OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 20, 2025

भारत-क्रोयेष्या प्रधानमन्त्रिणोः मेलनं सम्पन्नम्। 

मोदिने संंस्कृतव्याकरणग्रन्थः  पुरस्कारः।

क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने संस्कृतव्याकरणग्रन्थं ददाति। 

सग्रेेब्> त्रिराष्ट्रपर्यटनस्य अंशतया क्रोयेष्यां प्राप्तवते नरेन्द्रमोदिने प्रेमोष्मलं स्वीकरणम्। बुधवासरे क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यं  भारतप्रधानमन्त्री नरेन्द्रमोदी अमिलत्। उभयोरपि राष्ट्रयोः व्यापार-वाणिज्य- सांस्कृतिकसहयोगे चर्चा सम्पन्ना। इदंप्रथममेव कस्यचन भारतप्रधानमन्त्रिणः क्रोयेष्यासन्दर्शनम्। 

क्रोयेष्यायां मुद्रितस्य संस्कृतव्याकरणग्रन्थस्य प्रथमसंस्करणस्य एका प्रतिकृतिः आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने सम्मानितवान्। तत्रत्यः शास्त्रज्ञः धर्मप्रचारकश्च फिलिप् वेस्दीन् इत्यनेन लाटिनभाषायां लिखितः संस्कृतव्याकरणग्रन्थः एव सम्मानितः।

 वेस्दीने भारते उषितवति केरलपण्डितेभ्यः हस्तलिखितप्रतिकृतिभ्यश्च समाहृतस्य विज्ञानस्य आधारे रचितो ग्रन्थो भवत्ययम्। अनेनग्रन्थेन सह अन्यत् ग्रन्थद्वयमपि मोदिने दत्तवान् आन्द्रेवर्यः।

Thursday, June 19, 2025

अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्।

  कालटी> वाचनदिने (जूण् १९) अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्। केरले कल्लूर्काटे विद्यमानस्य सरस्वतीमन्दिरस्य तृतीय कक्षायाः छात्रा भवति इषानी षिजू। तया रचितायाः सार्वजनिक-प्रश्नोत्तरपुस्तिकायाः प्रकाशनम् अद्य सम्पन्नम् अभवत्। विद्यालयस्य प्रधान- अध्यापिका उषा रघु: पुस्तिका प्रकाशितवती। पुस्तिकायाः नाम 'इषानि मोष़िकळ्' नाम इषानि वचांसि। एकसंवत्सरपर्यन्तं वार्तापत्रिकासु आगतासु वार्तासु अन्तर्गतासु विषयेषु अधिष्ठितं भवति इयं प्रश्नोत्तरपुस्तिका। 

रचयिता इषानी षिजू



 अहम्मदाबाद आकाशदुरन्तः 

२०८ मृतशरीराणि प्रत्यभिज्ञातानि; १७० प्रत्यर्पितानि।

अहम्मदाबादः> अतीते गुरुवासरे अहम्मदाबादस्थे सर्दार् वल्लभभाय् पटेल् विमाननिलये दुरापन्ने विमानदुरन्ते मृतेषु २०८ जनानां मृतशरीराणि डि एन् ए परिशोधनद्वारा  प्रत्यभिज्ञातानि। एषु १७० मृतशरीराणि बान्धवेभ्यः प्रत्यर्पितानि। 

  विमानस्थाः २४१ जनाः विमानभञ्जनस्थाने स्थिताः २९ जनाश्च मृत्युमुपगताः इति आधिकारिकतया स्थिरीकृतमासीत्।

 वयनाट् भौममार्गः। 

केन्द्रवातावरणमन्त्रालयस्य अनुज्ञा।


नवदिल्ली> केरले वयनाट् प्रदेशं गन्तुं मार्गान्तररूपेण समर्पितायै 'आनक्कांपोयिल् - मेप्पाटि भौममार्ग' योजनायै बहवोपाधिभिः केन्द्र वातावरणमन्त्रालयस्य अनुज्ञा लब्धा। निर्दिष्टे कोष़िक्कोट् - वयनाट् पङ्क्तिचतुष्टयमार्गे अन्तर्भवति अयं सुरङ्गमार्गः। वर्तमानस्य वयनाट् कन्दरमार्गस्य स्थाने भवत्ययं मार्गः।  अनया अनुज्ञया वीथीनिर्माणस्य साङ्केतिकविघ्नाः अपगताः इति PWD अधिकारिभिः निगदितम्। २१३४ कोटिरूप्यकाणां भवतीयम् अभियोजना।

