OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 31, 2026

 लयणल् मेसी निवृत्तवान्। 


पादकन्दुकेतिहासः लयणल् मेसी अन्ताराष्ट्रियक्रीडाभ्यः विरराम। सामाजिकमाध्यमद्वारा एव अर्जन्टीनादलनायकः मेसीवर्यः स्वस्य निवृत्तिनिर्णयम् उदघोषयत्। ३९ तमे वयसि अस्ति तस्य विरतिः। 

  २१ वर्षाणां क्रीडाजीवने  मेसीवर्यः  २०७ क्रीडाभ्यः  १२५ लक्ष्यकन्दुकानि सम्प्राप्तवान्। ६५ लक्ष्येभ्यः सः कारणभूतश्चाभवत्।

 प्रजातन्त्रे प्रश्नप्रच्छनं नागरिकधर्मः। 

विचारणीयदृढमतैः न्यायाधीशाः। 

न्यायाधीश उज्जल भूयानः। 

नवदिल्ली> प्रजातन्त्रव्यवस्थायां प्रश्नोन्नयनं नागरिकधर्म इति वरिष्ठाः न्यायाधिपाः उद्बोधयामासुः। दिल्ल्यां राष्ट्रिय नियम विश्वविद्यालये [National Law University] एल् एल् एम् बिरुददानकार्यक्रमे भाषणं कृतवन्तः सर्वोच्चन्यायालये न्यायाधीशौ उज्जल भुयानः, बि वी नागरत्ना इत्येतौ, तथा डि एस् बोर्कर् अनुस्मरणप्रभाषणे ओडीशा उच्चन्यायालयस्य पूर्वीयः मुख्यन्यायाधिपः डो एस् मुरलीधरः च चर्च्यमाने अस्मिन् विषये दृढमतमुन्नीतवन्तः। 

  अधिकारिणः प्रति प्रश्नान् उन्नीतवन्तः इत्यतः छात्रान् विरुध्य भीषाप्रस्तावः दण्डविधिः इत्यादिकं संविधानविरुद्धमिति न्याया. उज्जल भुयानः अवदत्। प्रजातन्त्रीयायां व्यवस्थायां वैकल्ये प्रतिप्रश्निते,सः न धिक्करणीयः भवति। शासनसंविधानाधारत्वेन नागरिकेभ्यः स्वतन्त्रतायाः अंशत्वेन च अङ्गीकृतं उत्तरदायित्वमेवेति च तेन प्रोक्तम्।  

   


 एष्यन् गयिंस् मध्ये नीरज चोप्रा न क्रीडिष्यति। 

नव दिल्ली> भारतस्य ओलिम्पिक्स् सुवर्णविजेता नीरज चोप्रा अस्याम् एष्यीय कायिकक्रीडायां न क्रीडिष्यति। कुन्तप्रक्षेपणे [जावलिन् त्रो] वर्तमानीनः सुवर्णविजेता चोप्रावर्यः जङ्घायां जातेन क्षतेन एष्यीय कायिकक्रीडायाः अपसृतवान्। 

  नीरजस्य स्थाने कोमण् वेल्त गयिंस् मध्ये कांस्यपदकविजेता यश्वीर सिंहः अन्तर्भूतः। रोहित यादवः अपि भारताय स्पर्धिष्यते।

 नेपाल् प्रलयदुरन्तः

भारतेन ६८. ५ टणमिताः दुरिताश्वाससामग्र्यः दत्ताः। 

काठ्मण्डुः> आकस्मिकप्रलयेन दुरितमनुभूयमानाय नेपालराष्ट्राय भारतेन ६८. ५ टणमिताः दुरिताश्वाससामग्र्यः दत्ताः इति नेपालस्थेन भारतस्थानपतिकार्यालयेन निगदितम्। एतदतिरिच्य भारतात् साङ्केतिक-वैद्यकीयसंघाः 'फोरन्सिक्'विभागाभिज्ञाः च दुरन्तनिवारण-समाश्वासप्रवर्तनेषु भागं गृहीतवन्तः। डि एन् ए परिशोधनाभाण्डाः, रक्षाप्रवर्तने उपयुज्यमानानि आधुनिकोपकरणानि च भारतेन दत्तानि। 

  ११ टण् मितं दुरिताश्वाससामग्रीं वहत् भारतस्य चतुर्थं विमानं नेपालं प्राप्तमिति विदेशकार्यमन्त्रालयेन 'एक्स्'माध्यमद्वारा निगदितम्। सेतुनिर्माणाय उपयुज्यमानानि उपकरणानि वहन्ति १६ ट्रक् यानानि नेपालं प्राप्तानि। सप्त 'बेय्लि' सेतून् निर्मातुं उपकरणान्यपि दास्यन्तीति भारतेन निगदितम्।

Sunday, August 30, 2026

 ओपरेषन् तूफान्

१२. ६ किलोमितं MDMA मादकद्रव्येण सह त्रयः निगृहीताः। 

 मलप्पुरं> केरलसर्वकारस्य उन्मादकद्रव्यनिर्मार्जनाभियोजनायाः – नाम्ना ओपरेषन् तूफान् - अंशतया कृते प्रक्रमे केरलम् आनेतुम् उद्युक्तेन १२. ६ किलोमितेन एं डि एम् ए नामकेन रासमादकद्रव्येण सह त्रयः युवकाः कोयम्पुत्तूरे  आरक्षकसेनया निगृहीताः। विपण्यां  दशकोटिरूप्यकाणां मूल्यं कल्प्यते।  केरलारक्षकसेनायाः बृहत्तमं MDMA ग्रहणमिति उत्तरमण्डलस्य ऐ जि पदीयः पुट्ट विमलादित्यः वार्ताहरसम्मेलने न्यगादीत्। 

  मलप्पुरं प्रदेशीयाः एव निगृहीताः। केरलस्य अन्तः बहिश्च मादकवस्तुविक्रयसंघे अन्तर्भूताः एते। अस्य मासस्य षष्ठदिनाङ्के ९७ ग्रां मितेन एम डि एम् ए वस्तुना सह मञ्चेरीप्रदेशे षट् जनाः निगृहीताः आसन्। एतेभ्यः लब्धाः सूचनाः अनुसृत्य कृते अन्वेषणे आसीत् त्रयाणां  निग्रहणम्।

 एस् सि ओ शिखरसम्मेलनम्

प्रधानमन्त्री उस्बकिस्थाने। 

नरेन्द्रमोदिनं उस्बकिस्थानस्य राष्ट्रितिः स्वीकरोति। 

ताष्केन्ट्> दिनद्वयात्मकसन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्र मोदी उस्बकिस्थानराष्ट्रं सम्प्राप। सोमवासरे किर्गिस्थाने आरभ्यमाणे 'षाङ्हाय् सहयोग शिखरसम्मेलने' [एस् सि ओ] भागग्रहणस्य अंशतया अस्ति मोदिवर्यस्य उस्बकिस्थानसन्दर्शनम्। 

  सोम - मङ्गलवासरयोः किर्गिस्थानस्य राजधानी बिष्कन्ट् इत्यत्र एव २६ तमं एस् सि ओ सम्मेलनं सम्पद्यते। भारतमतिरिच्य रष्या, चीनः, इरानं, पाकिस्थानं, बलरूस्, ताजिकिस्थानम्, उस्बकिस्थानं,किर्गिस्थानं, कसाकिस्थानम् इत्येतानि राष्ट्राणि च एस् सि ओ मण्डले सदस्याः सन्ति। 

  शनिवासरे उस्बकिस्थानं प्राप्तवन्तं नरेन्द्र मोदिनं ताष्केन्ट् विमाननिलये उस्बकिस्थानस्य राष्ट्रपतिः षाव् कात् मिर्सियोयेव् इत्यस्य नेतृत्वे स्वीचकार। विविधविषयेषु उभयपक्षसम्बन्धं प्रबलीकर्तुम् उच्चस्तरीयचर्चाः सम्पत्स्यन्ते।

Saturday, August 29, 2026

 झार्खण्डे परीक्षाक्रमभङ्गः। 

चत्वारोSपि निगृहीताः।

राञ्ची> झार्खण्डे सर्वकारनियुक्तिपरीक्षायां प्रवृत्तं भ्रष्टाचारमाधारीकृत्य चत्वारः जनाः अपि निगृहीताः। मुख्यापराधिनः इति मन्यमानाः अभय तिवारी, तस्य पत्नी, सोदरः इत्येते अस्य मासस्य प्रथमसप्ताहे निगृहीताः आसन्। गतदिने द्वावपि निगृहीतौ। आहत्य नव जनाः निगृहीताः।

 नेपालप्रलयः

मरणानि ६००; अदृश्यमानाः २४००। 

अदृश्यमानाः भारतीयाः ३२०।


काठ्मण्डुः> नेपाल-टिबटसीमायां बुधवासरे दुरापन्ने आकस्मिकप्रलये मृतानां संख्या ६०० अतीता। नेपालात् ५९० मृतशरीराणि अधिगतानि। सप्त शरीराणि प्रवाहे भारतनद्यां प्राप्तानि। टिबटदेशे 'गैैरोङ्' इति प्रलयबाधितप्रदेशे पञ्च जनाः मृताः इति चीनसर्वकारेण निगदितम्।सूचनाः आधारीकत्य २४०० तः अधिके जनाः अदृश्यमानाः वर्तन्ते। तेषु ३२० भारतीयाः सन्ति। 

  अधिकपरिमाणे शिलापङ्कसंयुक्तानि जनाधिवासस्थानेषु प्रक्षिप्तानि इत्यतः  रक्षाप्रवर्तनानि दुष्करं वर्तन्ते। अतः मत्युसंख्या वर्धेत। त्रिशूलीनद्याः प्रान्तेषु अनुस्यूततया वर्षति इत्येतत् रक्षाप्रवर्तनाय प्रतिकूलः अस्ति। अपि च नदीतीरमार्गाः सेतवश्च भग्नाः इत्यतः रक्षाप्रवर्तकसंघः दुरन्तस्थानं प्राप्तुं न शशाक। किन्तु विविधप्रदेशेभ्यः उपद्विसहस्रं जनाः क्षतैरपि रक्षिताः सुरक्षितस्थानेषु प्रापिताः सन्ति।

