OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, February 2, 2026

 अन्तिमं टि २० क्रिकट् 

भारतस्यविजयः ; परम्पराप्राप्तिः ४ - १। 

अनन्तपुरी> केरले अनन्तपुर्यां 'ग्रीन् फील्ट्' क्रीणाङ्कणे सम्पन्ने पञ्चमे अन्तिमे च प्रतिद्वन्द्वे भारतं न्यूसिलान्टं ४६ धावनाङ्कैः पराजयत। अनेन न्यूसिलान्टेन सह भारतस्य टि २० क्रिकट्क्रीडापरम्परा ४-१ इति रूपेण भारतेन सम्प्राप्य समाप्ता। 

  प्रथमं कन्दुकताडनं कृतेन भारतदलेन पञ्च द्वारकान् विनश्य २७१ धावनाङ्काः सम्पादिताः। प्रत्युत्तरक्रीडायां न्यूसिलान्टस्य कन्दुकताडनं १९. ४ क्षेपणचक्रैः २२५ धावनाङ्कान् सम्पाद्य समाप्तिं प्राप। 

  ४३ कन्दुकेषु १०३ धावनाङ्कान् सम्पादितवान्  इषान् किषः श्रेष्ठक्रीडकोSभवत्। सूर्यकुमार यादवः परम्परायाः श्रेष्ठक्रीडकः जातः। सः अस्यां क्रीडायां ३० कन्दुकैः ६३ धावनाङ्कान् सम्पादितवान्।