 पञ्चसु विधानसभामण्डलेषु मतदानं प्रारब्धम्। 

नवदिल्ली> भारते चतुर्षु राज्येषु पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनीया मतदानप्रक्रिया अद्य सम्पद्यते। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधत्तम्। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।

ईसरायेलदेशेन सह संघर्षे पराजयं न स्वीकरिष्यते – इराणस्य नेता आयतुल्लाः अली खमेनेई।

     इराणदेशस्य परमोच्चनेता आयतुल्लाः अली खमेनेई महोदयः घोषयामास यत् –ईसरायेलदेशेन सह सङ्घर्षे इराणदेशः कदापि पराजयं न स्वीकरिष्यति। तेन उक्तं यत् यदि अमेरिकादेशस्य सैन्यम् अस्मिन् संघर्षे प्रविशेत्, तर्हि तेन अपरीहार्या हानिः उद्पाद्यते, सा हानिः परिहर्तुम् अशक्या भविष्यति। राष्ट्रिय-दूरदर्शनद्वारा राष्ट्रं प्रति अभिभाषणं कृत्वा स्पष्टम् अकथयत् यत् –"युद्धस्य युद्धेन, बाणस्य बाणेन च प्रत्युत्तरं दास्यामः। यः कश्चन प्रकारेण वा भीषणेन आदेशेन वा अस्मान् प्रति आगच्छति, तस्य सम्मुखे इराणदेशः न कदापि नमिष्यति "।

      तेन पूर्वसूचना प्रदत्ता यत् यदि अमेरिकया ईसरायेलाय सैनिकसाहायं दीयते तर्हि तेन अमेरिका महती अनुत्तरणीया हानिः निष्पद्येत। "इराणं, तस्य जनान्, तेषाम् इतिहासं च यः जानाति सः विवेकी जनः, कदापि भीषणभाषया न भाषते। कारणम्, इराणजनाः पराजयं न स्वीकरिष्यन्ति।"

Wednesday, June 18, 2025

 इरान-इस्रयेलयोः युद्धे ट्रम्पस्य हस्तक्षेपः। 

इरानेन "निरुपाधिकम् आत्मसमर्पणं" कार्यम्।

टोरन्टो> पञ्चदिनात्मकेन अनुवर्तमाने इरान-इस्रयेलयोः युद्धे अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य हस्तक्षेपः। इरान-इस्रयेलसंघर्षाय यथातथं परिसमाप्तिः आवश्यकीति प्रस्तुतवान् ट्रम्पः कतिपयहोराणामनन्तरं इरानेन "निरुपाधिकम् आत्मसमर्पणं" क्रियतामिति ट्रम्पः स्वस्य 'ट्रूत् सोष्यल्' नामके सामाजिकमाध्यमे सूचितवान्। 

  इरानस्य परमोन्नतनेता अयत्तोल्ला खोमीनि वर्यः कुत्र निलीयते इति जानाति; तस्य हत्या सुकरा अपि इदानीं तदर्थं न प्रयतते इति च ट्रम्पेन उक्तम्।

 इरानतः भारतीयाः अपगन्तव्याः इति भारतस्यादेशः।

   इरान-इस्रयेलयोः युद्धे तीव्रे  इरानस्य राजधनीतः टेह्रानतः सर्वे भारतीयाः अपसरणीयाः इति भारतप्रशासनेन आदिष्टम्। इस्रयेलः टेहराने व्योमाक्रमणम् आरब्धम्। 

  ११० भारतीयछात्राः अर्मेनियां प्रति गच्छन्तीति सूच्यते।

 पलास्तिकविमुक्तकेरलाय   उच्चन्यायालयस्य आदेशः। 

पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि। 

आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः। 

कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा  मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु  च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य  कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्। 

