्पन्ने अत्युत्कृष्टे अन्तिमप्रतिद्वन्द्वे पुरुषाणां लानक्रीडायां [टेन्निस्] स्पेयिन् देशीयः कार्लोस् अल्करास् (२२ वयस्कः) विजेता अभवत्। २९ निमेषाधिक पञ्च होराः दीर्घिते प्रतिद्वन्द्वे विश्वस्मिन् प्रथमश्रेण्युपस्थितम् इटलीयं यानिक् स्किन्नर् इत्यमुं पराजित्य एव किरीटं धृतवान्। चतुर्थं 'ग्रान्ड् स्लाम्' किरीटमेव अल्करासेन प्राप्तम्।