OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 19, 2025

 पञ्चसु विधानसभामण्डलेषु मतदानं प्रारब्धम्। 

नवदिल्ली> भारते चतुर्षु राज्येषु पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनाय मतदानप्रक्रिया अद्य सम्पद्यते। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधत्तम्। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।