OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 1, 2026

 राष्ट्रस्य पेट्रोलियसञ्चयं वर्धापयितुं प्रक्रमाः आरब्धाः। 

मुम्बई> राष्ट्रस्य ऊर्जविभागे मुख्यस्थानं वहन्तं पेट्रोलियसञ्चयं वर्धापयितुं प्रक्रमाः आरब्धाः। ओडीषायां चान्दिखोल्, मध्यप्रदेशे बिना, राजस्थाने बिकानेर् इत्येतेषु स्थानेषु  नूतनानि त्रीणि सञ्चयकेन्द्राणि निर्मातुं, तथा कर्णाटके मंगलुरु, पातूर् इत्यनयोः स्थानयोः   सञ्चयनव्याप्तिं वर्धापयितुं च सर्वकारेण उद्दिश्यते। राष्ट्रे ४० दिनानि यावत् यथेष्टम् उपयोक्तुं असंस्कृततैलस्य सञ्चयं सज्जीकर्तुमेव लक्ष्यम्।

 फिफा विश्वचषकः।

जर्मनी, नेतर्लान्टः च बहिर्नीतौ। 

यू एस्> त्वरितलक्ष्यवेधनपर्यन्तं [Penalty shoot out] दीर्घितया क्रीडया पादकन्दुकक्षेत्रे शक्तिमन्तौ द्वौ दलौ निर्णायकचक्रात् बहिर्नीतौ - जर्मनी, नेतर्लान्टः च। जर्मनी पराग्वां प्रति, नेतर्लान्टः मोरोकोदलं प्रति च पराजितवन्तौ। पराग्वा, मोरोको च पूर्वचतुर्धांशचक्रं प्राविशताम्।