OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 30, 2019

काश्मीरस्य सानुप्रदेशे १०००० सैनिकाः विन्यस्यन्ते।
 प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिकविपक्षीय दलैः प्रतिषेधः आयोक्ष्यते।
   नवदिल्ली> जम्मू काश्मीरस्य भूतपूर्व मुख्यमन्त्रिण्या मेहबूबा मुफ्तिना नाषणल् कोण्फरन्स् नेता फारूख् अब्दुल्लः सैनिकविन्यासं विरुद्ध्य साहायाः अभ्यर्थिताः। काश्मीरस्य सानुप्रदेशे दशसहस्रं भारतसैनिकाः विन्यस्यन्ते इति ज्ञात्वा प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिक -दलानां प्रतिषेधः आयोजनीयः इत्यस्ति मेहबूबायाः अभ्यर्थना। पाकिस्थानेन सीमाग्रामेषु 'षेल्' इति शस्त्रमुपयुज्य आक्रमणं क्रियमाणं वर्तते। अवसरेस्मिन्  सैन्यं विरुद्ध्य राजनैतिकविपक्षिदलीयैः संयुक्तोपवेशनम् आयोज्यते इति गौरवास्पदा घटना भवति। पाकिस्थानस्य पक्षतः भीषा अधिका इत्यनेन अर्धसैनिकान् काश्मीरस्य  सानुप्रदेशे विन्यासाय केन्द्र-आभ्यन्तर-मन्त्रालयेन निश्चितं स्यात् ।