OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
Showing posts with label News in Sanskrit English Hindi. Show all posts
Showing posts with label News in Sanskrit English Hindi. Show all posts

Saturday, August 29, 2026

 ईशान्यभारते जगन्नाथसंस्कृतेः अन्वेषणम्

इम्फाल, अगस्त २६। News Avilable in Sanskrit| Hindi | English 

​           “ईशान्यभारते श्रीजगन्नाथसंस्कृतेः ऐतिहासिकान्वेषणम्—विशेषतः मणिपुरस्य सन्दर्भे” इति विषयमधिकृत्य भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR) प्रायोजिता द्विदिनात्मिका राष्ट्रियसङ्गोष्ठी अगस्त २५-२६ दिनाङ्कयोः इम्फालनगरे स्थिते Classic Grande इत्यत्र तथा च नम्बोलस्थे राधामाधव-आदर्श-संस्कृत-महाविद्यालये च सम्पन्ना।

​         अस्यां सङ्गोष्ठ्याम् ईशान्यभारते, विशेषतः मणिपुरे, श्रीजगन्नाथपरम्परायाः प्रभावमधिकृत्य गम्भीरः विचारविमर्शः अभवत्। ‘मणिपुरस्य वैष्णवपरम्परायाः कला-साहित्य-वास्तुशास्त्रेषु च जगन्नाथसंस्कृतेः गभीरः प्रभावः दृश्यते; एषा संस्कृतिः प्रादेशिकैकतायाः सुदृढः सेतुः अस्ति’ इति समुपस्थिताः विद्वांसः स्वप्रबन्धेषु प्रतिपादितवन्तः।

​         उद्घाटनसत्रे मुख्यातिथिः भारतस्य पूर्वशिक्षामन्त्री पूर्वविदेशमन्त्री च डॉ. आर. के. रञ्जनः अवदत् यत् — “ईशान्यभारतस्य सांस्कृतिकसमृद्धौ जगन्नाथपरम्परायाः योगदानम् ऐतिहासिकम् अतुलनीयं च अस्ति।” सत्रस्यास्य अध्यक्षतां राधामाधव-आदर्श-संस्कृत-महाविद्यालयस्य प्रशासनिकमण्डलस्य अध्यक्षः डॉ. पी. सनाजाओबा सिंहः अवहत्। मुख्यभाषणे भारतीय-ऐतिहासिक-अनुसन्धान-परिषदः (ICHR, New Delhi) प्रो. हरिहर-पण्डा मणिपुरस्य जगन्नाथसंस्कृतेः प्राचीनताम् ऐतिहासिकप्रमाणैः सह उपस्थापितवान्।

Thursday, August 27, 2026

 रेल्वे-परिसरस्य मालिन्यकरणे १,००० रूप्यकाणां दण्डः; नूतनः नियमः प्रवृत्तः।

​       नवदिल्ली > रेल्वे-स्थानकेषु रेलयानेषु च मालिन्यं कुर्वद्भ्यः जनेभ्यः इतः परं तीव्रदण्डः वोढव्यः भविष्यति। पूर्वं विद्यमानः ५०० रूप्यकाणां दण्डः १,००० रूप्यकाणि यावत् वर्धयित्वा रेल्वे-नियमे संशोधनं कृतम्। सोमवासरात् आरभ्य नूतना व्यवस्था प्रवृत्ता। दण्डदाने अस्वीकारे कृते अभियुक्तः न्यायालये उपस्थापयिष्यते। अपराधे सिद्धे सति न्यायालयः २,००० रूप्यकाणि यावत् दण्डं विधातुं शक्नोति। स्टेशन्-मास्टर्, स्टेशन्-मानेजर्, टिकट्-कलेक्टर् इत्येतेषां समानस्य वा तेभ्यः उच्चपदस्थस्य वा अधिकारिणः दण्डारोपणस्य अधिकारः अस्ति।

    ​रेलयानेषु रेल्वे-परिसरेषु वा अवकरप्रक्षेपः, निष्ठीवनं (spit), मलमूत्रविसर्जनम्, पशुपक्षिभ्यः भोजनप्रदानम्, अननुमतस्थानेषु पाककरणम् इत्यादयः क्रियाः अपि इतः परं दण्डनीयाः भविष्यन्ति। रेल्वे-परिसरे वस्त्राणां प्रक्षालनम्, वाहनानां प्रक्षालनम् वा अपि दण्डार्हाः अपराधाः सन्ति। एतदतिरिच्य रेल्वे-सम्पत्तेः नाशं कुर्वभ्योऽपि दण्डं दास्यन्ति। रेल्वे-स्थानकस्य परिसरेषु अनधिकृतं भित्तिलेखनं विज्ञापनानां लेपनं च दण्ड्यं भवति। English news👇

