शुभांशु शुक्लः श्वः बहिराकाशं प्रति। शुभांशु शुक्लः, ड्रागण् पेटकं, तदूढ्यमानं फाल्कण् - ९ इति क्षेपणी च।
फ्लोरिडा> चतुर्दशदिनात्मकस्य 'आक्सियोम् - ४' इति बहिराकाशदौत्याय ड्रागण् नामकं यात्रायानं फ्लोरिडायां केन्नडि बहिराकाशकेन्द्रे सिद्धमस्ति। भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारः यात्रिकाः परिशालनानि समाप्य दौत्याय सिद्धाः वर्तन्ते। कुजवासरे भारतसमयमनसृत्य सायं ५. ५२ वादने विक्षेपणं भविष्यति।