अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्।
कालटी> वाचनदिने (जूण् १९) अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्। केरले कल्लूर्काटे विद्यमानस्य सरस्वतीमन्दिरस्य तृतीय कक्षायाः छात्रा भवति इषानी षिजू। तया रचितायाः सार्वजनिक-प्रश्नोत्तरपुस्तिकायाः प्रकाशनम् अद्य सम्पन्नम् अभवत्। विद्यालयस्य प्रधान- अध्यापिका उषा रघु: पुस्तिका प्रकाशितवती। पुस्तिकायाः नाम 'इषानि मोष़िकळ्' नाम इषानि वचांसि। एकसंवत्सरपर्यन्तं वार्तापत्रिकासु आगतासु वार्तासु अन्तर्गतासु विषयेषु अधिष्ठितं भवति इयं प्रश्नोत्तरपुस्तिका।
![]() |
रचयिता इषानी षिजू |