Friday, August 21, 2026

 नेहरू ट्रोफी नौकाकेलिः श्वः मध्याह्ने द्विवादने भविष्यति।

       आलप्पुषा> द्विसप्ततितमस्य नेहरू ट्रोफी नौकाकेल्याः उद्घाटनम् श्वः शनिवासरे मध्याह्ने द्विवादने केरलस्य मुख्यमन्त्री श्री वि डि सतीशः निर्वत्स्यति। उद्घाटनानन्तरं भागं गृह्णतां नौकानां सामूहिकसञ्चलनम् (mass drill) भविष्यति। तदनन्तरं सर्पनौकानाम् (snake boats) प्रारम्भिकस्पर्धाः,  अन्तिमस्पर्धा च भविष्यतः। २२ सर्पनौकाः आहत्य एकसप्तति नौकाः स्पर्धायां भागं स्वीकरिष्यन्ति। प्रातःकाले नववादनादारम्य नगरे गतागतनियन्त्रणमपि आयोजितमस्ति।

Monday, August 3, 2026

फेसबुक्-माध्यमात् प्रधानमन्त्रिणः मोदिनः लघुचलच्चित्रस्य स्थगनम्: 

ज़ुकर्बर्गः क्षमां याचेत इति सांसदानां समित्यध्यक्षः।

​        भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः एकं चलच्चित्रं (video) फेसबुक्-माध्यमात् अल्पकालं यावत् स्थगितम् (blocked) आसीत्। अस्मिन् विषये मेटा-संस्थायाः प्रमुखः मार्क्- ज़ुकर्बर्गः क्षमां याचेत इति सञ्चार-विषयक-संसदीकसमित्याः अध्यक्षः, भारतीयजनतापार्टी-दलस्य वरिष्ठनेता च उक्तवान्।

        ​सञ्चार-सूचनाप्रौद्योगिकी-विषयक-संसदीय-स्थायिसमित्याः अध्यक्षः, भाजपा-सांसदः निशिकान्त-दुबे महोदयः अवदत् यत् एताः अल्गोरिदं-प्रणाल्यः "वैदेशिक-शक्तिभिः" सञ्चाल्यन्ते। यदि एतानि सामाजिक-माध्यमतलानि* (social media platforms) देशस्य नियमानुकूलम् कार्यं न कुर्वन्ति, तर्हि तेभ्यः दत्तं 'सुरक्षित-आश्रय-संरक्षणम्' (safe harbour protection) निवर्तनीयम् इति तेन स्पष्टीकृतम्।

Newly used word

सामाजिक-माध्यमतलानि* (social media platforms (*NK)

Sunday, July 26, 2026

 प्रह्लादजोशी केन्द्रीयशिक्षामन्त्री

Pralhad Joshi

      ​नवदेहली> धर्मेन्द्रप्रधानस्य त्यागपत्रानन्तरं सर्वकारेण प्रह्लादजोशी नूतनकेन्द्रीयशिक्षा मन्त्री इति घोषितः। सम्प्रति खाद्य-सार्वजनिकवितरण-विभागयोः मन्त्रिरूपेण सेवां कुर्वन् प्रह्लादजोशी, स्वस्य वर्तमानभारैः सह शिक्षा मन्त्रालयस्य अधिकभारम् अपि वक्ष्यति।

​      सीजेपी (CJP) दलस्य विपक्षस्य च आन्दोलने तीव्रीभूते सति केन्द्रीयशिक्षा मन्त्री धर्मेन्द्रप्रधानः त्यागपत्रं दत्तवान्। सः प्रधानमन्त्रिणे नरेन्द्रमोदिने त्यागपत्रं प्रेषितवान्। आन्दोलनकारिणां मुख्ययाचनासु धर्मेन्द्रप्रधानस्य त्यागपत्रम् अन्यतमम् आसीत्। प्रधानः त्यागपत्रं न दद्यात् इति केन्द्रीयसर्वकारस्य स्थितिः आसीत्। किन्तु प्रधानस्य त्यागपत्रं विना न निवर्तिष्यामः इति आन्दोलनकारिभिः निश्चये कृते सर्वकारः अवनतः अभवत्। तदनन्तरमेव नूतनकेन्द्रीयशिक्षा मन्त्रिरूपेण प्रह्लादजोशी घोषितः।

