पण्यमहानौकायां विस्फोटः
समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरं प्राप्तुं सम्भावना।
केरलतीरे आशङ्कायाः अवकाशः नास्तीति केन्द्रप्रशासनम्।
अनन्तपुरी> आरबसमुद्रे सोमवासरे स्फोटनेन प्रज्वलितायाः पण्यमहानौकायाः अग्निं प्रशमयितुम् एतावत्पर्यन्तं न शक्तम्। परन्तु अग्निना धूमेन च पूर्णायाः महानौकायाः समीपतः तटरक्षासेनायाः 'समुद्रप्रहरी', 'सचेतः' इति महानौकाद्वयस्य साह्येन अग्निशमनप्रवर्तनानि अनुवर्तन्ते।
एतदाभ्यन्तरे समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरे अवक्षिप्तुं सम्भाव्यता विद्यते इति केन्द्रप्रशासनस्य अधिकारिभिरुक्तम्। केरलतीरे आशङ्कायाः अवकाशः नास्तीति तेषां मतम्। किन्तु महानौकायाः मारकविषांशाः समुद्रे लीनाः इत्यतः तादृशाघातस्य सम्भाव्यता न विगण्यते।