  अधोनिर्दिष्टानामेव निरोधः आदिष्टः। 

+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः। 

+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।

+ पलास्तिकपलालानि [straws], स्थालिका,चषकः। 

+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि। 

 स्वच्छं वातावरणसम्पादनम् अस्माकं अनन्यप्रापणत्वेऽपि प्रथमाप्यम् इत्येतद्दृढीकरणं सर्वेषां कर्तव्यम् इत्यपि नीतिपीठेन स्मारितम् ।

Tuesday, June 17, 2025

 इरान-इस्रयेलयुद्धं रक्तरूषितम्। 

इरानस्य देशीयदूरदर्शनास्थानम् आक्रमितम्। 

टेह्रान्> द्वयोरपि राष्ट्रयोः युद्धं सम्पूर्णताम् आप्नोतीति आशङ्कां जनयन् इरान-इस्रयेलयोः युद्धं रक्तरूषितं वर्तते। गते सायंकाले इस्रयेलेन इरानस्य राष्ट्रिय दूरदर्शनस्य आस्थानं आक्रमितम्। तत्समयवार्तासम्प्रेषणं सम्पद्यमानवेलायाम् आसीत् आक्रमणम्। 'ऐ आर् ऐ बी' इति तद्देशीयदूरदर्शनस्य आस्थानमेवाक्रमितम्। किन्तु काचित् होरानन्तरं सम्प्रेषणं पुनरारब्धम्।

 रुद्रास्त्रेण भारतं परं प्रबलीकृतम्। 

जयपुरं> भारतेन विकसितं आधुनिकड्रोण् शस्त्रस्य परीक्षणं विजयोSभवत्। पञ्चाशत् कि मी दूरे निष्ठया 'आक्रमणं' कृत्वा प्रत्यागतं रुद्रास्त्रमिति कृतनामधेयं नूतनमिदं ड्रोणशस्त्रम्। 

  प्रतिरोधक्षेत्रे निजीयसंस्थया Solar defense and Airo space Ltd इत्यनया निर्मितं रुद्रास्त्रं गतदिने राजस्थाने पोखराने परीक्षितम्। परीक्षणे सैन्यस्य बहवः मानदण्डाः अनेन अधिगताः।

कोङ्कणप्रदेशेषु  अतिवर्षः। रेल्यानानि विलम्बेन गच्छन्ति।

  कण्णूर्> अतिवर्षहेतुना कोङ्कणपथे रेल्यानानि विलम्बेन गच्छन्ति। ह्य: मध्याह्ने प्रस्थास्यमानः मङ्गुलूरु - तिरुवनन्तपुरं एक्स्प्रस् (१६३४८) द्विहोराधिकविलम्बेन ४.२६ वादने एव माङ्गलूरतः प्रस्थितः। युगलयानमिति प्रसिद्धस्य मुम्बै बाङ्गलुरु मत्स्यगन्ध एक्स्प्रस् नाम रेल्यानस्य विलम्बः एव अन्यरेल्यायानानां विलम्बकारणमिति अधिकारिणः सूचयन्ति । युगलयानानाम् आगमने विलम्बः जातः इत्यतः मङ्गलूरु - गोवा मेमू , मङ्गलूरु चत्वरं - मुम्बै अतिशीघ्रयानं, मुरुडेश्वर् - बङ्गलूरू इत्यादीनि रेल्यानानि होराद्वयविलम्बेन गच्छन्ति इति अधिकारिभिः प्रोक्तम्।

Monday, June 16, 2025

 शुभांशु शुक्लः प्रत्यागतवान्। आक्सियं ४ परियोजना  सम्पूर्णा।

  भारतस्य बहिराकाशसञ्चारी शुभांशुशुक्लः चरित्रमारचितवान्। अष्टादशदिनानि यावत् बहिराकाशनिलये उषित्वा एव सः परीक्षण- निरीक्षणानि कुशलतया कृतवान्। अनन्तरम्  अद्य  भारतसमये सायं त्रिवादने भूमिं सम्प्राप्तवान्। स्पेस् एक्स् इत्यस्य क्रू ड्रागण् पेटिकायां  दक्षिणकालिफोर्णियायाः तीरे पसफिक् महासमुद्रे आसीत् अवतरणम्। सञ्चारिणः सर्वे सुरक्षिताः प्रत्यागताः। एवं प्रकारेण आक्सियं ४ परियोजना सफला सम्पूर्णा च समभवत्।

