OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 2, 2026

 सप्त मण्डलेषु प्राधान्यं कुर्वत् आयव्ययपत्रं प्रस्तुतम्

आयव्ययपत्रप्रस्तुतिवेलायां निर्मला सीतारामः। 

। 

नवदिल्ली> सप्तसु तन्त्रप्रधानेषु अग्रकोटिस्थेषु मण्डलेषु प्राधान्यं कुर्वत् आयव्ययपत्रं केन्द्रवित्तमन्त्रिणा निर्मला सीतारामेण गतदिने लोकसभायां प्रस्तुतम्। तृतीय मोदिप्रशासनस्य तृतीयम् आयव्ययपत्रं 'युवशक्ति' पत्रमिति वित्तमन्त्रिणा विशिष्टम्। 

1. बयोफार्मा नामक जैवौषधमण्डलस्य विकासाय दशसहस्रं कोटि रूप्यकाणि अनुमोदितानि।

2. अर्धचालक 'चिप्' [semiconductor] निर्माणस्य प्राधान्यमस्ति। अनेन भारतीय इन्टेर्नेट् प्रोटोकोल् [Indian Internet protocol] इत्यस्य विकासः लक्ष्यीक्रियते। 

3. इलक्ट्रोणिक्स् उपकरणानाम् अंशानां निर्माणाय अस्मिन् आयव्ययपत्रे ४० ००० कोटि रूप्यकाणि अनुमोदितानि। गतवर्षे त एतत् २३,००० कोटि रूप्यकाणि आसन्। 

4. अपूर्वखनिजानि अन्तर्भूतानां राज्यानां - ओडीशा,केरलं, आन्ध्रप्रदेश, तमिलनाट्- धातुखननाय प्राधान्यमर्हति। 

5. औषधानाम् आयातं न्यूनीकर्तुमुद्दिश्य औषधनिर्माणाय तिस्रः औषधनिर्माणसंस्थाः [Chemical park] आरब्धुं निश्चितमस्ति।

6. कण्टैनर् [container] निर्माणकेन्द्राय दशसहस्रं कोटि रूप्यकाणि अनुमोदितानि। अस्मिन् क्षेत्रे भौगोलिकशक्तिमत् राष्ट्रमिति लक्ष्यम्।

7. Mega Textile park नामिकाः संस्थाः, निर्यातकेन्द्राणि च निर्मातव्यानि।