 'ग्रान्ड् चेस्' किरीटं प्रग्नानन्दाय। 


सेन्ट् लूयिस् [यू एस् ए]> ग्रान्ड् चेस्  नामकचतुरङ्गस्पर्धायां विजित्य प्रथमक्रीटधारी भारतीयः इति ख्यातिः आर् प्रग्नानन्दः स्वायत्तीचकार। अत्यन्तम् उत्साहयुक्ते अन्तिमप्रतिद्वन्द्वे वर्तमानीनवीरः फाबियो करुवाना इत्येनम्  अमेरिकीयं पराजित्य [१५ - १३] एव प्रग्नानन्दः विजयीभूतः। 

  क्लासिक् नामकस्य स्पर्धाविभागस्य प्रथमक्रीडायां पराजितः प्रग्नानन्दः द्वितीयक्रीडायां समस्थितये वशंवदः अभवच्च। किन्तु रापिड् नामकद्रुतक्रीडायां क्रीडाद्वयमपि विजित्य भारतक्रीडकः अग्रमागतः।

 ईशान्यभारते जगन्नाथसंस्कृतेः अन्वेषणम्

इम्फाल, अगस्त २६। News Avilable in Sanskrit| Hindi | English 

​           “ईशान्यभारते श्रीजगन्नाथसंस्कृतेः ऐतिहासिकान्वेषणम्—विशेषतः मणिपुरस्य सन्दर्भे” इति विषयमधिकृत्य भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR) प्रायोजिता द्विदिनात्मिका राष्ट्रियसङ्गोष्ठी अगस्त २५-२६ दिनाङ्कयोः इम्फालनगरे स्थिते Classic Grande इत्यत्र तथा च नम्बोलस्थे राधामाधव-आदर्श-संस्कृत-महाविद्यालये च सम्पन्ना।

​         अस्यां सङ्गोष्ठ्याम् ईशान्यभारते, विशेषतः मणिपुरे, श्रीजगन्नाथपरम्परायाः प्रभावमधिकृत्य गम्भीरः विचारविमर्शः अभवत्। ‘मणिपुरस्य वैष्णवपरम्परायाः कला-साहित्य-वास्तुशास्त्रेषु च जगन्नाथसंस्कृतेः गभीरः प्रभावः दृश्यते; एषा संस्कृतिः प्रादेशिकैकतायाः सुदृढः सेतुः अस्ति’ इति समुपस्थिताः विद्वांसः स्वप्रबन्धेषु प्रतिपादितवन्तः।

​         उद्घाटनसत्रे मुख्यातिथिः भारतस्य पूर्वशिक्षामन्त्री पूर्वविदेशमन्त्री च डॉ. आर. के. रञ्जनः अवदत् यत् — “ईशान्यभारतस्य सांस्कृतिकसमृद्धौ जगन्नाथपरम्परायाः योगदानम् ऐतिहासिकम् अतुलनीयं च अस्ति।” सत्रस्यास्य अध्यक्षतां राधामाधव-आदर्श-संस्कृत-महाविद्यालयस्य प्रशासनिकमण्डलस्य अध्यक्षः डॉ. पी. सनाजाओबा सिंहः अवहत्। मुख्यभाषणे भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR, New Delhi) प्रो. हरिहर-पण्डा मणिपुरस्य जगन्नाथसंस्कृतेः प्राचीनताम् ऐतिहासिकप्रमाणैः सह उपस्थापितवान्।

Friday, August 28, 2026

 अद्य संस्कृतदिनम्।

आभारतं संस्कृतदिनोत्सवः पर्वायते। 

सर्वेषां कृते संस्कृतदिनस्य शुभकामनाः। 

> अद्य श्रावणपूर्णिमा। आभारतं विद्यालयेषु संस्कृताभिमुख्यसंस्थासु च अयं पुण्यदिनं संस्कृत दिनोत्सवरूपेण विविधैः कार्यक्रमैः आमान्यते। बहुत्र संस्कृतसप्ताहरूपेण संस्कृतदिनकार्यक्रमाः प्रचलन्तः सन्ति।

 भारत-श्रीलङ्का द्वितीयनिकषे समस्थितिः। 

भारतस्य परम्पराप्राप्तिः।


कोलम्बो> 'सिंहलीस् स्पोर्ट्स् क्लब्' क्रीडाङ्कणे सम्पन्ना भारत-श्रीलङ्कयोः द्वितीया क्रिकेट निकषस्पर्धा समस्थितौ परिसमाप्ता। प्राप्ताङ्कसूचिका - प्रथमचरणे भारते ५०३/९ इति प्राप्ते क्रीडासमाप्तिम् उदघोषयत्। श्रीलङ्कायै २९० धावनाङ्के लब्धे सति सर्वे बहिर्नीताः। द्वितीयचरणे अनुस्यूतक्रीडां [follow on] कृतवान् लङ्कागणः नव ताडकानां विनष्टे ४२९ धावनाङ्कान् सम्प्राप। क्रीडा समस्थितौ परिसमाप्ता।

  प्रथमचरणे भारताय देवदत्त पटिकल् [११७], ध्रुव जुरैल् [११५] इत्येतौ शतकं प्राप्तवन्तौ। श्रीलङ्कागणस्य संग्रामवीर्यः समस्थितिप्राप्तये निर्णायकभागम् अवहत्। तेषां सोनल् दिनुषनामकः  १३३ धावनाङ्कान् सम्पाद्य अपराजितः जातः। स एव श्रेष्ठक्रीडकः। परम्पराद्वये अपि शतकं प्राप्तवान् भारतक्रीडकः देवदत्त पटिकलः परम्परायाः श्रेष्ठक्रीडकरूपेण चितः।


   

Thursday, August 27, 2026

 उत्तराखण्डे मृत्प्रपातः।

बदरीनाथयात्रा स्थगिता। 

उत्तराखण्डे दुरापन्नः मृत्पातः। 

चमोली>  उत्तराखण्डे अद्य प्रत्युषसि जाते मृत्प्रपाते बदरीनाथराष्ट्रियमार्गः विनाशितः। चमोली जनपदे जोषिमठ-मार्वारी  सेतुसमीपं वीथी विशीर्णः। बहवः तीर्थाटकाः  प्रदेशवासिनश्च तत्र लग्नाः। जीवहानिः इतःपर्यन्तं न वत्तान्तीकृतः।

 नेपालदुरन्तः

भारतस्य साहाय्यहस्तः। 

बिहारे उत्तरप्रदेशे च जागरूकता।

दुरन्तदृश्यम्। 

नव दिल्ली>  भूविच्छेदेन दुरितमनुभूयमानाय नेपालाय भारतस्य उदारः  साहाय्यहस्तः। दश टण् मितानि दुरितसमाश्वासवस्तूनि औषधानि च नेपालं प्रापितानि। 

  नेपालदुरन्तस्य अंशतया बिहारे उत्तरप्रदेशे च जागरूकता निर्दिष्टा। बिहारस्थे पश्चिमचम्पारन् सीमाप्रदेशे निरीक्षणं शक्तायितम्। गण्टकनदीतीरे जागरूकता उद्घोषिता। ५००० जनाः सुरक्षितस्थानं नीताः। 

  उत्तरप्रदेशे महाबादगञ्च्,, कुशीनगरं जनपदयोः अतीवजागरूकता निर्दिष्टा। दुरन्तनिवारणसेनायाः [NDRF] २० संघाः विन्यस्ताः।

 रेल्वे-परिसरस्य मालिन्यकरणे १,००० रूप्यकाणां दण्डः; नूतनः नियमः प्रवृत्तः।

​       नवदिल्ली > रेल्वे-स्थानकेषु रेलयानेषु च मालिन्यं कुर्वद्भ्यः जनेभ्यः इतः परं तीव्रदण्डः वोढव्यः भविष्यति। पूर्वं विद्यमानः ५०० रूप्यकाणां दण्डः १,००० रूप्यकाणि यावत् वर्धयित्वा रेल्वे-नियमे संशोधनं कृतम्। सोमवासरात् आरभ्य नूतना व्यवस्था प्रवृत्ता। दण्डदाने अस्वीकारे कृते अभियुक्तः न्यायालये उपस्थापयिष्यते। अपराधे सिद्धे सति न्यायालयः २,००० रूप्यकाणि यावत् दण्डं विधातुं शक्नोति। स्टेशन्-मास्टर्, स्टेशन्-मानेजर्, टिकट्-कलेक्टर् इत्येतेषां समानस्य वा तेभ्यः उच्चपदस्थस्य वा अधिकारिणः दण्डारोपणस्य अधिकारः अस्ति।

    ​रेलयानेषु रेल्वे-परिसरेषु वा अवकरप्रक्षेपः, निष्ठीवनं (spit), मलमूत्रविसर्जनम्, पशुपक्षिभ्यः भोजनप्रदानम्, अननुमतस्थानेषु पाककरणम् इत्यादयः क्रियाः अपि इतः परं दण्डनीयाः भविष्यन्ति। रेल्वे-परिसरे वस्त्राणां प्रक्षालनम्, वाहनानां प्रक्षालनम् वा अपि दण्डार्हाः अपराधाः सन्ति। एतदतिरिच्य रेल्वे-सम्पत्तेः नाशं कुर्वभ्योऽपि दण्डं दास्यन्ति। रेल्वे-स्थानकस्य परिसरेषु अनधिकृतं भित्तिलेखनं विज्ञापनानां लेपनं च दण्ड्यं भवति। English news👇

 नेपालदुरन्तहेतुः भूस्खलनम्। 

१६० मरणानि; ८४४ अदृष्टाः। 

दुरन्तस्थानस्य आकाशदृश्यम्। 

काठ्मण्डुः> नेपालराष्ट्रे बुधवासरे दुरापन्नस्य आकस्मिकप्रलयस्य कारणं न भूकम्पः तीव्रं भूस्खलनमिति United States Geological Survey (USGS) संस्थया निगदितम्। ४. ४ तीव्रताङ्कितः भूकम्पः जात इति संस्थया निगदितमासीत्। अनुभूतं प्रकम्पनं शक्तेन भूस्खलनेन जातमस्ति।भोट्टे कोशी नद्याः लेन्डे खोलानामकशाखायां शक्तः भूविच्छेदः आपन्नः। 

