OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 25, 2019


  • "पाकिस्थानधिष्ठिताः भीकराः काश्मीरेषु प्रवर्तन्ते" - इम्रान् खानः। 
वाषिङ्टण् >  पाकिस्थानम् आस्थानीकृत्य भीकराः इदानीमपि जम्मुकाश्मीरेषु आक्रमणानि आयोज्यन्ते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। राष्ट्रे भीकरसंस्थाः प्रवर्तन्ते इति विषयं भूतपूर्वसर्वकाराः यू एस् अधिकारिभ्यः गोपनं कृतवन्तः इति तेन उक्तम् ! वाषिङ्टण् नगरे कस्मिंश्चित् समारोहे भाषमाण आसीत् सः।
३० सहस्रेभ्यः ४० सहस्रपर्यन्ताः सायुधाः भीकराः पाकिस्थानमधिवसन्ति। ते सर्वे अफ्गानिस्थानात् काश्मीराद्वा सिद्धपरिशीलाः भवन्ति। उपचत्वारिंशत् आतङ्कवादसंघटनानि राष्ट्रे प्रवर्तमानानि सन्ति। सैन्यस्य साहाय्येन भीकरान् उन्मूलयितुं यतते इति पाक् प्रधानमन्त्रिणा संकलितम्।