आरबसमुद्रे पुनरपि महानौकादुर्घटना।
केरले कण्णूर् समीपे पण्यमहानौका स्फोटनेन प्रज्वालिता।
+ वस्तुधारकेषु अग्निप्रकाण्डः। + २२ वृत्तिकरेषु १८ जनाः रक्षिताः, ४ अदृष्टाः।
कण्णूर्> अत्युग्रबोम्बस्फोटनशक्तियुक्तैः वस्तुभिः सह श्रीलङ्कायां कोलम्बो महानौकाश्रयात् मुम्बय्यां नव षेवा महानौकाश्रयं गम्यमाना 'एम् वि वान् हाय् ५०३' नामिका पण्यमहानौका आरबसमुद्रे अग्निप्रकाण्डाधीना अभवत्। कण्णूर् जनपदस्थात् अष़ीक्कल् मत्स्यबन्धननौकाश्रयात् ८१. ४९ कि मी दूरे सोमवासरे प्रभाते सार्धनववादने आसीदियं दुर्घटनायाः प्रारम्भः।
महानौकाधिष्ठितानि वस्तुधारकाणि प्रायेण सर्वाणि विस्फोट्य महदग्निप्रकाण्डः जातः। भारतस्य नौसेनया वायुसेनया च अग्निनिर्व्यापनप्रवर्तनानि कृतान्यपि फलप्राप्तिः नाभवत्। महानौका प्रायशः अग्निग्रस्ता जाता।
पण्यमहानौकायां वर्तितेषु २२ वृत्तिकरेषु १८ जनाः तटरक्षासेनया परिरक्षिताः। ते मंगलापुरस्थे आतुरालये परिचर्यायां वर्तन्ते। द्वयोरवस्था कठिनतरा इति सूच्यते। समुद्रमुत्पतिताः चत्वारः वृत्तिकराः अदृष्टाः वर्तन्ते।