  दुरन्तभूमौ रक्षाप्रवर्तनानि चटुलं प्रचलन्ति। १६० मरणानि अभवन्निति इतःपर्यन्तं दृढीकृतम्। मृत्युसंख्या वर्धिष्यते इति सूच्यते। ८४४ जनाः अप्रत्यक्षाः जाताः। तेषु १४२ भारतीयाः सन्ति। विदेशराष्ट्रेभ्यः प्राप्ताः विनोदयात्रिकाः अपि दुरन्ते अदृष्टेषु अन्तर्भवन्ति।

 गुजराते मद्यदुरन्तः 

२७ जनाः निगृहीताः। 

भावनगरं> गुजरातराज्ये व्याजमद्यपानेन १३ जनाः मृताः इति घटनायां आहत्य २७ अपराधिनः आरक्षकसेनया निगृहीताः। गुजराते मद्यनिर्माण- विपणन- उपयोगादिकं निरुद्धमस्ति। 

  गुप्तरूपेण वितरीतम् 'मेथनोल्' नामकरासवस्तूपेतं मद्यमेव मरणकारणम् अभवत्। ६७ जनाः मद्यम् उपयुक्तवन्तः इति अधिगतम्।

 आगामिवर्षादारभ्य तमिलनाटे शिक्षानीतेः आपादचूडपरिवर्तनम्। 

चेन्नई>आगामि अध्ययनवर्षादारभ्य तमिलनाटराज्ये नूतनी शिक्षानीतिः प्रबलं भविष्यतीति शिक्षामन्त्री राजमोहनः न्यगादीत्। प्रथमकक्ष्यायाः आरभ्य १२ कक्ष्यापर्यन्तं छात्रेभ्यः नैपुणीविकासाय अपि अवकाशं लप्स्यते। 

  छात्राणां प्रतिभा, सर्गात्मकता इत्यादीनां विकासाय पाठ्यांशानां परिष्करणं भविष्यति। कृत्रिममेधा [AI], Machine Learning, इत्यादीनां प्राधान्यं दास्यति।

Wednesday, August 26, 2026

संस्कृतभाषा भारतीयज्ञानपरम्परायाः महत्त्वपूर्णा संवाहिका- 

"प्रो.पी.वी.बी.सुब्रह्मण्यम् निदेशक: के.सं.सं देवप्रयाग:"

पौडी, उत्तराखण्डम्> डॉ. बी. जी. आर. पौड़ीपरिसरे  संस्कृतविभागेन सप्तदिवसीयस्य संस्कृतसप्ताहस्य शुभारम्भः कृतः। अस्मिन् संस्कृतसप्ताहे सप्तदिनपर्यन्तं विविधविषयेषु विशेषज्ञाणां व्याख्यानानि आयोज्यन्ते, येषां मुख्योद्देश्य: संस्कृतभाषाया:, साहित्यस्य तथा भारतीयज्ञानपरम्परायाः समकालीनप्रासङ्गिकताया: प्रकाशनम् अस्ति।

      संस्कृतसप्ताहस्य प्रथमदिने “समकालीनवैश्विकपरिप्रेक्ष्ये संस्कृतस्य प्रासङ्गिकता”  विषयेस्मिन् मुख्यवक्ता प्रो. पी. वी. बी. सुब्रमण्यम्, निदेशकः, केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरघुनाथकीर्तिपरिसरस्य देवप्रयागस्थस्य, व्याख्यानम् अददात्। स्वव्याख्याने तेन समकालीनवैश्विकपरिदृश्ये संस्कृतस्य भूमिका तथा प्रासङ्गिकता विस्तरेण प्रतिपादिता। तेन संस्कृतभाषा भारतीयज्ञानपरम्परायाः महत्त्वपूर्णा संवाहिका भाषा इति प्रतिपाद्य तस्याः अध्ययनस्य व्यापकसम्भावनाः विवेचिताः। संस्कृतं केवलं भाषासाहित्ययोः सीमितं न स्थापयित्वा दर्शनसंस्कृतिज्ञानविज्ञानादिभिः विविधैः

 नेपाले आकस्मिकप्रलयः।

४०० भारतीयाः अदृष्टाः। ४६ मरणानि। 

ग्रामाः स्राविताः। 

नेपाले दुरापन्नस्य आकस्मिकप्रलयस्य दृश्यम्। 

काठ्मण्डुः> नेपालराष्ट्रे टिबट् सीमाप्रदेशस्य समीपं रसुवा नामके जनपदे भोट्टे कोशी नद्यां दुरापन्ने आकस्मिकप्रलये  महान् दुरन्तः। ४५ जनाः मत्युवशं गताः इति प्राथमिकगणना। विनोद-तीर्थाटनायात्रायै प्राप्ताः ४०० भारतीयान् अभिव्याप्य बहवः अदृष्टाः जाताः। 

  नैके ग्रामाः राक्षसीये जलप्रवाहे स्राविताः। १२ जलविद्युताभियोजनाः क्षीयन्ते स्म। बहूनि वासगृहाणि, भवनानि, वाहनानि, सेतवश्च नाशमुपगतानि। 

  काठ्मण्डु नगरात् १२५ कि मी दूरे अस्ति भोट्टे कोशी नदी। बुधवासरे प्रभाते सार्धनववादने आसीत् प्रलयेन जलोपप्लवः दुरापन्नः।

 अखिलभारतीय-शिक्षा-समागम–२०२६, ज्ञानवर्धक-रचनात्मक-कार्यक्रमाणाम् आयोजनम् अभवत्

     चन्द्रबदनी, टिहरी> श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयस्य चन्द्रबदनी-परिसरे परिसरनिदेशकस्य डाॅ. महन्थमौर्यस्य अध्यक्षतायां शिक्षामन्त्रालयस्य भारतसर्वकारस्य तत्त्वावधाने आयोजितस्य अखिलभारतीय-शिक्षा-समागम–२०२६ इत्यन्तर्गतं ज्ञानवर्धक-रचनात्मक-कार्यक्रमाणाम् आयोजनम् अभवत्।

      अस्मिन् कार्यक्रमे कविता-रचना तथा भारतीय-ज्ञान-परम्परा-विषये प्रश्नोत्तरी-प्रतियोगिते आयोजिते। विद्यार्थिनः महोत्साहेन प्रतियोगितासु सहभागित्वं कृतवन्तः।

 निजीयक्षेत्राणां कृते मिसैल् साङ्केतिकविद्या।

केन्द्रप्रशासनस्य अनुज्ञा लब्धा। 

अनन्तपुरी> राष्ट्ररक्षागवेषणसंस्था डि आर् डि ओ [Defence Research and Development Organisation] इत्यनेन साक्षात्कृता अग्निशस्त्रसाङ्केतिकविद्या [Missile Technology] प्रतिरोधमण्डले प्रवर्तमानेभ्यः निजीयसमवायेभ्यः समर्पयितुं रक्षामन्त्रालयेन अनुज्ञा दत्ता। अनेन डि आर् डि ओ संस्थया विकसितानि अग्निशस्त्राणि निजीयसमवायैः निर्मातुं शक्यन्ते। 

  प्रथमस्तरे परम्परागता मिसैल् साङ्केतिकविद्या एव हस्तान्तरीक्रियते तथापि क्रमेण तन्त्रप्रधाना बालिस्ट्क् मिसैल् शस्त्राणां विकासाय निर्माणाय च निजीयसमवायेभ्यः अवकाशः लप्स्यते। तन्त्रप्रधानायुधानां निर्माणाय ये सज्जाः तादृशान् समवायान् अधिगन्तुं DRDO संस्थया तात्पर्यपत्रम् आमन्त्रितमासीत्।

  'आत्मनिर्भर भारतम्' अभियोजनया विभाविता स्वयंपर्याप्तता रक्षामण्डले अपि स्वायत्तीकर्तव्या इत्यस्ति अस्य नयपरिवर्तनस्य कारणत्वेन कथ्यते। रक्षाविभागेन DRDO संस्थया च निश्चितानि सुरक्षातत्वानि मानदण्डान् च ये समवायाः अनुपालयन्ति तेभ्य एव अनुज्ञा लप्स्यते।

 केरले 'ओणोत्सवः'। 


राष्ट्रपतेः श्रावणोत्सवाशंसाः। 


अनन्तपुरी> समृद्धेः परस्परप्रेमस्य एकतायाश्च सन्देशमुद्घोषयन् आविश्वं केरलीयाः ओणोत्सवम् [श्रावणोत्सवः] आमानयन्ति। 

नवदिल्ली> भारते विदेशे  च वसतां सर्वेषां केरलीयसोदराणां कृते राष्ट्रपतिः द्रौपदी मुर्मू श्रावणोत्सवस्य  हार्दिकशुभकामनाः आशशंस। नानात्वे एकत्वं प्रोत्साहमाणः अयमुत्सवः सर्वेषां जीवने सन्तोषं समृद्धिं शान्तिं च प्रदास्यतीति सा आशंसितवती।

 इरानं विरुध्य ट्रम्पस्य आर्थिकयुद्धम्। 

वाषिङ्टणः> इरानं विरुध्य युद्धम् अन्तिमचरणं प्राप्नोतीति डोनाल्ड ट्रम्पः। तस्य अंशतया इरानम् आर्थिकसम्बन्धनेन पराजेतुं प्रक्रमः आरब्ध इति यू एसस्य वित्तकोशसचिवः स्कोट् बसन्ट् निगदितवान्। 

  इरानेन सह व्यापारः, धनव्यवहारः वा क्रियमाणानि राष्ट्राणि, वित्तकोशाः, इतरसंस्थाः इत्यादीनि लक्ष्यीकृत्य उपरोधं विधत्तुमेव अमेरिकायाः प्रयत्नः।

