आत्मनिर्भरभारतं स्वदेशीयनिर्मितायाः 'आन्टी सबमरैन् रोकट्'-प्रणाल्याः परीक्षणम् सफलम् अभवत्।
नवीदेहली> समुद्ररक्षाक्षमतायाः सुदृढीकरणाय नौसेनया स्वदेशे निर्मितस्य Anti-Submarine Rocket System इत्यस्य परीक्षणं सफलम् अभवत्। नौसेनायाः आधिकारिककथनानुसारम् 'ऐ.एन्.एस्. कवरत्ती' (INS Kavaratti) इत्यस्मात् 'एक्सटेंडेड् रेंज एन्टी-सबमरीन रोकट्' (ERASR) इत्यस्य परीक्षणमेव आसीत्। एतत् रोकेट् शीघ्रमेव नौसेनायां समाविष्टं भविष्यति इति आशास्यते। जूण्-मासस्य २३ तमदिनाङ्कात् जुलाई-मासस्य ७ तमदिनाङ्कपर्यन्तं परीक्षणानि अभवन्।
ERASR इत्यस्य निर्माणं रक्षाप्रौद्योगिकौ भारतस्य वर्धमानां स्वावलम्बतां दर्शयति। पुणे-नगरस्य 'डिफेन्स् रिसर्च् आन्ट डेवलपमेंट ऑर्गनाइसेषन्' (DRDO) इत्यस्य 'आर्मामेंट रिसर्च आन्ट् डेवलपमेन्ट् एस्टाब्लिष्मेंट्' (ARDE), 'हाई एनर्जी मेटेरियल्स् रिसर्च् लबोरेटरी', तथा च 'नेवल् सैंस् आन्ट् टेक्नोलजिकल् लबोरेटरी' इत्येतासां संस्थानां सहयोगेन ERASR विकसितम् अभवत्।
