OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 26, 2019

लिबिया सागरतीरे नौकायानभग्नेन १५० अभयार्थिनः आहताः।
   ट्रिप्पोली> गतदिने लिबिया सागरतीरे नौकायानभग्नेन १५० संख्याकाः अभयार्थिनः निहताः। मेडिट्टरेनिया सागरे अस्मिन् वर्षे आपन्ने विपत्सु बृहत्तमा स्यात् इयम् इति यू एन् प्रतिनिधी अवदत्I नौकायाने २५० तः परं जनाः यात्रां कुर्वन्तः आसन्| उपशतं जनान् लिबियस्य तीरसेना धीवराः च संयुक्ततया अरक्षन् इति लिबियस्य नाविकसेना अवदत्। 
   आफ्रिक्क भूखण्डस्थेभ्यः विविधेभ्यः राष्ट्रेभ्यः लिबियं प्राप्य ततः यूरोपस्थान्  राष्ट्राभिमुखाः  गच्छन्ति समान्येन अभयार्थिनः।  २०१९ तमे संवत्सरे  मेडिट्रेनिया सागरे एवं ६०० अभयार्थिनः मारिताः सन्ति इति यु न् प्रतिनिधिः चार्ली याक्स्ली अवदत्।