Tuesday, August 25, 2026

 अजित् डोवलः चीनराष्ट्रे।

सीमातर्केषु अद्य बीजिंगे चर्चा।

अजित् डोवलः। 

नवदिल्ली> भारतचीनयोः सीमाविषयकतर्कान् चर्चितुं भारतस्य राष्ट्रिय सुरक्षा उपदेष्टा अजित् डोवलः चीनां प्राप्तवान्। कुजवासरे चीनस्य प्रतिनिधिः तथा विदेशकार्यमन्त्री च वाङ् यि इत्यनेन सह बीजिंग् मध्ये मेलनं भविष्यति। 

  ३४८८ कि मी दैर्घ्योपेतां भारत-चीनासीमाम् अधिकृत्य विद्यमानानां तर्काणां परिहारः, सैनिकसान्निध्यस्य लघूकरणम् इत्यादय एव मुख्यचर्चाविषयाः।

 'ओपरेषन् सिन्दूरे' भञ्जितम् आस्थानं जय् षे निर्ममौ। 

इस्लामबादः> ओपरेषन् सिन्दूरं सैनिकप्रक्रमे भारतेन भञ्जितम् जय् षे मुहम्मद् नामकस्य भीकरसंघटनस्य आस्थानं १५ मासैः संघटनेन पुनर्निमितम्। भारतस्य गुप्तान्वेषणसंस्थायाः सूचनामनुसृत्य पुनर्निर्माणाय  पाकिस्थानप्रशासनेन विविधचरणैः जेय् षे संघटनाय २५ कोटिमितानि पाकिस्थानरूप्यकाणि दत्तानि। 

  पाकिस्थाने बहवलपुरम् इत्यत्र वर्तमानस्य 'मर्कस् सुबहान् अल्ला' इति आस्थानभवनस्य नवीकरणमस्ति सम्पन्नम्। आक्रमणे भग्ने भवनसमुच्चये वर्तमानानि वासस्थानानि, प्रार्थनामन्दिरम् इत्यादीनि अपनीय नूतनानां निर्माणमारब्धम्।

 २६ विनोदयात्रिकाणां प्राणहरणे हेतुभूतस्य पहलगामभीकराक्रमणस्य प्रत्युत्तररूपेण आसीत् ओपरेषन् सिन्दूरम्।

Monday, August 24, 2026

 एष्यन् गयिंस् 

भारतस्य ४९२ अङ्गोपेतः संघः।

नव दिल्ली> जापानराष्ट्रे सेप्तम्बरे आरप्स्यमाणायै एष्यन् गयिंस् कायिकक्रीडायै भारतात् ४९२ अङ्गोपेतसंघाय अनुज्ञा लब्धा। २६५ पुरुषकायिकताराणि, २२७ महिलाकायिकताराणि च संघे सन्ति। अतीते सन्दर्भे ६६१ कायिकताराणि आसन्। 

  अस्मिन् वारे अत्लटिक्स् विभागात् भारताय अधिकपदकानि प्रतीक्षन्ते। ३५ पुरुषाः ३८ महिलाश्च अस्मिन् विभागे स्पर्धन्ते।

 युद्धकाले निर्वाचनं न शक्यते इति सेलन्स्की।


कीव्> रष्यायाः अधिनिवेशं विरुध्य युद्धे सम्पद्यमाने युक्रैने निर्वाचनं दुस्साध्यमिति युक्रैनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्की अवोचत्। युद्धकाले सम्पद्यमानं निर्वाचनं राष्ट्रस्य विभजनाय कारणं भवेदिति तेनोक्तम्। 

  युक्रैनप्रशासने महती सन्दिग्धता वर्तते; अतः निर्वाचनम् आवश्यकमिति निष्कासितः रक्षामन्त्री मिखैलो फेदरोव् इत्यस्य मतस्याधारे अस्ति सेलन्स्किनः अयं प्रस्तावः। युद्धावसरे सेनानियमः एव राष्ट्रे वर्तते। तदा निर्वाचनं मास्तु इति युक्रैनस्य संविधानेन अनुशास्यते।

Sunday, August 23, 2026

 नेहरु ट्रोफी नौका क्रीडा

  'अरोमा चुण्टन्' जलराजः। 

नौका क्रीडायाः अन्तिमस्पर्धा। 

आलप्पुष़ा> अत्यन्तम् उत्साहोज्वले अन्तिमप्रतिद्वन्द्वे क्षणकालस्य अल्पाल्पव्यत्यये कोल्लं 'अरोमा बोट् क्लब्' इत्यनेन नीता अरोमा चुण्टन् नामिका नौका ७२ तमं नेहरु ट्रोफी चषकं स्वायत्तीचकार। इदंप्रथमभागभागित्वे अस्ति अरोमा नौकायाः अयं चरित्रोपलब्धिः। 

  'नटुभागं चुण्टन्' नामिका नौका द्वितीयस्थानं , 'वीयपुरं चुण्टन्' तृतीयस्थानं च सम्प्राप।

 विश्व पिञ्छकन्दुकवीरतास्पर्धा।

पूर्वान्त्ये भारतस्य वीरपराजयः, कांस्यपदकम्।

नव दिल्ली> विश्व पिञ्छकन्दुकवीरतास्पर्धायाः पूर्वान्त्यचक्रे भारतमहिलयोः वीरोचितः पराजयः। विश्वे प्रथमश्रेण्यां वर्तमानात् चीनसख्यात् पराजयं स्वीकृत्य कांस्यपदकेन भारतस्य ट्रीसा जोली - गायत्री गोपी चन्दसख्यं भारतस्य यशः परिपालयामास। 

 चीनस्य टान् निङ् - लियू  षेङ् षू सख्यं प्रति प्रथमगणं विजित्य [२१-१८] तदनन्तरं गणद्वये पराजयः अनुभूतः [१३-३१, ८-३१]। 

 रविवासरे दक्षिणकोरियां विरुध्य अस्ति चीनस्य अन्त्यस्पर्धा।

Saturday, August 22, 2026

 विश्वपिञ्छकन्दुकवीरतास्पर्धा

युगले भारतं पूर्वान्त्ये; पदकं निश्चितम्। 

गायत्री, ट्रीसा च। 

नव दिल्ली> विश्वपिञ्छकन्दुकवीरतास्पर्धायाः महिलानां युगलप्रतिद्वन्द्वे भारतस्य ट्रीसा जोली - गायत्री गोपी चन्द्रसख्यं पूर्वान्त्यचक्रं प्राविशत्। पूर्वान्त्यचक्रे पराजयं भवेदपि कांस्यपदकं लभेत। 

 प्रपूर्वान्त्ये चीनस्य सख्यं पराजित्य अस्ति भारतसख्यस्य पूर्वान्त्यप्रवेशः। भारतस्य प्रमुखपिञ्छकन्दुकक्रीडकस्य पुल्लेल गोपीचन्दस्य पुत्री भवति गायत्री। ट्रीसा जोली केरलीया चास्ति। 

  १५ वर्षेभ्यः परमेव भारताय महिलानां युगले पदकप्राप्तिः। २०११ तमे वर्षे अश्विनी पोन्नप्पा - ज्वाला गुट्टा संख्येन कांस्यपदकं लब्धमासीत्।

 नेहरु ट्रोफी नौकाक्रीडा अद्य।

नौकाक्रीडायाः दृश्यं [लेख्यपत्रात् उद्धृतम्।]

आलप्पुष़ा> ७२ तमा नेहरु ट्रोफी नौकाक्रीडा शनिवासरे अपराह्णे आलप्पुष़ायां पुन्नमटा तटाके सम्पत्स्यते। मुख्यमन्त्री वी डी सतीशः जलक्रीडायाः उद्घाटनं द्विवादने निर्वक्ष्यति।

   'इरुट्टुकुत्ती', 'चुण्टन्' विभागेषु आहत्य ७१ नौकाः स्पर्धन्ते। चुण्टन् विभागनौकानां स्पर्धा एवात्यन्तं प्रसिद्धा। २२ चुण्टन् नौकाः स्पर्धमानाः सन्ति। 

 शनिवासरे आलप्पुष़ाजनपदे सर्वकारीयसंस्थानां विद्यालयानां च कर्मविरामः उद्घोषितः। नगरे गमनागमननियन्त्रणमपि विहितम्।

 कीव् मध्ये रष्यायाः मिसैल-ड्रोण् आक्रमणं - १६ मरणानि।

कीव्> युक्रैनस्य राजधान्यां समीपप्रदेशेषु च रष्या बुधवासरे रात्रौ विधत्ते तीव्रे व्योमाक्रमणे १६ जनाः मृताः। ४० जनाः क्षताः। 

 समीपकाले युक्रैनं विरुध्य रष्या 'बालिस्टिक्' अग्निशस्त्राणि उपयुज्य कठिनम् आक्रमणं  करोति।'बालिस्टिक्' अग्निशस्त्राणि प्रतिरोद्धुं शक्तं पेट्रियट् मिसैल् आयुधस्य दौर्लभ्यं युक्रैने अस्ति च।

रसना-पत्रिकायै राष्ट्रियपुरस्कारः।

 रसना-पत्रिकायै राष्ट्रियपुरस्कारः।

       तृश्शूर्> संस्कृतभाषायां पत्रकारिता क्षेत्रे उत्कृष्टसेवायै दीयमानः २०२६ वर्षस्य 'उत्कर्षसम्मानः' इति राष्ट्रियपुरस्कारः केरलात् प्रकाश्यमानायै 'रसना' इति संस्कृतमासिकपत्रिकायै लब्धः।

      केन्द्रीयसंस्कृतविश्वविद्यालयः (नवदेहली), श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः (नवदेहली), तथा तिरुपति-राष्ट्रियसंस्कृतविश्वविद्यालयः इत्येतेषां संयुक्तकार्ययोजनायां तिरुपति-राष्ट्रियसंस्कृतविश्वविद्यालये आयोजितस्य उत्कर्षमहोत्सवस्य अवसरे केन्द्रीयमन्त्रिणः अर्जुनराममेघवाल-वर्यात् रसनामासिकस्य सम्पादिका डा. श्यामला जनार्दनन् पुरस्कारम् गृहीतवती। अस्मिन् पुरस्कारे लक्षरूप्यकाणां धनराशिः, प्रशंसापत्रं च समाविष्टम् अस्ति।

भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं  च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः


     केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरेण, लेम्बुचेरा-त्रिपुरायां, आयोजितः सप्तदिवसीयः संस्कृत-महोत्सवः २०२६ अगस्तमासस्य २१ दिनाङ्के परिसरस्य बहुप्रयोजनसभागारे भव्यतया उद्घाटितः। अयं महोत्सवः अगस्तमासस्य २१ दिनाङ्कतः २८ दिनाङ्कपर्यन्तं प्रचलिष्यति। संस्कृतभाषायाः, साहित्यस्य, भारतीयज्ञानपरम्परायाः च समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयितुम् अस्य महोत्सवस्य आयोजनं क्रियते। अस्य कार्यक्रमस्य मार्गदर्शकः प्रो. गुरूचरणसिंहनेगी आसीत्।

    उद्घाटनसमारोहः प्रातः सार्धदशवादने मङ्गलदीपप्रज्वलनेन प्रारब्धः। ततः राष्ट्रगीतं, विश्वविद्यालयस्य कुलगीतं, वैदिकमङ्गलाचरणं च सम्पन्नम्। वैदिकमङ्गलाचरणं वेदविभागस्य संयोजकेन डॉ. आशीषमिश्रेण प्रस्तुतम्। तदनन्तरं परिसरस्य छात्रैः उपस्थितानां सर्वेषां विशिष्टातिथीनां सम्मानार्थं संस्कृतस्वागतगीतम् प्रस्तुतम्।


एकलव्यपरिसरस्य सहनिदेशकः प्रो. सुशान्तकुमारराजः स्वागताभिभाषणं तथा कार्यक्रमस्य परिचयात्मकं वक्तव्यं च प्रस्तुतवान्। कार्यक्रमे सर्वेषां विशिष्टातिथीनां सम्माननमपि सम्पन्नम्। लेफुङ्गा-खण्डसमित्याः अध्यक्षः श्री दीपकदेववर्मा विशिष्टातिथिरूपेण स्वकीयम् अभिभाषणं प्रस्तुतवान्। मुख्यातिथिः श्री शान्तनुबिकाशदासः, टी.सी.एस्. ग्रेड्–I, मोहानपुरस्य उपमण्डलाधिकारी, सभां सम्बोधयन् भारतस्य भाषिक-साहित्यिक-सांस्कृतिकवैभवस्य संरक्षणस्य संवर्धनस्य च महत्त्वं प्रतिपादितवान्। विश्वविद्यालयेन संस्कृतशास्त्राणां प्रचार-प्रसाराय क्रियमाणस्य प्रयासस्य प्रशंसां कृत्वा सः सर्वान् विद्यार्थिनः कक्षासु समयपालनपूर्वकं उपस्थितान् भवितुं, अध्ययनशीलाः भवितुं, अधिगतज्ञानस्य समाजहिताय समुचितरूपेण प्रयोगं कर्तुं च प्रेरितवान्।

      उद्घाटनसमारोहस्य अध्यक्षतां प्रो. बुलुसु पद्ममित्रश्रीनिवासः, कार्यवाहकनिदेशकः,

Friday, August 21, 2026

 दक्षिणप्रान्तीयराज्यानां मेलनं सम्पन्नम्। 

मुल्लप्पेरियार् - नूतनः जलबन्धः आवश्यक इति केरलम्। 

दक्षिणप्रान्तीयराज्यानां मेलने तमिलनाटमुख्यमन्त्रिणा विजय जोसफेन सह केरलमुख्यमन्त्री वि डि सतीशः, उद्योगमन्त्री पि के कुञ्ञालिकुट्टी च सौहृदभाषणे। 

चेन्नै> दक्षिणप्रान्तीयराज्यानां समितेः ३१ तममुपवेशनं तमिलनाटे चेन्नैनगरे सम्पन्नम्। केन्द्रगृहमन्त्री अमित शाहस्य आध्यक्षे आयोजिते उपवेशने केरलं, तमिलनाट्, कर्णाटकम्, आन्ध्रप्रदेशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः, तेलङ्कानस्य उपमुख्यमन्त्री, पुदुच्चेरी तथा अन्तमान् निकोबार् केन्द्रशासनप्रदेशयोः लफ्टनन्ट् पदीयौ राज्यपालौ, लक्षद्वीपात् प्रदेशशासकश्च भागं गृहीतवन्तः। 

  नदीजलोपयोगविषये उद्भूताः तर्कवितर्काः परस्परचर्चया परिहर्तव्याः इति अमित शाह वर्येण निर्दिष्टम्। ब्रह्मपुत्रः, गोदावरी, कावेरी इत्यादीनां महानदीनां संयोजनेन आगामिशतवर्षाणि यावत् राष्ट्रे जलदौर्लभ्यं न भवेदिति च तेन प्रोक्तम्। 

 मुल्लप्पेरियारे नूतनजलबन्धः आवश्यकः।

   केरले  मुल्लप्पेरियार् नद्यां वर्तमानस्य जलबन्धस्य स्थाने नूतनः जलबन्धः आवश्यकः इति केरलराज्येन निर्दिष्टम्। जलबन्धस्य स्थानं, रूपकल्पनम् इत्यादिकं तमिलनाटेन निर्णीयतामिति च केरलाय मुख्यमन्त्रिणा वि डि सतीशेन प्रोक्तम्। नूतनजलबन्धस्य निर्माणव्ययः सर्वः केरलेनैव वोढुं सन्नद्धमिति च तेनोक्तम्।  किन्तु वर्तमानीने जलबन्धे जलतलस्य उन्नतिः १५२ पादमितेन वर्धयितव्य इति दढमते अस्ति तमिलनाटः।

 नेहरू ट्रोफी नौकाकेलिः श्वः मध्याह्ने द्विवादने भविष्यति।

       आलप्पुषा> द्विसप्ततितमस्य नेहरू ट्रोफी नौकाकेल्याः उद्घाटनम् श्वः शनिवासरे मध्याह्ने द्विवादने केरलस्य मुख्यमन्त्री श्री वि डि सतीशः निर्वत्स्यति। उद्घाटनानन्तरं भागं गृह्णतां नौकानां सामूहिकसञ्चलनम् (mass drill) भविष्यति। तदनन्तरं सर्पनौकानाम् (snake boats) प्रारम्भिकस्पर्धाः,  अन्तिमस्पर्धा च भविष्यतः। २२ सर्पनौकाः आहत्य एकसप्तति नौकाः स्पर्धायां भागं स्वीकरिष्यन्ति। प्रातःकाले नववादनादारम्य नगरे गतागतनियन्त्रणमपि आयोजितमस्ति।

 'नीट्' प्रतिषेधे संघर्षः। 

अन्वेषणाय सर्वोच्चन्यायालयस्य समितिः।

न्यायाधीशः सुभाष रेड्डिः पञ्चसदस्योपेतसमित्याः अध्यक्षः।

नवदिल्ली> नीट् [NEET]प्रश्नपत्रचोरणं विरुध्य दिल्ल्यां तथा राष्ट्रस्य विभिन्नस्थानेषु सम्पन्नेषु प्रतिषेधेषु जातान् संघर्षान् अधिकृत्य अन्वेष्टुं पञ्चसदस्योपेतसमितिः 

सर्वोच्चन्यायालयेन नियुक्ता।सर्वोच्चन्यायालयस्य भूतपूर्वः 

न्यायाधीशः सुभाष रेड्डिः समित्याः अध्यक्षः भविष्यति। 

  अभियाचकैः उन्नीताः आरक्षकभटानाम् अतिक्रमः, दण्डप्रयोगादिकप्रक्रमाः, सर्वकारीयपक्षतः उन्नीतानि  पुलीसदलं विरुध्य प्रक्षोभकैः कृतमाक्रमणं, वाहनानां विनाशनं, इतराणि आरोपणानि च समित्याः अन्वेषणपरिधौ सन्ति।

Thursday, August 20, 2026

 आपद्बान्धवः केरलराज्यपालः। 

गात्रसीदनात् पतिताय यात्रिकाय आर्लेकरवर्यस्य परिचर्या।

मार्गे समक्षं सीदनात् पतितं यात्रिकं साहाय्यमाचरन् राज्यपालः राजेन्द्र आर्लेकरः।

अनन्तपुरी> लोकभवनस्य पुरतः गात्रसीदनात् भूमौ पतिताय यात्रिकाय १५ निमेषान् यावत् परिचरणादिकं साहाय्यं दत्वा केरलस्य राज्यपालः राजेन्द्र आर्लेकरः आपद्बान्धवः अभवत्। 

 राज्यपालः कार् यानेन लोकभवनात् बहिः गच्छन्नासीत्। तदा वेल्लयम्पलं निवासी गिरीशः लोकभवनस्य पुरतः पतन्निति दृष्ट्वा यानं स्थगयित्वा बहिरवतीर्य गिरीशस्य समीपं प्राप्तवान्। तस्मै आवश्यकं साहाय्यं दातुं स्वसेवकान् निरदिशत्। गिरीशस्य दूरवाणीतः तस्य परिवारमाहूय वृत्तान्तं न्यवेदयच्च। किन्तु परिवारस्य विदूरवर्तित्वात् गिरीशम् आतुरालयं प्रवेशयितुं व्यवस्थां कृतवान्। १५ निमेषान् यावत् तस्य समीपम् स्थित्वा आर्लेकरवर्यः परिचरणादिकं कृतवान्। आतुरालयं प्रविष्टस्य तस्य स्वास्थ्यं समीचीनं वर्तते।

   Latest newsLatest news

 भारत-श्रीलङ्कानिकषः।

प्रथमस्पर्धायां भारतस्य विजयः।

देवदत्त पटिकल् , मानव सुतरः च।

गोल्> स्पर्धाद्वयोपेते क्रिकट् निकषे प्रथमस्पर्धायां भारतस्य १६५ धावनाङ्कानां विजयः। ३७२ धावनाङ्कानां विजयलक्ष्येण द्वितीयप्रकरणे क्रीडामारब्धा श्रीलङ्का २०६ धावनाङ्कैः सर्वे बहिर्गताः। अनेन भारतं १-० इति रीत्या अग्रे तिष्ठति। 

