OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 2, 2016

मोदी शासने सम्मिश्रप्रतिकरणम्
पुनरपि प्रधानमन्त्री भवतु इति ७०%जनाः 
'सि एम् एस् रिसेर्च हौस्'अनुसन्धान संस्था
नवदेहली >द्वाभ्यां वर्षाभ्यां मोदिशासनेन राष्ट्रे प्रत्येकं परिवर्तनं किमपि न जातम् इति पठनवृत्तान्तरेखा। 'सि एम् एस् रिसेर्च हौस्' इति सङ्धेन कृते पठने जनजीवने प्रत्येकं परिवर्तनं किमपि न जातमिति ४९% जनाः अभिप्रेतवन्तः। जनजीवनं अधिकतया कष्टतां प्राप्तम् इति १५% जनानाम् अभिमतः इति पठनं रेखीकरोति। अवश्यवस्तूनां मूल्यवर्धनं, उद्योगाभावः इत्येतासां समस्यानां परिहरणे मोदिशासनम् अशक्तमेव। केन्द्रपद्वतीनां निर्वहणं कार्यक्षमं न भवति इत्यपि पठनं अभिप्रैति। परन्तु नरेन्द्रमोदी राष्ट्रतात्पर्यं, विकसनं च लक्षीकृत्य एव अग्रे गच्छति इत्यपि जनाः अभिप्रयन्ति इत्यपि पठनं रेखीकरोति।

नीट् परीक्षायाः प्रथमश्रेणी सम्पन्ना।
कोच्ची > राष्ट्रस्य वैद्य - दन्त वैद्यशिक्षापद्धत्याः एकीकृत देशीय योग्यता परीक्षा (NEET) विविधकेन्द्रेषु सम्पन्ना। केरळे अनन्तपुरी कोच्ची कोष़क्कोट् नगरेषु शतपर्यन्तं केन्द्रेषु परीक्षा चालिता।
  छात्राः रक्षितारश्च अखिल भारतपरीक्षां स्वागतं कुर्वन्त्यपि सिद्धतार्थं समयलेशः अभवदिति आक्षेपः वर्तते।
नरेन्द्रमोदी प्रथमश्रेण्याम् एव

 अहम्मदाबाद् > प्रधानमन्त्रिणः नरेन्द्रमोदिनः  अध्ययनयोग्यता विषये उन्नीतस्य आक्षेपस्य तात्कालिकविराम:। नरेन्द्रमोदिना गुजरात् विश्वविद्यालयात् राष्ट्रमीमांसायां ६२.३% अङ्‌कान्‌ प्राप्य बिरुदानन्तरबिरुदं प्राप्तम् इति कुलपतिना एं एन् पट्टेल् महोदयेन स्थिरीकृतम्। केन्द्रीय वृत्तान्तज्ञापनाधिकारसमितेः आदेशमनुसृत्य एव कुलपतिना स्थिरीकरणं दतं वर्तते। मोदिन: बिरुदमपि नास्तीति दिल्ली मुख्यसचिवेन अरविन्दकेज्रिवालेन आक्षेपः उन्नीतः आसीत्।

 मुष्टियुद्धे भारतीयरत्नस्य जैत्रयात्रा

लण्डण् >उद्योगात्मके मुष्टियुद्धे भारतीयरत्नस्य विजेन्दर् सिंहस्य पञ्चमः अविरामविजयः। लण्डणे संवृत्तायां क्रीडायां फ्रञ्च् क्रीडकं माटियोस् रोयरं विना प्रयासं विजेन्दरः पराजितवान्। पञ्चमपङ्क्त्याः पूर्वमेव विजेन्दरः विजयपथं प्राप्य उद्योगात्मकेऽस्मिन् मण्डले स्वशक्तिम्  प्रादर्शयत्।

 उत्तर-खण्डे 1500 ग्रामाः दावाग्निभीत्याम्।

डोराडूण् > उत्तराखण्डे १५०० ग्रामाः दावाग्नेः भत्याम् इत्यनेन भारत-सर्वकारेण जाग्रतायै  निर्दिष्टः। दुरन्त-निवारणसेनायाः त्रयः सङ्‌खाः तत्र नियुक्ताः वर्तन्ते। षट्संख्यकाः जनाः दुरन्ते मृताः। तेषु द्वौ स्त्रियौ।

यावत्कालं विविधासु प्रविश्यासु त्रिसहस्र-'एक्कर्' मितः भूमिः अग्निना ज्वालिता। राज्यस्य पञ्चाशत् भागेभ्यः अग्निः व्याप्नोति।शुक्रवासरे रात्रौ अपि अग्निः नियन्त्रणाधीना इत्यनेन ग्रामीणौ:  स्वगृहात् सुरक्षितस्थानानि प्रविष्टानि। एम्  ऐ- १७ लम्बक विमानस्य  (Helicopter) साहाय्येन अग्निं शामयितुं प्रयत्नः अनुवर्तते।