Sanskrit Dramma
संस्कृतनाटकम
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, May 6, 2016
बंगाले निर्वाचनं समाप्तम्।
कोल्कोत्ता > पश्चिमबंगराज्ये निर्वाचनप्रक्रिया समाप्ता। ह्यः षष्ठम् अन्तिमम् च चरणमासीत्। तत्र ८४.२४% सम्मतिदायकाः मतदानं कृतवन्तः।
निर्वाचनस्य अन्तिमचरणं प्रायेण शान्तिसमन्वितमासीत्। कुच् बीहार् मेदिनिपुरं जनपदेषु २५ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। आहत्य २९४ मण्डलानि सन्ति। मतगणनप्रक्रिया मेय् १९ तमे दिने भविष्यति।
११ तालिबान् जनानां पाक्किस्थाने मृत्युदण्डः
इस्लामाबाद्> पाकिस्थानस्य सैनिकन्यायालयेन एकादश संख्यकाः तालिबान् भीकराः मृत्युदण्डः लब्धः।
वधः, अपहारः, आरक्षकान् प्रति आक्रमणम्, सार्वजनिक संस्थायाः नाशः च एतैः अनुिष्ठतताः। पेषावारे १५० संख्यकाः विद्यालय-छात्राः २०१४ तमे वर्षे तालिबान् दलेन हताः असन्। तदनन्तरमेव सैनिक-न्यायालयः संस्थापितः।
Thursday, May 5, 2016
उत्तराखण्डे मुख्यन्यायाधिपस्य स्थानचलनम्।
नवदिल्ली - उत्तराखण्डे उच्चन्यायालयस्य मुख्यन्यायाधिपः ज. के एम् जोसफः , येन राज्ये केन्द्रसर्वकारेण आयोजितं राष्ट्रपतिशासनं निरस्तं , चलितस्थानः अभवत्। हैदराबादे आन्ध्राप्रदेशस्य मुख्यन्यायाधिपरूपेणैव स्थानचलनम्।
उत्तराखण्डे राष्ट्रपतिशासनम् आयोजितवन्तं केन्द्रसर्वकारं ज. जोसफः रूक्षतया विमृश्य एव क्रियाविधिं निरोधते स्म।
Wednesday, May 4, 2016
वासयोग्यानां ग्रहाणां दर्शनं वैञ्ज्ञानिकलोकं प्रतीक्षायाम्
पारीस्> राष्ट्रान्तरीयगवेषणसङ्घस्य पठने जीव-वासयोग्यानां त्रयाणाम् अन्यग्रहणां दर्शनम्। भूमेः ४० प्रकाशवर्षाणां दूरे कस्यचित् कृशनक्षत्रस्य जीवसाध्यतामण्डले एव त्रयाणां ग्रहाणां सञ्चारः। भूमेः बहिः उषितुं अत्यधिकम् अनुकूलसाहचर्ययुक्ताः एव एते ग्रहाः इति गवेषकसङ्घानाम् अभिमतः। 'यूरोप्यन् ओर्गनैसेषन् फोर् अस्ट्रोणमिकल् रिसर्च्' इति सङ्घस्य वैज्ञनिकाः एव गवेषणकार्यस्य नेतृत्वं वहन्ति।
व्याज मैदा- अन्वेषणाय मद्रास् उच्च न्यायालयस्य आदेशः।
चेन्नै > गोधूमोत्पन्नायां मैदायाम् आपत्कराणि रासवस्तूनि योजयन्ति इति आरोपणमन्वेष्टुं भक्ष्यसुरक्षा अधिकारिणः मद्रास् उच्चन्यायालयेन आदिष्टाः। आरोपणं सत्यं चेत् दोषारोपितान् विरुध्य शीघ्रं अनन्तरक्रिया स्वीकरणीया इति च आदिष्टा।
मैदायाः श्वेतवर्णकरणाय अलोक्सन् नाम रासवस्तुम् उपयुज्यते इति सार्वजनीनपरीवादे आसीत् श्रेष्ठ न्यायाधिशयोः एस्. के कौल् न्याय- एम् के सुन्दरेश् प्रमुखयोः पीठिकातः अयं निदेशः। मासत्रयाभ्यन्तरेण अन्वेषणं समापनीयम्।
रासयुक्त मैदायाः उपयोगः मनुष्याणां आग्नेयग्रन्थिं नाशयति। आग्नेयग्रन्थेः नाशः मधुमेहस्य मूलकारणमेव अतः अस्मिन् परीवादे प्राधान्यमस्ति इति न्यायालयेन निरीक्षितः।
Tuesday, May 3, 2016
लोकभाषायाः व्याकरणमपि संस्कृतभाषाया रचितः - डा. चान्द किरण सलूजा।
![]() |
डाँ. चान्द किरण सलूजा महाभागस्य भाषणम् |
