विश्वनिकषक्रिकट् - दक्षिणाफ्रिकाराष्ट्राय किरीटम्। किरीट प्राप्तवतः दक्षिणाफ्रिकादलस्य नायक टेम्बा बवूमा पुत्रेण सह विजयाह्लादे।
लण्टनं> दक्षिणाफ्रिकाराष्ट्रं प्रथमतया विश्वक्रिकट्निकषस्पर्धापरम्परायाम् अन्तिमविजयं प्राप। प्रतिद्वन्दिनम् आस्ट्रेलिया दलं पञ्च क्रीडकैः पराजित्य आसीत् दक्षिणाफ्रिकायाः किरीटधारणम्।
तेम्बा बवुमा इत्यस्य नायकत्वे दक्षिणाफ्रिकादलं अन्तिमस्पर्धायाः प्रथमचरणे ७४ धावनाङ्कानां पृष्ठतः आसीत्। ततः द्वितीयचरणे ताडनप्रारम्भकस्य [Opener]एय्डन् मार्क्रमस्य १३६ धावनाङ्कैः, नायकस्य ६६ धावनाङ्कैः च विजयं प्रत्यग्रहीत्। वर्तमानीनविजेता भवति आस्ट्रेलिया । प्राप्ताङ्काः - आस्ट्रेलिया -२१२,२०७। दक्षिणाफ्रिका - १३८, २८२/५।