OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 29, 2016

 सविशेषपरिगणनापदं - भारतं पुनर्विचिन्तने।
नवदिल्ली>दशकद्वयं यावत् भारतं पाकिस्तानाय दीयमानं सविशेषपरिगणनाराष्ट्रम् इति स्थानम् उपसंहर्तुं पर्यालोचना आरब्धा। उरि भीकराक्रमणस्य पश्चात्तले पाकिस्तानं विरुध्य विभिन्नतलेषु नयतन्त्रपदक्षेपान्  शक्तीकर्तुम् एवायं चिन्तनम्।
     १९९६तमे संवत्सरे विश्वव्यापारसंस्थायाः गाट् सन्धिं परिगण्य एव एम् एफ् एन् इति सविशेषस्थानं ददौ।भारतेन सह पाकिस्तानमपि गाट् सन्धौ हस्ताक्षरम् विदधात्।
     तथा च सिन्धुनदीजलसन्धिमपि निराकर्तुं भारतं विचिन्तयदस्ति। किन्तु नदीजलसन्धिनिरासः पाकिस्तानं प्रति युद्धप्रख्यापनमिति परिगणयेदिति पाकिस्तानवृत्तैः उक्तम्।

कावेरी - तमिळनाटु कृते ६००० क्यूसेक्स् परिमितं जलं दातव्यमिति सर्वोच्चन्यायालयः।
नवदिल्ली>तमिल् नाट् राज्याय शुक्रवासरपर्यन्तं प्रतिदिनं ६००० क्यूसेक्स् परिमितं कावेरीजलं दातव्यमिति कर्णाटकराज्यं प्रति सर्वोच्चन्यायालयः पुनरपि निरादिशत्। नीतिपीठस्य आदेशः कर्णाटकविधानसभया देयकद्वारा तरणं कृतः तथापि दिनत्रयं यावदपि जलं निर्गमयितुमेव निर्देशः।
   कावेरीविषये राजनैतिकपरिहाराय दिनद्वयाभ्यन्तरे राज्ययुगलस्य मुख्यमन्त्रिणोः मेलनम् आयोजयितुं केन्द्रसर्वकारं प्रति निरादिशत्।