OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 24, 2019

कुमारस्वामिसर्वकारः पतितः। 
बेङ्गलुरु >  कर्णाटकराज्ये एस् डि कुमारस्वामिनः नेतृत्वे विद्यमानः जे डि एस् - कोण्ग्रस् सख्यसर्वकारः पतितः। सप्ताहद्वयपर्यन्तं दीर्घितस्य राजनैतिकनाटकस्य अन्ते विश्वासमतगणनावेलायां सख्यसर्वकारस्य भूरिमतं विनष्टमभवत्। २०५ अङ्गयुक्तविधानसभायां केवलं ९९ सामाजिकानां सहयोग एव प्राप्तः। १०५ सामाजिकाः सर्वकारं विरुध्य स्वमतं प्रकटयामासुः। 
  अनन्तरं मुख्यमन्त्री कुमारस्वामी राजभवनं प्राप्य राज्यपालाय त्यागपत्रं समर्पितवान्।