दुरन्तस्थानं आतुरालयं च सम्प्राप्य आहतान् समाश्वासयन् प्रधानमन्त्री।
![]() |
मोदिवर्यः विश्वासकुमारं छात्रावासस्थानं च सम्पश्यति। |
अहम्मदाबादः> विमानपतनेन भग्नं बि जी वैद्यकीयकलालयस्य छात्रावासम्, आहतानां प्रवेशनं कारितम् असर्वास्थम् जनकीयातुरालयं [Civil Hospital] च प्रधानमन्त्री नरेन्द्रमोदी ह्यः सम्प्राप्तवान्। दुर्घटनास्थानं सन्दृष्टवान् प्रधानमन्त्री जनकीयातुरालयं प्राप्य दुर्घटनायाः अद्भुतरीत्या रक्षां प्राप्तवन्तं विश्वासकुमार रमेशं प्रथमं संदृष्टवान्। दुर्घटनावृत्तान्तमधिकृत्य तस्मात् अवगतवान् मोदिवर्यः परिचर्यायां वर्तमानान् २५ आहतानपि संदृष्टवान्।
तदनन्तरं व्योमयानमन्त्रालयाधिकृतैः आरक्षणाधिकारिभिः च सह चर्चां कृतवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः, केन्द्रव्योमयानमन्त्री राममोहन नायिडुश्च प्रधानमन्त्रिणा सह आस्ताम्।