OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 24, 2019

षार्ज देशे भारतीयाः अनशनतया पीडिताः।
  षार्ज> मासत्रयं यावत् अनशनतया क्लेशिताः केचन भारतीयाः। दुबाय् केन्द्रीकृत्य वास्तुविद्या मण्डले प्रवर्तमानः पालस्तीन् स्वदेशीयानां कर्मसंस्थायां भवति एषा दुर्दशा। केषाञ्चन पारपत्रस्य अनुज्ञाकालस्य पर्यवसितः च। निष्कृतिरपि सम्पूर्णतया न लभते। कर्मसंस्थायाः अधिकारिणां पुरतः निष्कृतिं पृच्छति चेत्  कर्म नास्ति अतः षण्मासान् यावत् प्रकोष्टे यापनं कुरु इति तैः उच्यते इति दाक्षिणात्यः महेशः वदति। एवं चेत् पारपत्रं निरस्य स्वदेशं प्रेषयतुम् अर्थयते चेत् तत्  ते न अङ्गीकुर्वन्ति इत्यपि तेनोक्तम्। अस्मिन् उत्तरभारतीयाः अधिकतया कर्म कुर्वन्ति। येन केनापि मार्गेण स्वदेशः प्रापणीयः इत्यस्ति सर्वेषां मनसि इदानीन्तनीया चिन्ता।  कर्मकरेषु केचित् दुबाय् सर्वकारस्य कर्ममण्डलविभागं प्रति विषयमिदं न्यवेदितम्। तेषां प्रत्युत्तरं प्रतीक्ष्य तिष्ठन्तः सन्ति।