OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 29, 2019

मृत्योः वक्त्रे पितताऽपि अनुजां ग्रहीत्वा पञ्चवयस्का बालिका। सिरियस्य युद्ध-चित्रम्।
सिरिय> भग्नानां सौधानां मध्ये द्वे बालिके तयोः पृष्ठतः पञ्चवयस्का अर्धप्राणा बालिका, तान् दृष्ट्वा निस्सहायतया विलपन्तः कश्चित् पुरुषः- चित्रमिदं सिरियादेशे अनुवर्तमानस्य युद्धस्य भीकरदृश्यमेव। सप्तमास-वयस्काम् टुक्वा नामिकाम् अनुजां रक्षितुं प्रयतते पञ्चवयस्का ज्येष्ठा। अनुजायाः इरितवर्णयुक्त युतके सा ग्रहीतवती। तस्मिन् समये तस्याः करयोः शक्तिप्रवाहः आसीत्I  किन्तु मस्तिष्के आपन्नेन क्षतेन पश्चात् सा मृता आभवत्। तस्यः अन्या अनुजा अपि मृता। टुक्वा आतुरालये तीव्र परिचर्या विभागे चिकित्सायाम् अस्ति। तेषां माता युद्धे मारितवती। 
निष्कलङ्कान् शिशून् कदापि न मारय इति मानवाधिकार प्रवर्तकाणां, सन्नद्ध सङ्‌घटनानां प्रार्थनां अवमत्य भवति सिरियायां विगतानि अष्टसंवत्सराणि यावत् आभ्यन्तरयुद्धम् अनुवर्तते। मसत्रयाभ्यन्तरे एवं ४ ५० जनाः मारिताः इति ऐक्यराष्ट्र-संघटनस्य गणना अस्मान् ज्ञापयते।