 सैप्रसे नरेन्द्रमोदिने उज्वलं स्वीकरणम्। 

सैप्रसं प्राप्तं नरे्द्रमोदिनं राष्ट्रपतिः विमाननिलयं प्राप्य स्वीकरोति। 

निकोसिया> त्रिराष्ट्रपर्यटनस्य अंशतया सैप्रसराष्ट्रं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने उज्वलं स्वीकरणं प्रदत्तम्। सैप्रसराष्ट्रपतिः निकोस् क्रिस्टो डौलिड्स् वर्यः साक्षादागत्य विमाननिलये मोदिनं स्वीकृतवान्। 

 उभयोरपि राष्ट्रयोः व्यापार-वाणिज्यभागभाक्त्वमधिकृत्य चर्चा विधास्यते। सैप्रसे भारतीयजनसमूहेन सह मोदिवर्यः संवादं कृतवान्।

 उत्तराखण्डे उदग्रयानदुर्घटनायां सप्त मरणानि। 

रुद्रप्रयागः> उत्तराखण्डे केदारनाथात् प्रतिनिवृत्तान् तीर्थाटकान् वहत् उदग्रयानं विशीर्य सप्त जनाः मृताः। मृतेषु यानचालकः, द्विवयस्का बालिका च अन्तर्भवतः। 

    'आर्यन् प्रैवट् लिमिटड्' संस्थायाः बेल् ४०७ इति उदग्रयानं रविवासरे उषसि गौरीकुण्डस्य केदारघट्टस्थस्य त्रियुगिनारायणस्य च मध्ये वनं प्रपतितमासीत्। पर्यावरणदुष्प्रभावः अस्ति दुर्घटनाहेतुरिति सूच्यते। केदारनाथतीर्थाटनस्य आरम्भात्परं पञ्चमी उदग्रयानदुर्घटना भवत्येषा।

 अग्निवर्षणे इरानः इस्रयेलश्च। 

इराने १२८ मरणानि; इस्रयेले १३। 

इस्रयेले टेल् अवीवे इरानकृते अग्निबाणप्रयोगेण जातं स्फोटनम्। 

टेल् अवीव् /टेहरान्> पश्चिमेष्याम् आशङ्कायाः कण्टकाग्रे स्थापयत् इरान-इस्रेलयोः युद्धं कठिनायते। रविवासरे इस्रयेलस्य मध्योत्तरप्रदेशेषु इरानेन कृते बालिस्टिक् अग्निबाणाक्रमणे दश जनाः हताः। तेषु पञ्च युक्रेनदेशीयाः इति सूच्यते। द्विशताधिके जनाः व्रणिताः। अनेन इस्रयेले त्रयोदश जनानां प्राणहानिरभवत्। 

  इरानस्य तैलेन्धनसम्भरणशालाः, सैनिककेन्द्राणि, आणवनिलयाः इत्येतेषु स्थानेषु गतदिने अपि इस्रयेलयुद्धविमानैः बोम्बवर्षणं कृतम्। इराने इतःपर्यन्तं १२८ जनाः मृत्युमुपगताः।

 शुभांशोः यात्रा जूण् १९ तमे। 

शुभांशु शुक्लः। 

नवदिल्ली> व्योमसेनायाः ग्रूप् केप्टन् पदीयः शुभांशु शुक्लेन सह त्रीणां अन्तरिक्षयात्रा पुनरपिपरिवर्तिता। जूण् १९ तमे दिनाङ्के तस्य यात्रा भविष्यतीति सर्वकारेण निगदितम्। दुष्टपर्यावरणेन, साङ्केतिकदोषेण च द्विवारं यात्रा परिवर्तितम्।

Sunday, June 15, 2025

 केरले अतिवृष्टिः। 

एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः। 

कोच्ची> केरले सर्वत्र  दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः। 

बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।

 पश्चिमेष्या प्रक्षुब्धा। 

आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च। 

इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।

 इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।

इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने। 

टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि। 

  प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ  सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।