For English/Hindi Version click Read More 👇

Saturday, July 25, 2026

 अर्जन्टीनायाः पादकन्दुकक्रीडकः मेस्सी सद्यः क्रीडायाः न विरमते। 

     ब्यूणस् ऐरिस्> मेस्सी सद्यः पादकन्दुक क्रीडायाः न विरमते। केचन मासाः यावत् अर्जन्टीनासंघेन साकं मेस्सी अनुवर्तिष्यति इति प्रतिवेदनम्। शीघ्रविरामः संघं बाधिष्यते इति कारणेनैव मेस्सी एतादृशनिर्णयः स्वीकृतः इति अर्जन्टीनायाः वार्तामाध्यमाः प्रतिवेदयन्ति। किन्तु आगामिननि विश्वचषके भागं स्वीकर्तुं सम्भावना नास्ति इत्यपि सूचयति।

For English/Hindi Version click Read More 👇

Wednesday, July 22, 2026

 पेरम्बूर्-निर्वाचन- प्रकरणे मुख्यमन्त्रिणे विजय् महोदयाय मद्रास्-उच्चन्यायालयस्य सूचना अभवत्।

​     चेन्नै> पेरम्बूर्-विधानसभाक्षेत्रात् विजयं सिद्धवन्तं तमिळनाडु-राज्यस्य मुख्यमन्त्रिणं विजय् जोसफं प्रति मद्रास्-उच्चन्यायालयः निर्वाचनयाचिकायाम् एकां सूचनां (Notice) प्रेषितवान्। मुख्यमन्त्रिणा सह अन्येभ्यः प्रत्यर्थिभ्यः अपि सूचनां दातुम् आदिष्टवान् न्यायालयः, तस्य अग्रिमं वादश्रवणं सप्ताहद्वयानन्तरं करिष्यति।

​डी.एम्.के. दलस्य प्रत्याशी आर.डी. शेखरः एतां याचिकां प्रस्तुतवान्। विजय्येन समर्पित-शपथपत्रे तस्य सम्पति-सम्बद्धानां तथा च अभियोग-सम्बद्धानां (cases) विवरणानां पूर्णतया प्रकटीकरणं न कृतम्, तथैव निर्वाचनव्ययस्य विवरणेषु महती विषमता अस्ति इति याचिकायां मुख्यः आरोपः अस्ति। अतः पेरम्बूर्-क्षेत्रे विजयस्य निर्वाचनं निरस्तं क्रियताम् इति याचिकया प्रार्थितम्। 

 पेरम्बूर्-निर्वाचन- प्रकरणे मुख्यमन्त्रिणे विजय् महोदयाय मद्रास्-उच्चन्यायालयस्य सूचना अभवत्।

​     चेन्नै> पेरम्बूर्-विधानसभाक्षेत्रात् विजयं सिद्धवन्तं तमिळनाडु-राज्यस्य मुख्यमन्त्रिणं विजय् जोसफं प्रति मद्रास्-उच्चन्यायालयः निर्वाचनयाचिकायाम् एकां सूचनां (Notice) प्रेषितवान्। मुख्यमन्त्रिणा सह अन्येभ्यः प्रत्यर्थिभ्यः अपि सूचनां दातुम् आदिष्टवान् न्यायालयः, तस्य अग्रिमं वादश्रवणं सप्ताहद्वयानन्तरं करिष्यति।

​डी.एम्.के. दलस्य प्रत्याशी आर.डी. शेखरः एतां याचिकां प्रस्तुतवान्। विजय्येन समर्पित-शपथपत्रे तस्य सम्पति-सम्बद्धानां तथा च अभियोग-सम्बद्धानां (cases) विवरणानां पूर्णतया प्रकटीकरणं न कृतम्, तथैव निर्वाचनव्ययस्य विवरणेषु महती विषमता अस्ति इति याचिकायां मुख्यः आरोपः अस्ति। अतः पेरम्बूर्-क्षेत्रे विजयस्य निर्वाचनं निरस्तं क्रियताम् इति याचिकया प्रार्थितम्।