वयनाट् भौममार्गः।
केन्द्रवातावरणमन्त्रालयस्य अनुज्ञा।
नवदिल्ली> केरले वयनाट् प्रदेशं गन्तुं मार्गान्तररूपेण समर्पितायै 'आनक्कांपोयिल् - मेप्पाटि भौममार्ग' योजनायै बहवोपाधिभिः केन्द्र वातावरणमन्त्रालयस्य अनुज्ञा लब्धा। निर्दिष्टे कोष़िक्कोट् - वयनाट् पङ्क्तिचतुष्टयमार्गे अन्तर्भवति अयं सुरङ्गमार्गः। वर्तमानस्य वयनाट् कन्दरमार्गस्य स्थाने भवत्ययं मार्गः। अनया अनुज्ञया वीथीनिर्माणस्य साङ्केतिकविघ्नाः अपगताः इति PWD अधिकारिभिः निगदितम्। २१३४ कोटिरूप्यकाणां भवतीयम् अभियोजना।