भारत-आस्ट्रेलिया टि - २०
पञ्चमस्पर्धा वृष्टिस्थगिता; भारतस्य परम्परा।
'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः।
वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix] विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः।
१९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।
चतुरङ्ग विश्वचषकः
एरिगासि हरिकृष्णयोः विजयः।
पनजी> गोवाराज्ये अनुवर्तमानस्य विश्व चषकचतुरङ्गप्रतिद्वन्द्वस्य तृतीयचक्रस्य प्रथमक्रीडायां भारतीयौ अर्जुन एरिगासी, पि हरिकृष्णः एत्येतौ विजयीभूतौ। किन्तु विश्ववीरौ डि गुकेशः, आर् प्रग्नानन्दश्च समस्थितिविधेयौ अभूताम्।
भूतपूर्वः अवरज विश्वविजयी [Junior Champion] पि हरिकृष्णः बेल्जियराष्ट्रस्य दार्धा डैनियल नामकं पराजितवान्। एरिगासी तु उस्बकिस्थानस्य वोखिदोव षंसिदीनं च पराजितवान्।
केरलस्य राज्यस्तरीयः शास्त्रोत्सवः समारब्धः।
पालक्काट्> ५७ तमः राज्यस्तरीयः विद्यालयशास्त्रोत्सवः प्रौढोज्वलेन समारब्धः। शिक्षामन्त्री वि शिवन् कुट्टिः उद्घाटनमकरोत्। आगामिवर्षादारभ्य यः जनपदः राज्यस्तरीयशास्त्रमेलायां अधिकतमान् अङ्कान् सम्पादयिष्यति तस्मै जनपदाय सुवर्णचषकं दास्यतीति मन्त्रिणा निगदितम्।
वीथीशुनकानां विषये सर्वोच्चन्यायालयस्य सुप्रधानविधिः।
वीथिभ्यः शुनकाः अपनेतव्याः।
वीथिषु अलक्ष्येण अटनं कुर्वन्तः पशवः अपि अपनीय पालयितव्याः।
नवदिल्ली> विद्यालयाः, कलालयाः, आतुरालयाः, बस्-रेल् निस्थानानि इत्यादिषु स्थानेषु तथा च सर्वासां सामाजिककार्यनिर्वाहकभवनानां परिसरेभ्यः वीथीशुनकाः अपनेतव्याः इति सर्वोच्चन्यायालयेन आदिष्टम्। एवम् अपनीयमानान् शुनकान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं च कृत्वा ते अभयशिबिराणि प्रति नेतव्याः इति च नीतिपीठेन स्पष्टीकृतम्। न केवलं वीथीशुनकाः, राष्ट्रिय राज्यवीथिषु अलक्ष्येण अटनं कुर्वतः पशून् अपि अपनीय ते पृथक् बन्धनशालासु पालितव्याः इति च नीतिपीठेन उक्तम्।
शुनकप्रवेशनं निरुध्य सामाजिकसंस्थाः यष्ट्यावरणं कृत्वा संरक्षणीयाः। न्यायाधिपाः सन्दीप मेह्त,विक्रमनाथः, एन् वि अञ्जारिया इत्येतानां नीतिपीठेन अस्ति एषः आदेशः।
टि - २० चतुर्थस्पर्धा
आस्ट्रेलियां ४८ धावनाङ्कैः पराजयत।.webp)
अक्सर पटेलः।
गोल्ड् कोस्ट्> क्रीडकानां सर्वतोसमर्थप्रकटननेन [All round play] आस्ट्रेलियां विरुध्य चतुर्थी टि - २० क्रिकट् स्पर्धा ४८ धावनाङ्कैः भारतेन विजयीभूता। भारतं २० क्षेपणचक्रेषु १६७/८ , आस्ट्रेलिया १८. २ क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।
सर्वतोसमर्थाः अक्सर पटेलः, शिवं दुबे, वाषिङ्टण सुन्दरः इत्येतेषाम् उत्कृष्टक्रीडा एव उज्वलविजयस्य आधारः। २१ धावनाङ्कान् द्वारकद्वयं च लब्धवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। अनेन पञ्चस्पर्धोपेतायां परम्परायां भारतं २ - १ इति क्रमेण अग्रे वर्तते। अन्तिमस्पर्धा शनिवासरे सम्पत्स्यते।