 विश्वनिकषक्रिकट् - दक्षिणाफ्रिकाराष्ट्राय किरीटम्। 

किरीट प्राप्तवतः दक्षिणाफ्रिकादलस्य नायक टेम्बा बवूमा पुत्रेण सह विजयाह्लादे। 

लण्टनं> दक्षिणाफ्रिकाराष्ट्रं प्रथमतया विश्वक्रिकट्निकषस्पर्धापरम्परायाम् अन्तिमविजयं प्राप। प्रतिद्वन्दिनम् आस्ट्रेलिया दलं पञ्च क्रीडकैः पराजित्य आसीत् दक्षिणाफ्रिकायाः किरीटधारणम्। 

  तेम्बा बवुमा इत्यस्य नायकत्वे दक्षिणाफ्रिकादलं अन्तिमस्पर्धायाः प्रथमचरणे ७४ धावनाङ्कानां पृष्ठतः आसीत्। ततः द्वितीयचरणे ताडनप्रारम्भकस्य [Opener]एय्डन् मार्क्रमस्य १३६ धावनाङ्कैः, नायकस्य ६६ धावनाङ्कैः च विजयं प्रत्यग्रहीत्। वर्तमानीनविजेता भवति आस्ट्रेलिया । प्राप्ताङ्काः - आस्ट्रेलिया -२१२,२०७। दक्षिणाफ्रिका - १३८, २८२/५।

 'नीट्' परिणामः - प्रथमस्थानं राजस्थानीयछात्राय।

नवदिल्ली> वैद्यकीयप्रवेशाय आयोजितायाः नीट् इति (National Eligibility come Entrance Test) परीक्षायाः परिणामः प्रसिद्धीकृतः। प्रथमश्रेणीचतुष्टयं पुरुषछात्रैः प्राप्तम्। 

  राजस्थानीयः महेश् कुमारः प्रथमस्थानं प्राप्तवान्। तस्य शतमानीयाङ्कः [Percentail score] 99. 9999547 भवति। द्वितीयस्थाने मध्यप्रदेशीयः उत्कर्ष अवाध्यः वर्तते। महाराष्ट्रीयः कृष्णाङ्ग जोषी तृतीयश्रेणीं दिल्लीयः मृणाल किशोर झा चतुर्थश्रेणीं च प्राप्तवन्तौ। 

  २२,०९,३१८ छात्राः नीट् परीक्षां लिखितवन्तः। तेषु १२,३६,५३१ छात्राः योग्यतां प्रापुः। पञ्चलक्षाधिके पुरुषछात्राः सप्तलक्षाधिकाः महिलाछात्राः षट् तृतीयलिंगीयाश्च अन्तर्भवन्ति।

Saturday, June 14, 2025

 दुरन्तस्थानं आतुरालयं च सम्प्राप्य आहतान् समाश्वासयन् प्रधानमन्त्री। 

मोदिवर्यः विश्वासकुमारं छात्रावासस्थानं च सम्पश्यति। 

अहम्मदाबादः> विमानपतनेन भग्नं बि जी वैद्यकीयकलालयस्य छात्रावासम्, आहतानां  प्रवेशनं कारितम् असर्वास्थम् जनकीयातुरालयं [Civil Hospital] च प्रधानमन्त्री नरेन्द्रमोदी ह्यः सम्प्राप्तवान्। दुर्घटनास्थानं सन्दृष्टवान् प्रधानमन्त्री जनकीयातुरालयं प्राप्य दुर्घटनायाः अद्भुतरीत्या रक्षां प्राप्तवन्तं विश्वासकुमार रमेशं प्रथमं संदृष्टवान्। दुर्घटनावृत्तान्तमधिकृत्य तस्मात् अवगतवान् मोदिवर्यः  परिचर्यायां वर्तमानान् २५ आहतानपि संदृष्टवान्। 

  तदनन्तरं व्योमयानमन्त्रालयाधिकृतैः आरक्षणाधिकारिभिः च सह चर्चां कृतवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः, केन्द्रव्योमयानमन्त्री राममोहन नायिडुश्च प्रधानमन्त्रिणा सह आस्ताम्।