कोची > लोकेषु विद्यमानासु भाषासु व्याकरणनियमानि संस्कृतभाषायाः उपलब्धानि इति द्वितीयः संस्कृत -कम्मीषन् डाँ. चान्द किरण सलूजा महाभागेन उक्तम्। आङ्गलभाषायां "N" शब्दस्य विविधेषु पदेषु उच्चारणं भिन्नम् अस्ति, किन्तु उच्चारण नियमः नास्ति। किन्तु अङ्गलेयपदस्य उच्चारण काले आङ्गलेयं संस्कृत-भाषायाः नियमान् अनुसरन्ति च । संस्कृत-उच्चारण-नियमानुसारं 'तोर्लि' इति सूत्रं उद्धृत्य उदाहरणसहितमासीत् तस्य भाषणम्।

अस्याः शिल्पशालायाः उद्घाटनम् संस्कृत भाषायाः अन्तर्देशीय कण्सल्टन्ट डा. पण्डितरत्नं जि. गङ्गाधरन् नायर् महोदयः कृतवान् । संस्कृतभारत्याः अखिलभारतीय सङ्घटनामन्त्री वाचस्पति प. नन्दकुमारः अध्यक्ष: आसीत्। श्री शङ्कराचार्य विश्वविद्यालयस्य साहित्यविभागाध्यक्षः डॉ. धर्मराज अटाट्, ब्रह्मस्वं मठाध्यक्षः परमेश्वरन् नम्पूतिरि, डा. एम्.वी नटेशः, डा. सि एन् नील कप्ठः, डा. ई. एन् ईश्वरन् इत्यादयः च उपस्थिताः आसन्।
पञ्च वर्षाभ्यन्तरेण बंगलूरु वासाय अयोग्यः भविष्यति।
बंगलूरु > भारत वैज्ञानिक संस्था (IISC) सूचयति यत् पञ्च वर्षाभ्यन्तरेण बंगलूरु नगरे वासः वायूप्रदूषणेन दुष्करं भविष्यति। गत चत्वारिंशत् वर्षं यावत् वृक्षछेनं अनुवर्तते अत्र। वृक्षच्छेदनं कृत्वा हर्म्यनिर्माणं प्रतिशतं पञ्चविंशत्युत्तर पञ्च शतम् (५२५% ) आधिक्यं दृश्यते। हरिताभा ७८% न्यूना।
जलाशयाः ७९% न्यूनाः । एतस्याः अवस्थाः
नगरमिदानीं नरकवत् भाति इति प्रोफसर् टि. वि रामचन्द्रः अवदत्। समुद्रात् उपरि ३००० पदेषु विद्यमानायां नगरे नदी नास्ति चेदपि ६०० संख्याधिकाः
जलाशयाः आसन् । शतंकिलोमीट्टर् दूरे विद्यमाने कावेरी नद्याः जलमेव अत्र आनयति। कावेरी नदी तु इदानीं दुर्दशायां च । जनसंख्या इदानीं कोटी चI त्वरितपरिहारः आवश्यकः इति, अनुसन्धानानन्तरं IISC सूचयति।
संस्कृतं सरलमिति घोषयित्वा विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसम्मेळनं समाप्तम्।
कोच्ची> भारतस्य सांस्कृतिकभाषारूपेण परिलसत् संस्कृतं सामान्यजनैरपि दैनंदिनभाषणाय समर्थमिति उद्घोषयन् संस्कृतभारत्याः केरळीयघटकस्य विश्वसंस्कृत-प्रतिष्ठानस्य ३६तम राज्यस्तरीयसम्मेलनं एरणाकुळं जिल्लायां मुवाट्टुपुष़ासमीपस्थे तिरुवुंपिलाव् मन्दिराङ्कणे सम्पन्नम्।
प्रतिनिधिसभां श्रीधरीयं निदेशकप्रमुखः डो. एन् पि पि नम्पूतिरिवर्यः उद्घाटनं कृतवान्। प्रतिष्ठानस्य राज्याध्यक्षः डो. एम् पि उण्णिकृष्णः आध्यक्ष्यमवहत्। पण्डितरत्नं डो. जि गंगाधरन् नायर् मुख्यभाषणमकरोत्। संस्कृतभारत्याः अखिलभारतीयसंयोजकः वाचस्पतिः प. नन्दकुमारः वि श्रीकुमारः, पि के राजेष् कुमारः इत्येते प्रभाषणकुर्वन्।
सायाह्ने संवृत्तस्य संस्कृतकलासन्ध्या-कुटुम्बसंगमस्य उद्घाटनं प्रख्यातेन संस्कृतचलच्चित्रनिदेशकेन विनोद् मङ्करा वर्येण कृतम्।ततःपरं कोयिलाण्टी 'भास अक्कादम्याः' एम् के सुरेष् बाबुना अवतारितं कर्णभारं संस्कृतनाटकं आस्वादकहृदयान् अभिभवति स्म।
Monday, May 2, 2016
सौरयूथे लाङ्गूलहीनं नक्षत्रम्

मोदी शासने सम्मिश्रप्रतिकरणम्
पुनरपि प्रधानमन्त्री भवतु इति ७०%जनाः