प्राप्ताङ्कसूचिका - भारतं ४६२,१९३। श्रीलङ्का २८४, २०६। 

  प्रथमप्रकरणे शतकं (१६७), द्वितीयप्रकरणे ४४ धावनाङ्कान् च प्राप्तवान् देवदत्त पटिकल् इत्येषः श्रेष्ठक्रीडकोSभवत्। राजस्थाननिवासी मानव सुतरः ५५ धावनाङ्कैः ६ द्वारकाणि सम्प्राप्तवान्।

 केरलम्। 

विष़िञ्ञं नौकाश्रयेण निर्यातायाताः समारब्धाः। 

राज्यस्य विशिष्टकालं प्रति पदक्षेपः इति मुख्यमन्त्री।

एक्सिम् दौत्यं मुख्यमन्त्री वी डी सतीशः ध्वजप्रदर्शनेन उद्घाटयति। 

अनन्तपुरी> राज्यस्य आर्थिकाभिवृद्धये राष्ट्रस्य समग्रविकासाय च नूतनाध्यायं विरचयन् विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण सम्पूर्णनिर्यातायातप्रवर्तनानि [EXIM - Export & Import] समारब्धानि। प्रथमं निर्यातस्य समुद्रवहनभाण्डस्य (Container) प्रस्थानं मुख्यमन्त्री वि डि सतीशः ध्वजप्रदर्शनेन उद्घाटनमकरोत्। 

  राज्यस्य आर्थिकाभिवृद्धये विशिष्टकालस्य प्रारम्भ इति उद्घाटनकार्यक्रमे मुख्यमन्त्रिणा प्रोक्तम्। भौगोलिकव्यापारमार्गान् ऋजुरूपेण सम्बद्ध्यमानम् अन्ताराष्ट्रकवाटरूपेण अयं नौकाश्रयः परिणमिष्यते इति सः प्रतीक्षां प्रकटयामास। 

  विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण विभिन्नान् भूखण्डान् प्रति मातृमहानौकया एव  पण्यवस्तूनाम् उपसंक्रमणं साध्यमस्ति। अनेन यातायायव्ययः न्यूनीकर्तुं शक्यते। विश्वस्मिन् ११० नौकाश्रयान् प्रति केरलस्य उत्पन्नानि ऋजुरूपेण  अतिशीघ्रं नीतुं शक्यते।

Wednesday, August 19, 2026

 होर्मुस् संघर्षः अनुवर्तते - तैलेन्धनमूल्यं वर्धते।

       पश्चिमेष्यायां संजातस्य संघर्षस्य पृष्ठभूमौ होर्मुस्-समुद्रसंयोजक-मार्गेण यातायातस्य अनिश्चितता निरन्तरं वर्तते। इरानेन सह किमपि वार्तालापं न करिष्यामः इति अमेरिक-राष्ट्रस्य अध्यक्षः डोनाल्द् ट्रम्पः अवदत्। किन्तु होर्मुस्-मार्गस्य पुनरुद्धाटनाय अमेरिकेन आर्थिक-प्रतिबन्धाः समापनीयाः इति इरानस्य अभिमतम् अस्ति। होर्मुस्-क्षेत्रे संकटस्य वर्धनेन वैश्विक-खनिजतैलस्य मूल्यं वर्धते। ‘ब्रेण्ट् क्रूद्’ तैलस्य मूल्यं प्रतिबारल् ९१ डालर्-मुद्राः अतिक्रान्तवत्। गल्फ-क्षेत्राद् बहिः स्थितेषु सुरक्षितेषु स्थानेषु तैलस्य सञ्चयं वर्धयितुं साऊदी-अरब्-संयुक्त-अरब्-अमीरात्-देशौ प्रयतेते। जापान-देशे वर्तमानः तैलसङ्ग्रहः दशगुणेन वर्धयितुं कार्यम् आरब्धम्। एतस्मिन्नेव समये, होर्मुस्-समुद्रसंयोजकं पुनः उद्घाटयितुम् अमेरिक-ओमान-देशौ इरानेन सह पृथक्-पृथक् विचारविमर्शं कुरुतः।

 अर्जुनपुरस्काराः उद्घोषिताः। 

अर्जुनपुरस्कारार्हेषु ट्रीसा जोली, गायत्री गोपीचन्दः, दिव्या देशमुखः। 

नव दिल्ली> राष्ट्रस्य वैभवसम्पन्नानां कायिकताराणां कृते दीयमानः अर्जुनपुरस्कारः उद्घोषितः। १७ कायिकप्रतिभाः पुरस्काराय अर्हाः जाताः। कायिकमण्डलस्य परमोच्चपुरस्कारः 'ध्यान् चन्द् खेल्रत्न' पुरस्कारः न प्रख्यापितः। २०२५ तमवर्षस्य पुरस्कार एवोद्घोषितः। 

  तेजश्विन् शङ्करः, प्रियङ्का गोस्वामी [उभौ अत्लटिक्स्], गायत्री गोपीचन्दः, ट्रीसा जोली [उभौ बाड्मिन्टण्], नरेन्द्रः [मुष्टियुद्धं], विदित् गुजराती, दिव्या देशमुखः [चतुरङ्गः], धनुष् श्रीकान्तः [डफ् षूटिंग्], लाल् रसियामी,  राजकुमार पाल् [होकी], सुर्जीत्, पूजा [कबडी], रूद्रान्ष् खन्डे वाल् [पारा षूटिंग्], एक्त ब्यान् [पारा अत्लटिक्स्], अरविन्द सिंहः [रोविंग्], अखिल षेवोरान् [षूटिंग्] इत्येते अर्जुनपुरस्कारार्हाः।

 यू जि सि नेट् पुनःपरीक्षा। 

सार्धमासं गूढक्रीडा।

नव दिल्ली> यू जि सि संस्थायाः देशीय योग्यता परीक्षायां (नेट् NET) त्रिषु विषयेषु गुरुतरदोषाः सन्तीति आक्षेपः परीक्षासमाप्तिसन्दर्भे एव परीक्षार्थिभिः सूचितः आसीत्। किन्तु स्वकीयदोषान् अङ्गीकर्तुम् एन् टि ए संस्थायाः सार्धमासस्य कालः आवश्यकमभवत्।  प्रारम्भदशायां स्वकीयदोषान् अवगणितवती एन् टि ए संस्था विमर्शने  प्रक्षोभे च शक्ते सति प्राज्ञसमितिं रूपीकृत्य अन्वेषणाय निर्बद्धा जाता। ततः आंगल-कोमेर्से-सोष्योलजी विषयेषु पुनःपरीक्षा निर्दिष्टा। 

  प्रश्नपत्रस्रवणात्  नीट्-यू जी पुनःपरीक्षा सञ्चालनस्य लज्जाकरावस्थायां नेट् परीक्षादोषारोपः एन् टि ए संस्थाम् इतोSपि सङ्कीर्णताम् अनयच्च। 

 सेप्टम्बरमासे  नवम दशमदिन्ङ्कद्वये एव पुनःपरीक्षा निर्णीता।

 द्वौ एयर् इन्डिया वैमानिकावपि मादकवस्तुशोधनायां पराजितौ। 

नव दिल्ली> एयर् इन्डिया विमानसमवायस्य द्वौ वैमानिकौ च उन्मादकवस्तूपयोगपरिशोधनायां पराजितौ इति सूच्यते। एतयोः सूचिकर्मादर्शः [sample] स्थिरीकरणशोधनायै समर्पितः इति अधिकृतैः सूचितम्। 

  आगस्ट् चतुर्थदिनाङ्के एयर् इन्डियाविमानस्य व्योमगर्तपतनानन्तरं टाटा ग्रूप् समवायस्य अधीशत्वे वर्तमानानां सर्वेषां वैमानिकानां उन्मादकवस्तुपरिशोधना अवश्यंभाविनी कारिता। ४०० वैमानिकानां परिशोधना सम्पन्ना।

Tuesday, August 18, 2026

 केरलम् इति नामपरिवर्तनविधेयकस्य राष्ट्रपतेः अङ्गीकारः। 

नव दिल्ली> केरलराज्यस्य नाम बहुषु स्थानेषु 'केरल' इति उपयुज्यमानस्य स्थाने 'केरलम्' इति उपयोक्तुम् आधिकारिकाङ्गीकारः लब्धः। संसदः सभाद्वयेन अङ्गीकृते विधेयके राष्ट्रपतिः द्रौपदी मुर्मू हस्ताक्षरमकरोत्। आधिकारिकप्रमाणपत्रेषु परं केरल इत्यस्य स्थाने केरलम् इति प्रयोक्ष्यते।

 झार्खण्डे जे एस् एस् सि - सि जि एल् परीक्षाः निरस्ताः। 

उद्योगार्थिनां प्रक्षोभस्य विजयः। 

प्रक्षोभकाणां विजयाह्लादः। 

राञ्ची> २४ दिनानि यावत् झार्खण्डराज्यस्य राजधान्याम् उद्योगार्थिभिः क्रियमाणम् आन्दोलनं विजितम्। परीक्षाप्रक्रमस्य क्रमभङ्गेन प्रश्नपत्रप्रस्रवणेन च आरोपणविधेयाः जे एस् एस् सि [Jharkhand Staff Selection Commission] तथा  सि जि एल् परीक्षाः - Combined Graduate Level Examination -  निराकरिष्यन्तीति मुख्यमन्त्री हेमन्त सोरन् उदघोषयत्। 

  टि एस् आर् डेटा प्रोससिंग् [TSR Data processing] नामकेन अभिकरणेन आयोजिताः सर्वाः परीक्षाः तया कृताः सर्वे सर्वकारनियुक्तयश्च पूर्णतया निरस्ताः इति मुख्यमन्त्रिणा प्रस्तुतम्। 

  २०१४ तमवर्षादारभ्य राज्ये आयोजितानां सर्वकारनियुक्तिपरीक्षाणां  क्रमभङ्गान् अधिकृत्य गुप्तान्वेषणं करिष्यति। परीक्षाप्रक्रमाः सम्पूर्णतया परिष्करिष्यन्ति, सुतार्याः च भविष्यन्ति।