 'वान्हा' पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः। 

कोष़िक्कोट्> पञ्चदिनैः केरलतीरे समुद्रे अग्निकाण्डेन प्रवहन्त्यां  वान् हाय् ५०३ इति पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः कारितः। अग्निं पूर्णतया निर्व्यापयितुं द्वादशसहस्रं किलोमितं रासचूर्णमपि विकरीतुं निश्चयः कृतः। 

  एतदाभ्यन्तरे शक्तप्रवाहेण चलन्तीं महानौकां नियन्त्रयितुं बद्धः लोहरज्जुः भग्ना। तथापि अतिसाहसिकतया पुनरपि रज्ज्वा बद्ध्वा तीरसंरक्षणसेनया महानौका नियन्त्राधीना जाता।

 युद्धभीत्यां पश्चिमेष्या। 

इस्रयेलेन इरानः आक्रमितः।

इराने इस्रयेलस्य आक्रमणम्। 

इरानस्य सेनाधिपाः आणवशास्त्रज्ञाश्च हताः। 

टेल् अवीव्> पश्चिमेष्यां युद्धाशङ्कायाः  कण्टकाग्रे स्थापयित्वा इस्रयेलः इरानम् आक्रमत्।  इरानस्य आणवाभियोजनायाः मस्तिष्कमिति कथ्यमानः तथा च "इरान् रवलूषणरि गार्ड् कोर्" इत्यस्य अधिपः जनरल् हुसैन् सलामी, संयुक्तसेनाधिपः मेजर् जनरल् मुहम्मद बखारि, पूर्वतनः सुरक्षोपदेष्टा अलि षंखानि, अन्ये षट् आणवशास्त्रज्ञाश्च आक्रमणे निहता इति इस्रयेलेन निगदितम्। 

   शुक्रवासरस्य प्रत्युषसि प्रादेशिकसमये सार्धत्रिवादने इरानस्य विभिन्नानि आणव-सैनिककेन्द्राणि लक्ष्यीकृत्य युगपत् द्विशताधिकं मनुष्यरहितयुद्धविमानानि उपयुज्य बोम्बाक्रमणं कृतमिति इस्रयेलस्य सेनावक्ता एफि डेफ्रिनः निगदितवान्। इस्रयेलस्य आक्रमणानन्तरं इरानः अपि शताधिकानि ड्रोण् यन्त्राण्युपयुज्य प्रत्याक्रमणमकरोत्। किन्तु तत्सर्वं स्वकीयव्योमप्रतिरोधसंविधानेन भग्नमिति इस्रयेलेन अभिमानितम्। 

  विंशति मासेभ्यः पूर्वं इस्रयेलः हमासमभिव्याप्य इराननुकूलितसायुधसंघटनानि च मिथः आरब्धं युद्धम् इदानीं द्वयोः राष्ट्रयोर्मध्ये आरब्धं युद्धमिति परिणतम्।

 अहम्मदाबाद विमानदुरन्ते विश्वनेतारः  अनुशोचन्ति स्म। 

> भारते गुजरातराज्ये अहम्मदाबादे दुरापन्ने विमानदुरन्ते विश्वनेतॄणाम् आदराञ्जलयः। हृदयभेदिका दुर्घटना इति ब्रिटनस्य प्रधानमन्त्री केय्र् स्टामर् अवोचत्। स्तोभजनकमस्ति दुर्घटनाश्रवणमिति ब्रिट्टनस्य राजा चाल्स् तृतीयः उक्तवान्। 

  रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः, आस्ट्रेलियायाः प्रधानमन्त्री आन्टणी अल्बनीसः इत्यादयः मृतानां परिवाराणां दौर्भाग्ये स्वकीयदुःखं प्रकाशितवन्तः। 

  बङ्गलादेशः, मलेष्या, मालिद्वीपः इत्यादीनां राष्ट्राणां शासनकर्तारः, सर्वेषां गल्फराष्ट्राणां नेतारः च भारतस्य दुःखे भागं गृहीतवन्तः।