बिहारे मतदानम् अभिलेखं प्राप्तं - ६४. ६६%।
पाट्ना> बिहारविधानसभानिर्वाचनस्य प्रथमचरणे ६४. ६६% मतदानिनः स्वाधिकारं विनियुक्तवन्तः। गतरात्रस्य अष्टवादने बहिरागतं गणनामनुसृत्य निर्वाचनीयोगेन निगदितमिदम्। इदं प्रथमतया एव मतदानमानम् एवम् उच्चतरं सम्प्राप्तम्। आयोगेन निगदितं यत् अस्य चरणस्य मतदानप्रक्रियायां महिलानां भागभागित्वमपि अधिकतरं वर्तते।
अन्ताराष्ट्रबहिराकाशनिलयस्य प्रवर्तनानि समापयितुं नासया उद्यम्यते।
![]() |
| अन्ताराष्ट्रियबहिराकाशनिलयः। |
दशकद्वयाधिकवर्षाणि यावत् मानवराशेः अधिवासगृहरूपेण प्रवर्तमानस्य अन्ताराष्ट्रबहिराकाशनिलयस्य [International Space Station] प्रवर्तनानि समापयितुं नासा संस्था तथा अन्ताराष्ट्रियभागभागिनः च निर्णयमकुर्वन्। २०३० तमे वर्षे शान्तसमुद्रस्थे जनवासरहिते 'पोयन्ट् नेमो' - Point Nemo - इत्यत्र नियन्त्रितरीत्या निपातयितुमेव उद्दिश्यते।
Space X deorbit vehicle इति वाहनमुपयुज्य भवति ISS इत्यस्य बहिरानयनम्। जनानां किमपि दोषकारणमभूत्वा पूर्णरीत्या नाशनमेव लक्ष्यम्। १९९८ तमे वर्षे निर्मितम् अन्ताराष्ट्रबहिराकाशनिलयः २००० तमवर्षतः मनुष्यस्य वासस्थानमस्ति।
वीथीश्वानकप्रकरणे श्वः सर्वोच्चन्यायालयस्य आदेशो भविष्यति।
नवदिल्ली> वीथिषु अटनं कुर्वतां अनाथशुनकानां विषये सर्वोच्चन्यायालयः नवम्बर मासस्य सप्तमे दिने अन्तिमादेशं विधास्यति। सर्वकारान् अभिव्याप्य इतरसंस्थाभिश्च अयं विषयः कथं व्यवहर्तव्यः इति मार्गनिर्देशाः आदेशे भविष्यन्ति। न्यायाधीशस्य विक्रमनाथस्य अध्यक्षतायां वर्तमानेन पीठेनैव आदेशः करिष्यते।
दिल्लीनगरस्थानां वीथीशुनकानां प्रकरणे पत्रिकावृत्तान्तस्य आधारे पञ्जीकृतं प्रकरणमस्ति सर्वोच्चन्यायालयस्य परिगणनायाम्। आगस्ट् ११ तमे दिनाङ्के आदिष्टं यत् नगरस्थान् वीथीशुनकान् गृहीत्वा ते अभयकेन्द्रेषु उषितव्याः। अस्मिन्नादेशे प्रतिषेधे जाते प्रकरणं विक्रमनाथस्य पीठं प्रति परिवर्तितम्। तस्य सुव्यक्तः आदेश एव श्वः प्रतीक्षते।
नवसु राज्येषु मतदायकावलीपरिष्करणम् आरब्धम्।
नवदिल्ली> भारते नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च समग्रं मतदायकावलीपरिष्करणम् [एस् ऐ आर्] मङ्गलवासरे समारब्धम्। मतदानकेन्द्रस्तरीयाधिकारिणः [Booth Level Officers - BLO] प्रतिगृहं गत्वा परिगणनापत्रं [enumeration form] पूरयिष्यन्ति। परिगणनाप्रक्रिया डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम् अनुवर्तिष्यते। संक्षिप्तमतदायकावलिः नवमदिनाङ्के प्रकाशयिष्यते।
केरलं, तमिलनाड्, उत्तरप्रदेशः, राजस्थानं, मध्यप्रदेशः, गुजरात्, छत्तीसगढ, गोवा इत्येतेषु राज्येषु पुतुच्चेरी, आन्टमान-निकोबारद्वीपसमूहः, लक्षद्वीपः इत्येषु केन्द्रशासनप्रदेशेषु च एस् ऐ आर् प्रचलिष्यति।
