शक्ता वर्षा- महाराष्ट्रेषु यानानां गमनवेलायां मार्गः जलप्रवाहे भग्नः।
 
   जल्न (महाराष्ट्रम्)> मरात् वाडस्थ जल्न देशो अतिवृष्ट्या जायमानेन 
जल-प्रवाहेन मार्गः द्विधा भाग्नः। यानानां गमनवेलायामासीत् दुर्घटना। 
अस्याः चलनदृश्यानि वार्ताहर संस्थया प्रसारिता। एकस्य यानस्य गमनवेलायां 
पृष्टतः मार्गः भग्नम् अभवत्। भाग्यवशात् यानं रक्षां प्राप्तम्। 
शुक्रवासरादारभ्यय प्रदेशेषु नितरां वृष्टिः आसीत्। राज्ये सर्वत्र नाशः 
जायते।
गतदिने वृष्टिवेलायां पूण देशे भित्तिः पतित्वा १५ जनाः
 मारिताः आसन्। रविवासरे अपि नगरस्य विविधभागाः जलेन आप्लाविताः आसन्। अतः 
गतागतः क्लेशपूर्णः आसीत्। घाट् कोपर् देशे आलयः वृष्ट्या पतितः अस्ति।
