पश्चिमेष्या प्रक्षुब्धा।
आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च।
इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।
इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने।
टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि।
प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।