 'षेहसाद् भट्टी भीकरश्रृङ्खला' भञ्जिता इति केन्द्र गृहमन्त्री।

१४ राज्येभ्यः २५४ प्रवर्तकाः निगृहीताः। 

नव दिल्ली> ऐ एस् ऐ इति पाकिस्थानीचारसंघटनस्य सहयोगेन प्रवर्तमानस्य षेहसाद् भट्टी नामिका  भीकरश्रृङ्खला केन्द्र सुरक्षा संस्थाभिः भञ्जिता इति केन्द्र गृहमन्त्रिणा अमित शाहेन प्रस्तुतम्। राष्ट्रस्य १४ राज्येभ्यः  संघटनायाः २५४ प्रवर्तकाः निगृहीताः। स्वतन्त्रतादिनं लक्ष्यीकृत्य  आसूत्रिता बृहती भीकराक्रमणाभियोजना एव विनाशिता इति गृहमन्त्री अमित शाहवर्यः एक्स् नामकमाध्यमेन प्रकाशिते प्रस्तावे अभिमानितवान्। 

  उत्तरप्रदेशात् ६२ जनाः निगृहीताः। हरियानं (५२), दिल्ली (५१), पञ्चाबः (४४) इत्येतेभ्यः राज्येभ्यः अधिकतया भीकरप्रवर्तकाः निगृहीताः। राजस्थानं, महाराष्ट्रं, उत्तराखण्डः, कर्णाटकं, गुजरातः, बिहारं, तेलङ्कानं, हिमाचलः, जम्मू-काश्मीरं, केरलम् इत्येतेभ्यः राज्येभ्यः इतराः निगृहीताः। केन्द्र गुप्तान्वेषणसंस्थायै लब्धसूचनायाः आधारे राज्यस्थारक्षकसेनायाः सहयोगेन पूर्वोक्तेषु राज्येषु त्वरितशोधनां कृत्वा निग्रहणं कृतम्। 

  निगृहीतेभ्यः ग्रनेड-पिस्टलादीनि आयुधानि, सि सि टि वि दृश्योपकरणानि पाकिस्थाने निर्मितानि वस्तूनि च संगृहीतानि।

Monday, August 17, 2026

 यू एस् सैनिकानां शिरसे पारितोषिकम् उद्घोष्य इरानः। 

टेहरानं> ये इरानीयाः यू एस् सैनिकान् घ्नन्ति वा गृह्णन्ति तेषां कृते आर्थिकसम्मानानि उद्घोषितानि इरानेन। यदि महिलाः एतत्कर्म कुर्वन्ति चेत् ताभ्यः पारितोषिकं युगलीकरिष्यति। इरानस्य सेनामुख्यं अमीर् हातमी इत्येनं पुरस्कृत्य इर्ना नामिकया वार्तासंस्थया एवायं वत्तान्तः बहिरागतः। 

 किन्तु अस्य प्रवृत्तिपथे सन्देहो वर्तते। यतः इदानीं यू एसः इराने स्थलयुद्धं न करोति। अस्मिन् सन्दर्भे कथं यू एस् सैनिकान् हन्तुं निगृहीतुं वा शक्यते इति सन्देहः।

 केरले श्रावणोत्सवस्य विलम्बरकाहलं सम्पन्नम्। 

पूर्णवेदपुर्यां हस्तनक्षत्रघोषयात्रा वर्णशबलं जातम्। 

हस्त घोषयात्रायां प्रस्तुतानि कलारूपाणि।
 

तृप्पूणित्तुरा> केरलस्य देशीयोत्सवाय श्रावणोत्सवाय विलम्बरकाहलं पूर्णवेदपुर्यां [तृप्पूणित्तुरा नगरे] वर्णशबलेन सम्पन्नम्। ग्रामीणकलारूपाणि, नृत्त-कथाकेलिवेषाः, विविधाः भेरीतालमेलनानि, निश्चलदृश्यानि च सहस्रशः जनेषु आह्लादतरङ्गान् जनयामासुः। 

  'अत्तं नगरी'ति कृतनामधेये सर्वकारीयबालकोच्चविद्यालये [Govt Boys' High school] समायोजिते कार्यक्रमे मुख्यमन्त्री वि डि सतीशः हस्तनक्षत्रोत्सवस्य उद्घाटनमकरोत्। मन्त्री अनूप जेकबः हस्तपताकाम् उन्नीतवान्। प्रान्तस्थाः संसदीयसदस्याः, विधानसभासदस्याः, सांस्कृतिकप्रमुखाः, जानपदीयाधिकारिणी तथा अन्ये च  कार्यक्रमे भागं गृहीतवन्तः। 

  अत्तं नगरे समीपसभागारेषु च २५ तमदिनाङ्कपर्यन्तं विभिन्नाः सांस्कृतिक-कलाकार्यक्रमाः आयोज्यमानाः सन्ति। २६ तमे दिनाङ्के अस्ति 'तिरुवोणं' नाम सुदिनम्।

 NET परीक्षायामपि तालभङ्गः।

त्रिषु विषयेषु पुनः परीक्षा।

नव दिल्ली> कलालयशिक्षकाणां योग्यता परीक्षा नेट् [National Eligibility Test] इत्यस्मिन्नपि बहुदोषाः दृष्टाः इत्यतः त्रिषु विषयेषु पुनःपरीक्षां सञ्चालयितुं एन् टि ए संस्थया निश्चितम्। जूण् मासे सम्पन्नेषु ८७ विषयेषु English, Commerce, Sociology इत्येतेषु विषयेषु एव पुनःपरीक्षा विहिता।

  पूर्वोक्तानां विषयाणां प्रश्नपत्राणि अधिकृत्य बहवः दोषारोपाः सूचिताः। पूर्वकृतपरीक्षाभ्यः बहूनां प्रश्नानाम् आवर्तनं, अक्षन्तव्याः व्याकरणदोषाः, पण्डितानां नामसु दोषाः चिह्नेषु आशयेषु च दोषाः इत्यादयः बहवः क्रमभङ्गाः सूचिताः आसन्। अतः एषु विषयेषु पुनःपरीक्षा आवश्यकी इति एन् टि ए संस्थया रूपीकृतया समित्या निर्दिष्टा।

Sunday, August 16, 2026

 इन्डोनेष्यायां भूकम्पः

४७ मरणानि। 

भूकम्पे भग्नमेकं भवनम्। 

जकार्ता> इन्डोनेष्यायां फ्लोर्स् नामके द्वीपे शनिवासरे प्रभाते - प्रादेशिकसमयः- दुरापन्ने भूकम्पे पञ्चाशदधिके जनाः मृत्युमुपगताः। भूकम्पमापिन्यां ७. ७ अङ्कितमासीत्। ततः बहूनि पुनश्चलनानि अभूवन्। बहूनि भवनानि भग्नानि। मृत्युसंख्या वर्धिष्यते इति सूच्यते।

 युवकाः मार्गदर्शकाः इति प्रधानमन्त्री।

रक्तदुर्गे भाषमाणः प्रधानमन्त्री ।

नव दिल्ली> विकसितभारतं प्रति मुख्याः मार्गदर्शकाः युवकाः इति प्रधानमन्त्री नरेन्द्र मोदी अवोचत्। दिल्ल्यां रक्तदुर्गे आयोजिते राष्ट्रस्य ८० तमे स्वतन्त्रतादिनोत्सवे भाषमाणः आसीत् प्रधानमन्त्री । अनुस्यूततया १३तमवारं राष्ट्रियपताकाम् उन्नीय मोदिवर्यः युवजनानां कृते नैकानि उद्घोषणानि कृतानि। 

  राष्ट्रस्य समग्रविकसनाय सप्त क्षेत्राणि संयोज्य 'सप्तधाराभियोजना' च उद्घोषिता।

Saturday, August 15, 2026

 २०२७ जनसंख्यागणना।

प्रश्नावलिः बहिःप्रकाशिता। 


जातिवृत्तान्ताः संग्रहीष्यन्ते। 

नव दिल्ली> २०२७ मार्च् प्रथमदिनाङ्के आरप्स्यमाणायाः जनसंख्यागणनप्रक्रियायाः प्रश्नावलिः केन्द्रप्रशासनेन बहिःप्रकाशिता। ४० प्रश्नाः अन्तर्भूताः सन्ति। नवम, दशम प्रश्नरूपेण नागरिकाणां   धर्म-जातिवृत्तान्तः प्रश्नायते। राष्ट्रे प्रथमतया एव जनसंख्यागणनस्य अंशतया जातिवृत्तान्ताः अपि संगृह्यन्ते। 

 स्वातन्त्र्यलब्धेः परं संपद्यमाना अष्टमी जनसंख्यागणना भवत्येषा। सामान्यतया आगामि वर्षे मार्च् प्रथमदिनाङ्के एव जनसंख्यागणना आरप्स्यते। किन्तु जम्मु-काश्मीरं, लडाकं,हिमाचलप्रदेशः, उत्तराखण्डः इत्येषु प्रदेशेषु गणनप्रक्रियायाः प्रथमसोपानम् आगस्ट् १७ तमे दिनाङ्के आरप्स्यते। 

  जनसंख्यागणनायै ६१२८२ परिसंख्यानप्रवर्तकाः [Enumeraters] १०१८९ पर्यावेक्षकाः [supervisor] च नियुक्ताः। 


   

 भारत-श्रीलङ्का क्रिकट् निकषपरम्परा अद्य आरभ्य।

भारतस्य ६०० तमा निकषस्पर्धा। 

कोलम्बो> भारतस्य क्रिकट्गणस्य ६०० तमा निकषस्पर्धा इति विशेषणतया श्रीलङ्कां विरुध्य निकषपरम्परा शनिवासरे आरभ्यते। स्पर्धाद्वयात्मिकायाः परम्परायाः प्रथमस्पर्धा प्रभाते दशवादने आरप्स्यते। शुभमान गिलः अस्ति भारतगणस्य नायकः। 

  भारतदलस्य नूतनपरम्परा एव श्रीलङ्कया सह क्रीडति।  क्रीडकद्वयं विना सर्वे भारतीयक्रीडकाः प्रथमतया एव श्रीलङ्कां विरुध्य स्पर्धते।

