OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 18, 2019

कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः। 

हेग् >  मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
  कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि  न लब्धमिति निरीक्षितम्।