'सि एम् एस् रिसेर्च हौस्'अनुसन्धान संस्था
पुनरपि प्रधानमन्त्री भवतु इति ७०%जनाः
'सि एम् एस् रिसेर्च हौस्'अनुसन्धान संस्था
नवदेहली >द्वाभ्यां वर्षाभ्यां मोदिशासनेन राष्ट्रे प्रत्येकं परिवर्तनं किमपि न जातम् इति पठनवृत्तान्तरेखा। 'सि एम् एस् रिसेर्च हौस्' इति सङ्धेन कृते पठने जनजीवने प्रत्येकं परिवर्तनं किमपि न जातमिति ४९% जनाः अभिप्रेतवन्तः। जनजीवनं अधिकतया कष्टतां प्राप्तम् इति १५% जनानाम् अभिमतः इति पठनं रेखीकरोति। अवश्यवस्तूनां मूल्यवर्धनं, उद्योगाभावः इत्येतासां समस्यानां परिहरणे मोदिशासनम् अशक्तमेव। केन्द्रपद्वतीनां निर्वहणं कार्यक्षमं न भवति इत्यपि पठनं अभिप्रैति। परन्तु नरेन्द्रमोदी राष्ट्रतात्पर्यं, विकसनं च लक्षीकृत्य एव अग्रे गच्छति इत्यपि जनाः अभिप्रयन्ति इत्यपि पठनं रेखीकरोति।
छात्राः रक्षितारश्च अखिल भारतपरीक्षां स्वागतं कुर्वन्त्यपि सिद्धतार्थं समयलेशः अभवदिति आक्षेपः वर्तते।
नीट् परीक्षायाः प्रथमश्रेणी सम्पन्ना।
कोच्ची > राष्ट्रस्य वैद्य - दन्त वैद्यशिक्षापद्धत्याः एकीकृत देशीय योग्यता परीक्षा (NEET) विविधकेन्द्रेषु सम्पन्ना। केरळे अनन्तपुरी कोच्ची कोष़क्कोट् नगरेषु शतपर्यन्तं केन्द्रेषु परीक्षा चालिता।छात्राः रक्षितारश्च अखिल भारतपरीक्षां स्वागतं कुर्वन्त्यपि सिद्धतार्थं समयलेशः अभवदिति आक्षेपः वर्तते।
नरेन्द्रमोदी प्रथमश्रेण्याम् एव
अहम्मदाबाद् > प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्ययनयोग्यता विषये उन्नीतस्य आक्षेपस्य तात्कालिकविराम:। नरेन्द्रमोदिना गुजरात् विश्वविद्यालयात् राष्ट्रमीमांसायां ६२.३% अङ्कान् प्राप्य बिरुदानन्तरबिरुदं प्राप्तम् इति कुलपतिना एं एन् पट्टेल् महोदयेन स्थिरीकृतम्। केन्द्रीय वृत्तान्तज्ञापनाधिकारसमितेः आदेशमनुसृत्य एव कुलपतिना स्थिरीकरणं दतं वर्तते। मोदिन: बिरुदमपि नास्तीति दिल्ली मुख्यसचिवेन अरविन्दकेज्रिवालेन आक्षेपः उन्नीतः आसीत्।
मुष्टियुद्धे भारतीयरत्नस्य जैत्रयात्रा
लण्डण् >उद्योगात्मके मुष्टियुद्धे भारतीयरत्नस्य विजेन्दर् सिंहस्य पञ्चमः अविरामविजयः। लण्डणे संवृत्तायां क्रीडायां फ्रञ्च् क्रीडकं माटियोस् रोयरं विना प्रयासं विजेन्दरः पराजितवान्। पञ्चमपङ्क्त्याः पूर्वमेव विजेन्दरः विजयपथं प्राप्य उद्योगात्मकेऽस्मिन् मण्डले स्वशक्तिम् प्रादर्शयत्।
उत्तर-खण्डे 1500 ग्रामाः दावाग्निभीत्याम्।
डोराडूण् > उत्तराखण्डे १५०० ग्रामाः दावाग्नेः भत्याम् इत्यनेन भारत-सर्वकारेण जाग्रतायै निर्दिष्टः। दुरन्त-निवारणसेनायाः त्रयः सङ्खाः तत्र नियुक्ताः वर्तन्ते। षट्संख्यकाः जनाः दुरन्ते मृताः। तेषु द्वौ स्त्रियौ।
यावत्कालं विविधासु प्रविश्यासु त्रिसहस्र-'एक्कर्' मितः भूमिः अग्निना ज्वालिता। राज्यस्य पञ्चाशत् भागेभ्यः अग्निः व्याप्नोति।शुक्रवासरे रात्रौ अपि अग्निः नियन्त्रणाधीना इत्यनेन ग्रामीणौ: स्वगृहात् सुरक्षितस्थानानि प्रविष्टानि। एम् ऐ- १७ लम्बक विमानस्य (Helicopter) साहाय्येन अग्निं शामयितुं प्रयत्नः अनुवर्तते।
Subscribe to:
Posts (Atom)