OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 4, 2016

 वासयोग्यानां ग्रहाणां दर्शनं  वैञ्ज्ञानिकलोकं प्रतीक्षायाम् 
          पारीस्> राष्ट्रान्तरीयगवेषणसङ्घस्य पठने जीव-वासयोग्यानां त्रयाणाम् अन्यग्रहणां दर्शनम्। भूमेः ४० प्रकाशवर्षाणां दूरे कस्यचित् कृशनक्षत्रस्य जीवसाध्यतामण्डले एव त्रयाणां ग्रहाणां सञ्चारः। भूमेः बहिः उषितुं अत्यधिकम् अनुकूलसाहचर्ययुक्ताः एव एते ग्रहाः इति गवेषकसङ्घानाम् अभिमतः। 'यूरोप्यन् ओर्गनैसेषन् फोर् अस्ट्रोणमिकल् रिसर्च्' इति सङ्‌घस्य वैज्ञनिकाः एव गवेषणकार्यस्य नेतृत्‍वं वहन्ति।

 व्याज मैदा- अन्वेषणाय मद्रास् उच्च न्यायालयस्य आदेशः।

चेन्नै > गोधूमोत्पन्नायां मैदायाम् आपत्कराणि रासवस्तूनि योजयन्ति इति आरोपणमन्वेष्टुं भक्ष्यसुरक्षा अधिकारिणः मद्रास् उच्चन्यायालयेन आदिष्टाः। आरोपणं सत्यं चेत् दोषारोपितान् विरुध्य शीघ्रं अनन्तरक्रिया स्वीकरणीया इति च आदिष्टा।
मैदायाः श्वेतवर्णकरणाय अलोक्सन् नाम रासवस्तुम् उपयुज्यते इति सार्वजनीनपरीवादे आसीत् श्रेष्ठ न्यायाधिशयोः एस्‌. के कौल् न्याय- एम् के सुन्दरेश् प्रमुखयोः पीठिकातः अयं निदेशः। मासत्रयाभ्यन्तरेण अन्वेषणं  समापनीयम्।
रासयुक्त मैदायाः उपयोगः मनुष्याणां आग्नेयग्रन्थिं नाशयति। आग्नेयग्रन्थेः नाशः मधुमेहस्य मूलकारणमेव अतः अस्मिन् परीवादे प्राधान्यमस्ति इति न्यायालयेन निरीक्षितः।