 भारतस्य ८० तमं स्वतन्त्रतादिनम् अद्य। 


नवदिल्ली> आराष्ट्रम् अद्य ८० तमं स्वतन्त्रतादिनम् आमान्यते। दिल्ल्यां रक्तदुर्गे सम्पद्यमानः उत्सवः प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे सम्पत्स्यते। राष्ट्रियगीतस्य वन्दे मातरस्य १५० तमं वार्षिकं युवशक्तिश्च अस्य वर्षस्य स्वतन्त्रतादिनोत्सवस्य विषयौ स्तः। 

  इदं प्रथमतया रक्तदुर्गे वन्दे मातरगानं पूर्णतया आलपति।

Friday, August 14, 2026

 रक्तदुर्गे भीकराक्रमणं

अल् खायिदा उपसंघः इति यू एन्। 

यू एन्> २०२५ नवम्बर मासे नवदिल्ल्यां रक्तदुर्गे दुरापन्नस्य कार् बोम्बस्फोटनस्य पृष्ठभूमिकायाम् अल् खायिदा इति भीकरसंघटनस्य उपसंघः इति यू एन् संस्थया दृढीकृतम्। 

  ए क्यू ऐ एस् इति नामकेन भारतीयसंघटनेन एव स्फोटनं कृतमिति संयुक्तराष्ट्रसंघटनस्य रक्षासमित्याः आवेदनपत्रे सूच्यते। कश्चन प्रादेशिकभीकरसंघः इति रूपेण प्रस्तुतसंघः विकासमुपगच्छतीति आवेदनपत्रे निरीक्षते।

 संसदः वर्षाकालसम्मेलनं समाप्तम्।

सदा प्रक्षुब्धानि १९ दिनानि। 

मन्त्रिणः स्थानत्यागः, प्रधानमन्त्रिणः नाममात्रसान्निध्यं, गृहमन्त्रिणः विदूरस्थितिः। 

वन्दे मातरगानालापसमये  लोकसभा।

नव दिल्ली> भारतसंसदः १९ दिनात्मकं वर्षाकालसम्मेलनं सभाद्वये च सम्पूर्णं प्रक्षुब्धेन कोलाहलेन च विधाय समाप्तम्। लोकसभायां प्रश्नोत्तरवेला आकालं सम्पूर्णतया स्थगिता। जन्तर मन्तरे सि जे पी संघटनस्य  आन्दोलनं विरुध्य कृताः आरक्षकप्रक्रमाः आसन् विपक्षदलेन कृतस्य प्रक्षोभस्य कोलाहलस्य च मुख्यहेतुः। 

  गृहमन्त्रिणः अमित शाहस्य सभायाः पूर्णतया असान्निध्यं दिनं प्रति विपक्षदलीयानां रोषाय कारणमभवत्। प्रधानमन्त्रिणः नरेन्द्र मोदिनः नाममात्रसान्निध्यं च विमर्शकारणमभूत्। सि जे पी प्रक्षोभस्य कारणात् शिक्षामन्त्रिणः धर्मेन्द्र प्रधानस्य स्थानत्यागाय च सम्मेलनमिदं साक्षी अभवत्। 

  अस्मिन् सम्मेलनकाले १२ विधायकानि अनुमोदितानि। परीक्षासु क्रमभङ्गं निरोद्धुमुद्दिश्य नियमपरिष्करणं, राष्ट्रियबहुमतिषु अवहेलननिरोधः इत्यादीनि प्रमुखानि आसन्। किन्तु भूरिशः विधेयकानि चर्चां विनैव अनुमोदितानि।

  अन्तिमदिने , गुरुवासरे वन्देमातरगानस्य सम्पूर्णालापनं कृत्वा सभा अनिश्चितकालं प्रति विसृष्टा।

Thursday, August 13, 2026

 होर्मुसस्य उपरि यू एसस्य सम्पूर्णनियन्त्रणमस्तीति ट्रम्पः। 

वाषिङ्टणः> तन्त्रप्रधानः पण्यगमनागमनमार्गः होर्मुस् इत्यस्य समुद्रसङ्कोचस्य उपरि यू एस् राष्ट्रस्य सम्पूर्णनियन्त्रणाधिकारः अस्तीति राष्ट्रपतिः डोनाल्ड ट्रम्पः ट्रूत् सोष्यल् माध्यमद्वारा प्रस्तुतवान्। 

  जूण् मासे प्रबलीकृतः सन्धिः अमेरिकया उल्लंघितः इत्यस्मिन् विषये तद्राष्ट्रेण निष्कृतिः दातव्यः इति इरानेन निर्दिष्टमासीत्। अनेन होर्मुसम् आधारीकृत्य शाश्वतशान्त्यर्थं विधत्ताः व्यवहाराः निष्फलीकृताः अभवन्।

 'टाटा सण्स्' अध्यक्षः एन् चन्द्रशेखरः त्यागपत्रं समार्पयत्। 

एन् चन्द्रेशेखरः। 

मुम्बई> 'टाटा सण्स्' नामकोद्योगसाम्राज्यस्य अध्यक्षः एन् चन्द्रशेखरः त्यागपत्रं समर्पितवान्। दश वर्षाणि यावत् अध्यक्षस्थानम् अलङ्कुर्वतः तस्य २०२७ फेब्रुवरिपर्यन्तं कालपरिधिः अवशिष्यते। 

  एयर् इन्डिया संस्थायाः अधिग्रहणमभिव्याप्य नैकाः नूतनाभियोजनाः चन्द्रशेखरस्य नेतृत्वे आरब्धाः। किन्तु एयर् इन्डियायाः प्रवर्तनक्षेत्रे उद्भूताः विवादाः चन्द्रशेखरस्य प्रतिकूलाय अभवदिति सूच्यते।

Wednesday, August 12, 2026

 भूकम्पः।

कोलम्बियायाम् आपत्कालीनजागरूकता।

मरणानि १८१, आहताः १३००, अदृष्टाः ३०००।

भवनावशिष्टे अन्वेषणं कुर्वन्ति। 

पेरेरा> कोलम्बियाराष्ट्रे सोमवासरे दुरापन्ने भूकम्पे मृतानां संख्या १९१ अभवत्। १३०० जनाः आहताः इति प्राथमिकगणना। ८६तः अधिकानि भवनानि भग्नानि। ३००० तःअधिके जनाः अदृष्टाः इति सूच्यन्ते। तेषां कृते अन्वेषणं प्रचलन्ति। 

  मरणसंख्या इतोSपि वर्धिष्यते इति सूच्यते। राष्ट्रे देशीयापत्कालीनावस्था उद्घोषिता। पेरेरा नामके नगरे सन्ति अधिकतया कष्टनष्टानि वृत्तान्तीकृतानि। षट् विमाननिलयाः अल्पकालीनतया पिहिताः। पञ्चनगरेषु रक्तजागरूकता प्रख्यापिता।


  

 विमानस्य आकाशगर्तपतनं 

वैमानिकः मादकवस्तु उपयुक्तवान्।

नव दिल्ली> आगस्ट् चतुर्थदिनाङ्के ताय्लान्टतः नव दिल्लीं आगच्छत् एयर् इन्डियायाः यात्राविमानं आकाशगर्तं पतितम् इत्यस्यां घटनायां मुख्यवैमानिकः 'मरिजुवाना' नामकं उन्मादकवस्तु उपयुक्तवान् इति परिशोधनया स्पष्टीकृतम्। १३७ यात्रिकैः सह विमानं ३०० पादमितं गर्तं नियन्त्रणं विनश्य पतितमासीत्। 

 विवादास्पदायां  दुर्घटनायां वैमानिकौ परिशोधनाधीनौ अभवताम्। अत्रैव मुख्यवैमानिकं विरुध्य परिणतिः अजायत।

Tuesday, August 11, 2026

 झार्खण्ड परीक्षाक्रमभङ्गः।

उद्योगार्थिनां विधानसभासंचलने संघर्षः। 

राञ्ची> झार्खण्डराज्यस्य पि एस् सि संस्थया कृतेषु उद्योगार्थपरीक्षासु व्यापकतया क्रमभङ्गः विधत्तः इत्यारोप्य कतिपयदिनानि यावत् उद्योगार्थिभिः अनुवर्तमानः प्रतिषेधः गतदिने महति संघर्षे परिसमाप्तः। राज्य विधानसभां प्रति विधत्तं पथसंचलनं विरुध्य आरक्षकदलेन दण्डप्रयोगः, जलप्रक्षेपिणीप्रयोगः, अश्रुवायुस्फोटकानि च प्रयुक्तानि। महिलाः अभिव्याप्य बहवः क्षताः जाताः। 

  राष्ट्रे पि एस् सि, स्टाफ् सेलक्षन् संस्थाभिः कृतासु परीक्षासु भ्रष्टाचारम् आरोप्य गतानि १७ दिनानि यावत्  शतशः उद्योगार्थिनः महान्तं प्रतिषेधं कुर्वन्ति। षट्वारम् उद्योगार्थिभिः सह सर्वकारस्य चर्चा अभवदपि सर्वा पराजिता। १३ परीक्षासु क्रमभङ्गः विधत्तः इति आरोपणम्। किन्तु केवलं तिस्रः परीक्षाः निरस्तुं शक्यन्ते इति सर्वकारस्य वाग्दानं आन्दोलकैः निरस्तम्।

 कोलम्बियायां भूकम्पः - शताधिकानि मरणानि। 

विशीर्णभवनेषु रक्षाप्रवर्तनं कुर्वन्तः। 

बोगोट्टा> कोलम्बिया नामके दक्षिण अमेरिकीयराष्ट्रे प्रकम्पयन् बृहत्भूकम्पः। रिक्टर् मापिन्यां ७. ४ अङ्किते भूकम्पे न्यूनातिन्यूनं शतं जनाः मृताः। बहूनि भवनानि विशीर्णानि। भवनावशिष्टेषु बहवः लग्नाः वर्तन्ते। 

  राष्ट्रराजधानीनगरं बोगोट्टा इत्यस्मात् ४०० कि मी दूरे सोमवासरे आसीत् भूकम्पः। एक्वडोर् इति सीमाराष्ट्रे अपि भूकम्पस्य प्रकम्पनानि अनुभूतानि।