केरले अतिवृष्टिः।
एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः।
कोच्ची> केरले सर्वत्र दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः।
बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।