अफ्गानिस्थाने भूकम्पः - २० मरणानि।
काबूल्> अफ्गानिस्थाने खुलूमनगरस्य २२ २२ कि मी पश्चिमप्रदेशे सोमवासरे प्रत्युषसि दुरापन्ने भूकम्पे २० जनाः मृत्युमुपगताः। ५०० अधिके जनाः आहताः। मृत्युसंख्या इतोSप्यधिका भविष्यतीति सूच्यते।
भूकम्पमापिन्यां ६. ३ अङ्कितस्य भूकम्पस्य प्रभवः २८ कि मी मितम् अधः इति यू एस् 'जियोलजिकल् सर्वे' इत्यनेन सूचितम्। बल्ख् समन्खन् प्रान्तेषु अस्ति अधिकः विनाशः। ८००तः अधिकानि भवनानि विशीर्णानि। राजनगरे काबूले अपि भूकम्पस्य प्रकम्पनं जातम्।
भारतीयविद्यार्थिनाम् अपेक्षाः कानडया निरस्ताः।
टोरन्टो> कानडाराष्ट्रे बिरुदाध्ययनाय ऐषमवर्षे आगस्टमासे भारतात् समर्पितासु अपेक्षासु ७४% अधिकृतैः निरस्तम्। २०२३ तमे वर्षे केवलं ३३% अपेक्षाः एव निरस्ताः इति वार्ताप्रतिनिधिः रोयिटेर्स् इत्यनेन वृत्तान्तीकृतम्। विदेशछात्राणां संख्यां न्यूनीकर्तुं कानडायाः उद्यमः अस्ति।
बिहारनिर्वाचनं शान्तिपूर्णं भविष्यतीति ग्यानेष् कुमारः।
कान्पुरं [यू पि]> बिहारराज्ये विधानसभानिर्वाचनं शान्तिसंयुतं सुतार्यं च भविष्यतीति मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः निगदितवान्।
निर्वाचनाभ्यन्तरे उद्भाव्यमानानि अक्रमाणि येनकेनापि कारणेन सहिष्णुतां नार्हन्ति। सर्वेषां मतदानिनां लोकतन्त्रस्य उत्सवमामानयितुम् अवसरो लप्स्यते - मुख्यायोगेन प्रोक्तम्। नवम्बर् षष्ठे , ११तमे दिनाङ्के च चरणद्वयमालम्ब्य एव राज्ये निर्वाचनम्।
तृतीये टि - २० प्रतिद्वंद्वे भारतस्य विजयः।
होबर्ट्> आस्ट्रेलियां विरुध्य तृतीये विंशति - विंशति क्रिकट् प्रतिद्वन्द्वे भारतस्य पञ्च द्वारकाणां विजयः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया - २० क्षेपणचक्रेषु १८६/६ ; भारतं - १८. ५ क्षेपणचक्रेषु १८८/५। अनेन विजयेन पञ्चकोपेतायां परम्परायां उभे राष्ट्रे १ - १ इति समस्थितौ वर्तेते। आगामिक्रीडा गुरुवासरे सम्पत्स्यते।
बिहारविधानसभानिर्वाचनं
प्रचारः अत्युच्चस्तरे। प्रथमसोपानस्य घोषप्रचारः श्वः समाप्यते।
पट्ना> बिहारराज्ये विधानसभानिर्वाचनस्य प्रचरणम् अत्युच्चस्तरे प्रचाल्यते। एन् डि ए सख्यस्य महासख्यपक्षस्य राष्ट्रियनेतारः वरिष्ठनेतारश्च ऊर्जस्वलेन प्रचारस्य नेतृत्वमावहन्ति।
प्रधानमन्त्री नरेन्द्रमोदी गतदिने भोजपुरजनपदे बहुषु प्रदेशेषु पथसञ्चलनम् अभिसम्बुध्य भाषितवान्। पट्नानगरे वीथीप्रदर्शनकार्यक्रमे अपि मोदिवर्यः भागं गृहीतवान्।
कोण्ग्रस् नेता राहुलगान्धिः बगुसाराय्,खगारिया जनपदस्थयोः विविधेषु प्रदेशेषु आयोजितेषु सम्मेलनेषु जनान् अभिमुखीकृत्य महासख्यस्थानाशिनां कृते प्रचरणं कृतवान्। निर्वाचनस्य प्रथमचरणं षष्ठे दिनाङ्के सम्पत्स्यते। सघोषप्रचारणं श्वः समाप्स्यति।