कोको गाफ् 'फ्रञ्च् ओपण्' विजेत्री।
![]() |
पुरस्कारेण सह कोको गाफ्। |
पारीस्> 'फ्रञ्च् ओपण् टेन्निस्' क्रीडायां नूतनी वीरा। गतदिने सम्पन्ने अन्तिमप्रतिद्वन्द्वे अमेरिकादेशस्य द्वितीय'सीड्' क्रीडिका कोको गाफ् बेलारसस्य प्रथम'सीड्' क्रीडिका आर्याना सबलेङ्का इत्येतां पराजित्य किरीटं धृतवती।
क्रीडायाः प्रथमचरणं आर्यानया क्लेशेन प्राप्तमपि अनन्तरचरणद्वयमपि कोको गाफेन विजितम्। त्रयाणामपि चरणानां परिणामः एवं - (६ - ७), (६-२), (६-४)।